CBSE Class 6 Sanskrit Sample Paper Set 1

We have given detailed NCERT Solutions for Class 6 Sanskrit come in handy for quickly completing your homework.

CBSE Class 6 Sanskrit Sample Paper Set 1

निर्धारित समय : 3 घंटे
पूर्णांक : 80

खण्ड: – क
अपठित-अवबोधनम्

प्रश्न 1.
अधोलिखितं अपठितं गद्याशं पठित्वा प्रश्नान् उत्तरत- (10)

पुरा अयोध्यायाः नृपः दशरथः आसीत्। तस्य त्रयः पुत्राः आसन्। तेषु श्रीरामः ज्येष्ठः पुत्रः आसीत्। श्रीरामस्य पत्नी सीता आसीत्। पितुः दशरथस्य वचनस्य पालनाय श्रीरामः लक्ष्मणसीताभ्याम् सह वनं अगच्छत्। वने रावणः सीताम् अहरत्। श्रीरामः रावणं हत्वा सीतां मोचितवान्।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 4 = 4)
(क) सीता कस्य पत्नी आसीत्?
(ख) अयोध्यायाः नृपः कः आसीत्?
(ग) कः सीताम् अहरत्?
(घ) रावणं कः अमारयत्?

II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) श्रीरामः किमर्थम् वनं अगच्छत्?
(ii) दशरथस्य कति पुत्राः आसन्?

III. निर्देशानुसारम् उत्तर- (1 × 2 = 2)
(i) ‘राजा’ इति पदस्य पर्यायः कः?
(क) पितुः
(ख) नृपः
(ग) ज्येष्ठः
(घ) त्रयः

(ii) ‘अगच्छत्’ इत्यत्र कः लकारः?
(क) लट्
(ख) लोट
(ग) लङ्
(घ) लृट्

खण्ड: – ख
रचनात्मक-कार्यम्

प्रश्न 2.
मञ्जूषातः उचितपदानि चित्वा चित्राणाम् नामानि संस्कृतेन लिखत- (1 × 4 = 4)

मञ्जूषा – कूपः, कृषकः, पितरौ, विद्युतव्यजनम्, शीतकम्, कमलम्

CBSE Class 6 Sanskrit Sample Paper Set 1 Q2

प्रश्न 3.
अधोलिखितशब्दान् आधृत्य सार्थकवाक्यानि रचयत- (4)

बालिकाः गायति
मयूराः गर्जतः
गायक: पठन्ति
सिंहौ नृत्यन्ति
  1. ____________
  2. ____________
  3. ____________
  4. ____________

प्रश्न 4.
मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत- (10)

पिपासितः, उपायम्, स्वल्पम्, पाषाणस्य, कार्याणि, उपरि, सन्तुष्टः, पातुम्, इतस्ततः, कुत्रापि

एकदा एकः काकः ___(1)___ आसीत्। सः जलं पातुम् ___(2)___ अभ्रमत्। परं ___(3)___ जलं न प्राप्नोत्। अन्ते सः एकं घटम् अपश्यत्। घटे ___(4)___ जलम् आसीत्। अतः सः जलम् ___(5)___ असमर्थः अभवत्। सः एकम् ___(6)___ अचिन्तयत्। सः ___(7)___ खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् ___(8)___ आगच्छत्। काकः जलं पीत्वा ___(9)___ अभवत्। परिश्रमेण एव ___(10)___ सिध्यन्ति न तु मनोरथैः।

खण्ड: – ग
अनुप्रयुक्त-व्याकरणं

प्रश्न 5.
वर्णसंयोजनं कृत्वा कोष्ठके पदं लिखत- (1 × 4 = 4)

यथा- ल् + इ + ख् + अ + त् + इ = लिखति

  1. ख + अ + न् + इ + त् + र् + अ + म् = _____________
  2. प् + उ + र् + आ + ण् + आ + न् + इ = _____________
  3. प् + अ + र् + ण् + अ + म् = _____________
  4. प् + उ + स् + त् + अ + क् + अ + म् = _____________

प्रश्न 6.
पदानां वर्णविच्छेदं कुरुत- (1 × 4 = 4)

यथा- शुनकः = श् + उ + न् + अ + क् + अः

  1. वातायानम् = _____________
  2. विमानम् = _____________
  3. पुस्तकम् = _____________
  4. लेखनी = _____________

प्रश्न 7.
कोष्ठकात् उचितं पदं चित्वा वाक्यं पूरयत- (1 × 4 = 4)

  1. _____________ समयं सूचयति। (घटिका / घटिके)
  2. _____________ पतन्ति। (पत्रे / पत्राणि)
  3. _____________ कूर्दति। (वानराः / वानरः)
  4. _____________ पठन्ति। (बालकाः / बालक:)

प्रश्न 8.
निर्देशानुसारं वाक्यानि रचयत- (1 × 4 = 4)

यथा- नारिकेलं पतति। (बहुवचने) = नारिकेलानि पतन्ति।

  1. पुष्पम्-विकसति। (द्विवचने) = _____________
  2. खगाः उत्पतन्ति। (एकवचने) = _____________
  3. अश्वः चलति। (द्विवचने) = _____________
  4. पेटिका अस्ति। (बहुवचने) = _____________

प्रश्न 9.
सः, तौ, ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत- (1 × 4 = 4)

  1. छात्रौ पठतः = _____________
  2. गजाः चलन्ति। = _____________
  3. बालकाः क्रीडन्ति। = _____________
  4. गायकः गायति। = _____________

प्रश्न 10.
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत- (1 × 5 = 5)

पश्यन्ति, चलति, लिखन्ति, विहरतः, नृत्यतः

  1. चटके ____________।
  2. मयरौ ____________।
  3. जनाः ____________।
  4. छात्राः ____________।
  5. पिपीलिका ____________।

खण्डः – घ
पठित-अवबोधनम्

प्रश्न 11.
अधोलिखितम् गद्यांशं पठित्वा प्रश्नान् उत्तरत- (5)

एकस्मिन् वने शृगालः बकः च निवसतः स्म। तयोः मित्रता आसीत्। एकदा प्रातः शृगालः बकम् अवदत्-“मित्र! श्वः त्वं मया सह भोजनं कुरु।” शृगालस्य निमन्त्रणेन बकः प्रसन्नः अभवत्।
अग्रिमे दिने सः भोजनाय शृगालस्य निवासम् अगच्छत्। कुटिलस्वभावः शृगालः स्थाल्यां बकाय क्षीरोदनम् अयच्छत्। बकम् अवदत् च-“मित्र! अस्मिन् पात्रे आवाम् अधुना सहैव खादावः।”

प्रश्ना:
I. एकपदेन उत्तरत- (1 × 2 = 2)
1. शृगालः बकः च कुत्र निवसतः स्म?
2. शृगालः बकाय किम् अयच्छत्?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
1. कस्य निमन्त्रेण बकः प्रसन्नः अभवत्?
2. शृगालः कीदृशः आसीत्?

III. निर्देशानुसारं कुरुत- (½ × 2 = 1)
1. ‘निमन्त्रेण’ इत्यत्र का विभक्तिः?
2. ‘आवाम्’ इति पदे कः पुरुषः?

प्रश्न 12.
अधोलिखितं पद्यांशं पठित्वा प्रश्नान् उत्तरत- (5)

कुत आगच्छसि मातुलचन्द्रः!
कुत्र गमिष्यसि मातुलचन्द्रः!

अतिशयविस्तृतनीलाकाशः
नैव दृश्यते क्वचिदवकाशः।
कथं प्रयास्यसि मातुलचन्द्रः!
कुत आगच्छसि मातुलचन्द्रः!

कथमायासि न भो! मम गेहम्
मातुल! किरसि कथं न स्नेहम्।

I. एकपदेन उत्तरत- (1 × 2 = 2)
1. अतिशयविस्तृतः कः?
2. मातुलः कः?

II. पूर्णवाक्येन उत्तरत- (2)
1. क: नैव दृश्यते?

III. यथानिर्देशानुसारं कुरुत- (½ × 2 = 1)
1. ‘गमिष्यसि’ इति पदे कः लकार:?
(क) लट
(ख) लृट्
(ग) लङ्
(घ) लोट

2. ‘गृहम्’ इति पदस्य पर्यायपदं किम्?
(क) गेहम्
(ख) स्नेह
(ग) मम
(घ) कथं

प्रश्न 13.
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत- (2)

तरू:, पयः, सततम्, खगाः

  1. निरंतरम्
  2. विहगाः
  3. वृक्षः
  4. जलम्

प्रश्न 14.
मञ्जूषातः विलोमपदानि चित्वा लिखत- (2)

दीर्घतमः, आकाशः, मित्रता, तमः

  1. पातालः
  2. शत्रुता
  3. लघुतमः
  4. प्रकाशः

प्रश्न 15.
उपकथनानाम् समक्षम् ‘आम्’ अनुपयुक्तकथनानाम् समक्षं ‘न’ इति लिखत- (6)

  1. कोच्चितटः नारिकेलफलेभ्यः ज्ञायते। ____________
  2. भारतस्य पूर्वदिशायाम् हिन्दमहासागरः अस्ति। ____________
  3. चेन्नईनगरस्य मेरीनातटः देशस्य सागरतटेषु दीर्घतमः। ____________
  4. वैनतेयः पशुः अस्ति। ____________
  5. अस्माभिः प्रियं न वक्तव्यम्। ____________
  6. पिकः श्वेतः भवति। ____________

प्रश्न 16.
घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनः लेखनीयानि- (½ × 6 = 3)

  1. एकदाः सः गृहम् गन्तुम् अवकाशं वाञ्छति।
  2. एषः अवकाशस्य अपि वेतनं ग्रहीष्यति।
  3. परम् एतदर्थं त्वं वस्तुद्वयम् आनय।
  4. स्वामी चतुरः आसीत्।
  5. अजीजः स्वामिनः एव सेवायां लीनः आसीत्।
  6. अहम् तुभ्यम् अवकाशस्य वेतनस्य च सर्वं धनं दास्यामि।

प्रश्न 17.
श्लोकांशान् मेलयत- (4)

(क) (ख)
1. गृहं जीर्णं न वर्षासु तौ तु क्षेत्राणि कर्षतः।
2. हलेन च कुदालेन या शुष्का कण्टकावृता।
3. पादयोन पदत्राणे वृष्टिं वारयितुम् क्षमम्।
4. धरित्री सरसा जाता शरीरे वसनानि नो

CBSE Class 7 Sanskrit Sample Paper Set 5

We have given detailed NCERT Solutions for Class 7 Sanskrit come in handy for quickly completing your homework.

CBSE Class 7 Sanskrit Sample Paper Set 5

निर्धारित समय : 3 घंटे
अधिकतम अंक : 80

खण्ड: – क
अपठित-अवबोधनम्

प्रश्न 1.
अधोलिखितं अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत- (10)

पुरा छात्राः गुरुकुलं गत्वा विद्यां प्राप्नुवन्ति स्म। गुरुकुले गुरुशिष्य-परम्परा प्रचलिता आसीत्। आचार्यः स्वशिष्येषु पुत्रवत् स्निह्यति स्म। आचार्य कदापि स्वज्ञानस्य व्यापारम् न अकरोत्। गुरुदक्षिणारुपेण आचार्यः केवलं इदम् एव वाच्छति स्म यत् तस्य शिष्यः स्वज्ञानस्य सुप्रयोगम् एव कुर्यात्। शिष्याः आचार्यस्य सम्मानम् कुर्वन्ति स्म। छात्राः आचार्येण कथिते मार्गे एव चलन्ति स्म। धन्या एतादृशी गुरुपरम्परा।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) छात्राः कुत्र गत्वा विद्यां प्राप्नुवन्ति स्म?
(ii) कः शिष्येषु पुत्रवत् स्निह्यति स्म?

II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) गुरुशिष्य परम्परा कुत्र प्रचलिता आसीत्?
(ii) गुरुदक्षिणारूपेण गुरुः किम् वाञ्छति स्म?

III. यथानिर्देशम् उत्तरत- (2 × 2 = 4)
(क) ‘चलन्ति स्म’ इति क्रियापदस्य कर्तृपदम् किम्?
(i) शिष्याः
(ii) आचार्णण
(iii) कथिते
(iv) मार्गे।

(ख) ‘अकरोत्’ इति पदे कः लकार:?
(i) लट्
(ii) लङ्
(iii) लृट्
(iv) लोट्।

खण्ड: – ख
रचनात्मक कार्यम्

प्रश्न 2.
मञ्जूषातः उचितपदानि चित्वा अनुच्छेदस्य रिक्तस्थानानि पूरयत- (10)

मञ्जूषातः – श्लोकसंख्या, श्रीरामचन्द्रस्य, विदुषां, लिखितं, अवश्यमेव, वाल्मीकिः, प्रियपुस्तकम्, नारायणावताररूपेण, किष्किन्धा, सप्तकाण्डानि।

आदिकाव्यं, रामायणं मम ______(1)______ अस्ति। मर्यादापुरुषोतमस्य ______(2)______ पावनं चरित्रं रामायणे प्राप्यते। अस्य आदिकाव्यस्य लेखक: महर्षिः ______(3)______ आसीत्। अतएव तस्य रचना ‘आदिकाव्य’ इति ______(4)______ मतम्। रामायणम् अनुष्टुप् छन्दसि ______(5)______। रामायणे ______(6)______ चतुर्विशति सहस्त्रम् वर्तते। रामायणे ‘बाल अयोध्या-अरण्य ______(7)______ सुन्दर लंका-उत्तर इति’ सप्त ______(8)______ विद्यन्ते। रामायणे श्रीरामचन्द्रस्य ______(9)______ वर्णनं उपलभ्यते। मानवैः जीवने रामायणं ______(10)______ पठनीयम्।

प्रश्न 3.
वाक्यानि रचयत- (1 × 5 = 5)

  1. मुनिः ____________
  2. नरः ____________
  3. महिला ____________
  4. प्रतिदिनम् ____________
  5. ईश्वरः ____________

प्रश्न 4.
चित्रम् दृष्ट्वा मञ्जूषायाम् प्रदत्तशब्दानाम् सहायतया पञ्चवाक्यानि पूरयत- (1 × 5 = 5)

प्रसन्नाः, शीतपेयम्, समुद्रतटस्य, नौका, नारिकेलवृक्षाः

CBSE Class 7 Sanskrit Sample Paper Set 5 Q4

  1. इदम् चित्रम् ____________ अस्ति।
  2. समुद्रतटे ____________ सन्ति।
  3. समुद्रजले ____________ चलति।
  4. समुद्रतटे एकः नरः ____________ पिबति।
  5. सर्वे जनाः ____________ दृश्यन्ते।

खण्ड: – ग
अनुप्रयुक्त-व्याकरणं

प्रश्न 5.
अधोलिखितवाक्येषु रेखाङ्कितपदानां समुचितं सन्धि सन्धि-विच्छेदं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत- (1 × 4 = 4)

(क) वार्ता अति + इव महत्त्वपूर्णा आसीत्।
(i) अतिव
(ii) अतीव
(iii) अतीइव
(iv) अत्यीव

(ख) अद्य सहसैव वृष्टिः आगता।
(i) सहसा + एव
(ii) सह + सैव
(iii) सहस + एव
(iv) सहसा + इव।

(ग) छात्राः पुस्तकालये पुस्तकानि पठन्ति।
(i) पुस्तक + आलये
(ii) पुस्तक + लये
(iii) पुस्त + कालये
(iv) पुस्तक + अलये

(घ) इति + उक्त्वा अर्जुन : तूष्णीं अभवत्।
(i) इतीक्त्वा
(ii) इत्युक्त्वा
(iii) इत्युक्त्वा
(iv) इतिउकत्वा

प्रश्न 6.
उदाहरणानुसारं शब्दरूपेषु रिक्तस्थानानि पूरयत- (½ × 6 = 3)

CBSE Class 7 Sanskrit Sample Paper Set 5 Q6

प्रश्न 7.
(अ) अधोलिखितान समयवाचकान् अङ्कान् पदेषु लिखत- (½ × 2 = 1)

  1. 10 : 30 ______
  2. 9 : 00 ______

(ब) मञ्जूषातः अङ्कान् कृते पदानि चिनुत। (½ × 2 = 1)
एकादश, नवतिः, पञ्चदश, विंशतिः
20, 15, 90, 11

प्रश्न 8.
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत- (1 × 3 = 3)

(i) राघवः ____________ फलानि खादति। (मधुरं, मधुराः, मधुराणि)
(ii) वयम् ____________ ग्रहान् गणयाम। (सर्वं, सर्वान्, सर्वा)
(iii) ____________ गगने वायुविहारं करवाम। (नीलं, नीले, नीलः)

प्रश्न 9.
उचितं विभक्तिपदं चित्वा वाक्यपूर्तिः कुरुत- (1 × 4 = 4)

1. नभ: ____________ शोभते
(क) चन्द्रः
(ख) चन्द्रेण
(ग) चन्द्रम्
(घ) चन्द्राय

2. ____________ नमः।
(क) शिवं
(ख) शिवाय
(ग) शिवः
(घ) शिवात्

(3) अध्यापकः ____________ क्रुध्यति।
(क) शिष्यं
(ख) शिष्याय
(ग) शिष्ये
(घ) शिष्यः

(4) ____________ परितः वृक्षाः सन्ति।
(क) ग्राम्
(ख) ग्रामः
(ग) ग्रामाः
(घ) ग्रामात्

प्रश्न 10.
उदाहरणानुसारं धातुरूपेषु रिक्तस्थानानि पूरयत- (1 × 5 = 5)

CBSE Class 7 Sanskrit Sample Paper Set 5 Q10

प्रश्न 11.
मञ्जूषातः समुचित पदानि चित्वा वाक्यपूर्तिः क्रियताम्। (1 × 4 = 4)

अलम्, बहिः, मा, उपरि

  1. मञ्चस्य ____________ गायिकाः तिष्ठन्ति।
  2. ____________ कोलाहलेन।
  3. असत्यं ____________ वद।
  4. नगरात् ____________ नदी वहति।

खण्ड: – घ
पठित-अवबोधनम्

प्रश्न 12.
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (4)

(क) अधुना निखिले संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति। मानवाः परस्परम् न विश्वसन्ति। ते परस्य कष्टम् स्वकीयं कष्टम् न गणयन्ति। अपि च समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं स्थापयन्ति। संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते। देशानाम् विकासः अपि अवरुद्धः भवति।

प्रश्नाः
I. एकपदेन उत्तरत- (½ × 2 = 1)
(i) के परस्परं न विश्वसन्ति?
(ii) केषाम् विकासः अवरुद्धः भवति?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
(i) संसारे सर्वत्र कीदृशी भावना दृश्यते?
(ii) संसारे कस्य वातावरणम् अस्ति?

III. निर्देशानुसारं उत्तरत- (½ × 2 = 1)
(क) ‘सम्पूर्णे’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(i) परस्य
(ii) निखिले
(iii) अशान्ते:
(iv) दृश्यते

(ख) ‘प्रदर्शयन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(i) समर्थाः
(ii) देशाः
(iii) देशान्
(iv) उपेक्षाभावं

अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (4)

(ख) सर्वदा व्यवहारे स्यात् औदार्यं सत्यता तथा।
ऋजुता मृदुता चापि कौटिल्यं न कदाचन।।

प्रश्ना:
I. एकपदेन उत्तरत- (½ × 2 = 1)
(i) व्यवहारे कदाचन किम् न स्यात्?
(ii) सत्यता कदा व्यवहारे स्यात्?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
(i) व्यवहारे सर्वदा का का स्यात्?

III. यथानिर्देशं कुरुत- (½ × 2 = 1)
(क) ‘सरलता’ इति पदस्य समानार्थकपदं किम्?
(i) मृदुता
(ii) ऋजुता
(iii) सत्यता
(iv) सर्वदा

(ख) ‘सर्वदा व्यवहारे स्यात् औदार्यं’ इत्यत्र क्रियापदं किम्?
(i) स्यात्
(ii) सर्वदा
(iii) व्यवहारे
(iv) औदार्य

प्रश्न 13.
श्लोकांशान् मेलयत- (4)

(क) (ख)
1. सत्येन धार्यते पृथ्वी विद्यायाः संग्रहेषु च।
2. आहारे व्यवहारे च सर्व सत्येन प्रतिष्ठितम्।
3. सत्येन वाति वायुश्च सत्येन तपते रविः।
4. धनधान्यप्रयोगेषु त्यक्तलज्जः सुखी भवेत्।

प्रश्न 14.
विलोमपदानि मेलयत- (½ × 6 = 3)

(क) (ख)
1 उन्नतः विर्कीय
2. गगने अवनतः
3. चित्वा पृथिव्याम्
4. दु:खी शोकः
5. हर्षः असुन्दरः
6 सुन्दरः सुखी

प्रश्न 15.
मञ्जूषातः समानार्थकपदानि चित्वा लिखत- (½ × 6 = 3)

पृथ्वी, अपायः, दृष्ट्वा, कूर्मः, भृत्यः, अधुना

  1. वसुन्धरा ____________
  2. कच्छपः ____________
  3. हानिः ____________
  4. अधुना ____________
  5. वीक्ष्य ____________
  6. सेवकः ____________

प्रश्न 16.
स्थूलपदानां स्थाने समुचितं प्रश्नवाचकं प्रदत्तविकल्पेभ्यः चित्वा प्रश्ननिर्माणं कुरुत- (1 × 4 = 4)

(क) पुष्पेषु चित्रपतङ्गाः डयन्ते।
(i) कासु
(ii) केषु
(iii) काः
(iv) कस्मिन्

(ख) सलिले नौका सेलति।
(i) का
(ii) कः
(iii) काः
(iv) के

(ग) पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवति।
(i) काभ्यः
(ii) केभ्यः
(iii) कः
(iv) काभिः

(घ) कर्मकराः सेतोः निर्माणम् कुर्वन्ति।
(i) कः
(ii) काः
(iii) के
(iv) किम्

प्रश्न 17.
आम् / न इति लिखत- (1 × 3 = 3)

  1. वने व्याघ्रः गर्जति। ____________
  2. सिंह: नीचैः क्रोशति। ____________
  3. अनारिका गृहम् आगत्य मातरम् अपृच्छत्। ____________

CBSE Class 7 Sanskrit Sample Paper Set 4

We have given detailed NCERT Solutions for Class 7 Sanskrit come in handy for quickly completing your homework.

CBSE Class 7 Sanskrit Sample Paper Set 4

निर्धारित समय : 3 घंटे
अधिकतम अंक : 80

खण्ड: – क
अपठित-अवबोधनम्

प्रश्न 1.
अधोलिखितम् अनुच्छेदम् पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत- (10)

जीवने धनस्य अत्यधिकं महत्त्वम् अस्ति। धनेन जीवननिर्वाहः भवति। धनं विना वयं कथं भोजनम् अपि प्राप्तुम् शक्नुमः? परन्तु यदि लोभेन वयं अन्धाः भूत्वा अधिकाधिकम् धनम् इच्छामः, अनुचितसाधनानाम् प्रयोगं कुर्मः, तर्हि तेन धनेन दुःखमेव भविष्यति। तस्य रक्षणे एव समयः व्यतीतः भवति अतः वयम् उचितसाधनैः एव धनार्जनं कुर्याम। अन्यस्य धनं प्रति कदापि लोभः न कर्तव्यः। ये असहायाः सन्ति तेषाम् यथाशक्ति साहाय्यं कुर्याम।

प्रश्ना:
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) धनं प्रति कदापि क: न कर्तव्यः?
(ii) जीवने कस्य अत्यधिकं महत्त्वम् अस्ति?

II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) वयम् कथम् धनार्जनं कुर्याम?
(ii) धनस्य रक्षणे किम् भवति?

III. यथानिर्देशं उत्तरत- (2 × 2 = 4)
(क) ‘भविष्यति’ इति पदे कः लकार:?
(i) लट
(ii) लृट्
(iii) लङ्
(iv) लोट

(ख) ‘शक्नुमः’ इति क्रियापदस्य कर्तृपदं किम्?
(i) वयम्
(ii) धनं
(iii) विना
(iv) कथ

खण्ड: – ख
रचनात्मकं लेखनम्

प्रश्न 2.
मञ्जूषातः पदानि चित्वा अनुच्छेदस्य रिक्तस्थानानि पूरयत- (10)

प्रकाराः, चर्चा, प्रदर्शनम्, भवितव्यम्, करणीयः, सुखम्, पुष्ट्म, पौष्टिकम्, अतएव, व्यायामेन

अस्मिन् संसारे सर्वे जनाः ________(1)________ इच्छन्ति। शरीरं नीरोगं ________(2)________ च भवेत्। स्वास्थ्यलाभाय व्यायामः कर्तव्यः। व्यायामस्य विविधाः ________(3)________ सन्ति यथा क्रीडा, धावनम्, भ्रमणम्, आसनम् इत्यादयः। अद्यत्वे आसनानाम् प्राणायामस्य च बहु ________(4)________ वर्तते। गृहे जनाः दूरदर्शने तेषाम् ________(5)________ दृष्ट्वा स्वयमपि आचरन्ति। शरीरं हृष्टं पुष्टं बलिष्ठं च ________(6)________। सुस्वादु ________(7)________ भोजनं आवश्यकम्। ________(8)________ शरीरे रक्तस्य संचारः सम्यक् भवति। ________(9)________ मनुष्येण प्रातः एव व्यायामः ________(10)________।

प्रश्न 3.
वाक्यानि रचयत- (1 × 5 = 5)

  1. पुस्तकालय
  2. कलमेन
  3. मार्गः
  4. जनकः
  5. आकाशे

प्रश्न 4.
चित्रं दृष्ट्वा मञ्जूषायाम् प्रदत्तशब्दानानाम् सहायतया पञ्चवाक्यानि पूरयत- (1 × 5 = 5)

कृषकौ, कुटीरः, वृषभशकटेन, ग्रामस्य, कमलम्

CBSE Class 7 Sanskrit Sample Paper Set 4 Q4

  1. इदम् चित्रम् ________ अस्ति।
  2. द्वौ ________ वार्तालापम् कुरुतः।
  3. सरोवरस्य जले ________ विकसति।
  4. कृषक: ________ अन्नानि नयति।
  5. चित्रे एकः ________ अपि अस्ति।

खण्ड: – ग
अनुप्रयुक्त-व्याकरणं

प्रश्न 5.
वाक्येषु रेखाङ्कितपदानाम् समुचितं सन्धिं सन्धिविच्छेदं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत- (4)

(क) राकेशः पाठं पठति।
(i) राक + ईशः
(ii) राका + ईशः
(iii) राक + ऐशः
(iv) राका + इशः

(ख) धर्म + अन्धः न भवेत्।
(i) धर्मांधः
(ii) धर्मन्धः
(iii) धर्माधः
(iv) धमान्धः

(ग) प्रातः सूर्य + उदयः भवति।
(i) सूर्यदयः
(ii) सूर्योदयः
(iii) सूर्यउदयः
(iv) सूर्योदयः

(घ) नारदः देवर्षिः अस्ति।
(i) देव + ऋषिः
(ii) देव + र्षिः
(iii) देव + रिषि
(iv) देव + षिः

प्रश्न 6.
उदाहरणानुसारं शब्दरूपेषु रिक्तस्थानानि पूरयत- (1 × 4 = 4)

CBSE Class 7 Sanskrit Sample Paper Set 4 Q6

प्रश्न 7.
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत। (1 × 4 = 4)

च, न, कदाचन, सदा

  1. असत्यं …………………………. वक्तव्यम्।
  2. महात्मागांधी ………. अहिंसा न अत्यजत्।
  3. भक्तः …………………….. ईश्वरं स्मरति।
  4. लता मेघा … ……. विद्यालयं गच्छतः।

प्रश्न 8.
मञ्जूषातः समुचितपदानि चित्वा रिक्तस्थानानि पूरयत- (1 × 4 = 4)

उदेति, क्रीडन्ति, कूजन्ति, विकसन्ति

  1. उद्याने पुष्पाणि ________।
  2. पूर्वदिशायाम् सूर्यः ________।
  3. क्रीडाक्षेत्रे बालकाः ________।
  4. वृक्षे खगाः ________।

प्रश्न 9.
प्रदत्तविकल्पेभ्यः उचितविभक्तिपदं चित्वा वाक्यपूर्तिः क्रियताम्। (1 × 4 = 4)

  1. ________ नमः। (हरिं / हरये / हरिः)
  2. ________ परितः वृक्षाः सन्ति। (ग्रामम् / ग्रामस्थ / ग्राम:)
  3. ________ उपरि खगाः तिष्ठन्ति। (वृक्षम् / वृक्षस्य / वृक्षाः)
  4. ________ विना जीवननिर्वाहः न भवति। (धनं / धन: / धनस्य)

प्रश्न 10.
उदाहरणानुसारं धातुरुपेषु रिक्तस्थानानि पूरयत- (½ × 6 = 3)

CBSE Class 7 Sanskrit Sample Paper Set 4 Q10

प्रश्न 11.
उदाहरणानुसारं पदरचनां कुरूत- (1 × 2 = 2)

यथा- वसन्ति स्म – अवसन्

  1. लिखन्ति स्म ________
  2. गच्छन्ति स्म ________

खण्ड: – घ
पठित-अवबोधनम्

प्रश्न 12.
अधोलिखितम् गद्यांशं पठित्वा प्रश्नान् उत्तरत- (5)

(क) चटका अवदत्- “दुष्टेनैकेन गजेन मम सन्ततिः नाशिता। तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्।” ततः काष्ठकूटः तां वीणा- नाम्नयाः मक्षिकायाः समीपम् अनयत्। तयोः वार्ता श्रुत्वा मक्षिका अवदत्- “ममापि मित्रं मण्डूकः मेघनादः अस्ति। शीघ्रं तमुपेत्य यथोचितं करिष्यामः।” तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम्

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
1. मण्डूकस्य अभिधानम् किम् अस्ति?
2. काष्ठकूटः चटकां कस्याः समीपं अनयत्?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
1. चटकायाः काष्ठकूटस्य वार्ता श्रुत्वा मक्षिका किम् अवदत्?

III. निर्देशानुसारम् कुरूत- (½ × 2 = 1)

(क) ‘करिष्यामः’ इति पदे किम् वचनम्?
(i) एकवचनम्
(ii) द्विवचनम्
(iii) बहुवचनम्

(ख) ‘मक्षिकया’ इति पदे का विभक्तिः?
(i) षष्ठी
(ii) तृतीया
(iii) प्रथमा
(iv) द्वितीया

(ख) अधोलिखितं पद्यांशं पठित्वा प्रश्नान् उत्तरत- (4)

न चौरहार्यं न च राजहार्य
न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धत एव नित्यम्
विद्याधनं सर्वधनप्रधानम्।।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
1. विद्याधनं कीदृशं धनं अस्ति?
2. चौरहार्यं किम् न अस्ति?

II. पूर्णवाक्येन उत्तरत- (1 × 1 = 1)
1. व्यये कृते किम वर्धते?

III. यथानिर्देशं उत्तरत- (½ × 2 = 1)

(क) ‘व्यये कृते वर्धते’ अत्र क्रियापदं किम्?
(i) व्यये
(ii) कृते
(iii) वर्धते
(iv) किमपि न

(ख) निम्नलिखितपदेषु किम् अव्ययपदम् न अस्ति।
(i) न
(ii) च
(ii) धनं
(iv) एव

प्रश्न 13.
श्लोकांशान् मेलयत- (4)

(क) (ख)
1. उन्नतवृक्षं तुझं भवनं वसुधैव कुटुम्बकम्।
2. कृत्वा हिमवन्तं सोपानं क्रान्त्वाकाशं खलुयाम।
3. अयं निजः परो वेति चन्दिरलोकं प्रविशाम।
4. उदारचरितानां तु गणना लघुचेतसाम्।

प्रश्न 14.
विलोमपदानि मेलयत- (½ × 4 = 2)

(क) (ख)
1. मन्दम् नूतनम्
2. नीचैः स्निग्धम्
3. कठोरः पर्याप्तम्
4. पुरातनम् उच्चैः

प्रश्न 15.
मञ्जूषातः समानार्थकपदानि चित्वा लिखत- (3)

करालम्, विपिने, हरिणः, सलिले, अन्यस्य, अश्वः

  1. भयङ्करम् ________
  2. मृगः ________
  3. जले ________
  4. वने ________
  5. घोटकराजः ________
  6. परस्य ________

प्रश्न 16.
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- (1 × 3 = 3)

(क) सत्येन वाति वायुः।
(i) केन
(ii) कान्
(iii) काम्
(iv) कम्

(ख) वसुन्धरा बहुरत्ना भवति।
(i) कः
(ii) का
(iii) कां
(iv) किम्

(ग) श्रीकण्ठस्य भवने सुखसाधनानि आसन्।
(i) कस्य
(ii) कस्याः
(iii) कः
(iv) किम्

प्रश्न 17.
घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनर् लेखनीयानि। (½ × 8 = 4)

  1. गजः महतः गर्तस्य अन्तः पतितः।
  2. पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म।
  3. चटकायाः नीडम् भुवि अपतत्।
  4. मक्षिका गजस्य कर्णे शब्दं कृतवती।
  5. गजः शुण्डेन शाखाम् अत्रोटयत्।
  6. कालेन चटकायाः सन्ततिः जाता।
  7. तृषार्तः गजः जलाशयं अगच्छत्।
  8. मक्षिकायाः मित्रं मण्डूक: मेघनादः आसीत्।

CBSE Class 7 Sanskrit Sample Paper Set 3

We have given detailed NCERT Solutions for Class 7 Sanskrit come in handy for quickly completing your homework.

CBSE Class 7 Sanskrit Sample Paper Set 3

निर्धारित समय : 3 घंटे
अधिकतम अंक : 80

खण्ड: – क
अपठित-अवबोधनम्

प्रश्न 1.
अधोलिखितम् अनुच्छेदम् पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत- (10)

पुरा एकस्य नृपस्य एकः प्रियः वानरः आसीत्। एकदा नृपः सुप्तः आसीत्। वानरः व्यजनेन तम् अवीजयत्। तदैव एका मक्षिका नृपस्य नासिकायाम् उपाविशत्। यद्यपि वानरः वारं वारं व्यजनेन मक्षिकाम् निवारयति स्म तथापि सा पुनः पुनः नृपस्य नासिकायाम् एव उपविशति स्म। अन्ते वानरः मक्षिकां हन्तुम् खड्गेन प्रहारम् अकरोत्। मक्षिका तु उड्डीय दूरं गता, किन्तु खड्गप्रहारेण नृपस्य नासिका छिन्ना अभवत्। अतएव उच्यते-“मूर्खजनैः सह मित्रता नोचिता।”

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) कः सुप्तः आसीत्?
(ii) वानरः केन नृपम् अवीजयत्?

II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) एका मक्षिका कुत्र उपाविशत्?
(ii) खड्गप्रहारेण किम् अभवत्?

III. भाषिककार्यम्- (2 × 2 = 4)
(क) नृपस्य’ अत्र का विभक्तिः?
(i) द्वितीया
(ii) षष्ठी
(iii) सप्तमी
(iv) प्रथमा

(ख) ‘वानरः’ इति पदस्य विशेषणपदं किम्?
(i) प्रियः
(ii) एकस्य
(iii) पुरा
(iv) एका

खण्डः – ख
रचनात्मकं कार्यम्

प्रश्न 2.
मञ्जूषातः उचितपदानि चित्वा कथायाः रिक्तस्थानानि पूरयत- (10)

कारणम्, अतिष्ठत्, अनुचिता, शिवनिन्दया, पतिरूपेण, पार्वती, पत्नीरूपेण, तपस्याम्, वटोः, आश्रमम्

हिमालयस्य पुत्री ______(1)______ पतिरूपेण शिवं प्राप्तुम् कठिना ______(2)______ अकरोत्। एकदा तस्याः ______(3)______ एकः वटुः आगच्छत्। स: पार्वतीम् तपस्यायाः ______(4)______ अपृच्छत्। पार्वती तूष्णीम् ______(5)______। तदा पार्वत्याः सखी अवदत् यत् एषा ______(6)______ शिवं प्राप्तुम् तपस्यां करोति। इदं श्रुत्वा वटुः शिवनिन्दाम् आरभत। पार्वती ______(7)______ क्रोधिता वटुना सह संभाषणम् ______(8)______ मत्वा ततः गन्तुम् ऐच्छत्। तदा शिवः ______(9)______ रूपं त्यक्त्वा पार्वती ______(10)______ स्वीकृतवान्।

प्रश्न 3.
वाक्यानि रचयत- (1 × 5 = 5)

  1. उद्यानं _________
  2. पर्वतः _________
  3. गंगा _________
  4. शीघ्र _________
  5. सुन्दरं _________

प्रश्न 4.
चित्रं दृष्ट्वा मञ्जूषायाम् प्रदत्तशब्दानाम् सहायतया पञ्चवाक्यानि पूरयत- (1 × 5 = 5)

श्यामपट्टे, कक्षायाः, दीर्घ पीठिका, उत्तरपुस्तिकायाम्, वार्तालापम्

CBSE Class 7 Sanskrit Sample Paper Set 3 Q4

  1. इदम् चित्रम् _________ अस्ति।
  2. सर्वे छात्राः _________ लिखन्ति।
  3. अध्यापकः _________ लिखति।
  4. छात्राः _________ न कुर्वन्ति।
  5. कक्षायाम् आसन्दिका _________ च स्तः।

खण्ड: – ग
अनुप्रयुक्त-व्याकरणं

प्रश्न 5.
वाक्येषु रेखांकितपदानां समुचितं संधिं सन्धि-विच्छेदं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत- (1 × 4 = 4)

(क) प्रति + एकम् कार्यं ध्यानेन कुरुत।
(i) प्रत्येकम्
(ii) प्रतिएकं
(iii) प्रत्यैकं
(iv) प्रतियकं।

(ख) मुर + अरिः कृष्णः अस्ति।
(i) मुररिः
(ii) मुरारिः
(iii) मुरारी
(iv) मुरारि

(ग) सुधाकरः नगरं गच्छति।
(i) सुधा + आकरः
(ii) सु + धाकरः
(iii) सुधा + करः
(iv) सुधा + अकरः

(घ) तव भाग्योदयम् भविष्यति।
(i) भाग्य + ओदयम्
(ii) भाग्य + उदयम्
(iii) भाग्य + उदयम्
(iv) भाग्य + औदयम्

प्रश्न 6.
उदाहरणानुसारं शब्दरूपेषु रिक्तस्थानानि पूरयत- (½ × 6 = 3)

CBSE Class 7 Sanskrit Sample Paper Set 3 Q6

प्रश्न 7.
अधोलिखितान् समयवाचकान् अङकान् पदेषु लिखत- (½ × 2 = 1)

  1. 7 : 00
  2. 9 : 15

प्रश्न 8.
मञ्जूषातः अङ्कान् कृते पदानि चिनुत- (½ × 2 = 1)

षोडशः, त्रिशंत्, नवदश, चत्वारिंशत्

  1. 40
  2. 19

प्रश्न 9.
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत- (4)

  1. भरतः _________ भ्राता अस्ति। (अहम् / मम / माम्)
  2. _________ कुत्र गन्तुं इच्छथ। (त्वम् / युवाम् / यूयम्)
  3. इमानि _________ पुष्पाणि सन्ति। (सुन्दरम् / सुन्दरे / सुन्दराणि)
  4. _________ फलानि आनय। (पक्वं / पक्वानि / पक्वे)

प्रश्न 10.
उचित विभक्तिपदं चित्वा वाक्यपूर्तिः कुरुत- (1 × 4 = 4)

(क) _________ विना तडागस्य शोभा न अस्ति।
(i) कमलं
(ii) कमलस्य
(iii) कमलाय
(iv) कमले

(ख) _________ उभयतः नदी वहति।
(i) नगरेण
(ii) नगरम्
(iii) नगरस्य
(iv) नगराय

(ग) पिता _________ फलानि यच्छति।
(i) पुत्रं
(ii) पुत्राय
(iii) पुत्रात्
(iv) पुत्रस्य

(घ) वयम् _________ पश्यामः।
(i) नेत्रेण
(ii) नेत्राभ्याम्
(iii) नेत्राणि
(iv) नेत्राः

प्रश्न 11.
उदाहरणानुसारं धातुरूपेषु रिक्तस्थानानि पूरयत- (2 × 2 = 4)

CBSE Class 7 Sanskrit Sample Paper Set 3 Q11

प्रश्न 12.
मञ्जूषातः समुचितपदानि चित्वा वाक्यपूर्तिः क्रियताम्। (1 × 4 = 4)

इतस्ततः, अलम्, पुरा, बहिः

  1. _________ विवादेन।
  2. उद्याने जनाः _________ भ्रमन्ति।
  3. क्रीडकाः क्रीडाक्षेत्रात् _________ न गच्छन्ति।
  4. ________ अयोध्यायां दशरथः नृपः आसीत्।

खण्ड: – घ
पठित-अवबोधनम्

प्रश्न 13.
अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत- (5)

कालक्रमेण रमायाः पिता विपन्नः सञ्जातः। तस्याः पितरौ ज्येष्ठा भगिनी च दुर्भिक्षपीडिताः दिवङ्गताः तदनन्तरं रमा स्व-ज्येष्ठभ्रात्रा सह पदभ्यां समग्रं भारतम् अभ्रमत्। भ्रमणक्रमे सा कोलकाताम् प्राप्ता। संस्कृतवैदुष्येण सा तत्र ‘पण्डिता’ ‘सरस्वती’ चेति उपाधिभ्यां विभूषिता। तत्रैव सा ब्रह्मसमाजेन प्रभाविता वेदाध्ययनम् अकरोत्।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) केन प्रभाविता सा वेदाध्ययनम् अकरोत्?
(ii) कस्याः पिता विपन्नः सञ्जातः?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
(i) के दुर्भिक्षपीडिताः दिवङ्गताः?

III. यथानिर्देशं उत्तरत- (½ × 2 = 1)
(क) ‘उपाधिभ्याम्’ इति पदे किम् वचनम्?
(i) एकवचनम्
(ii) द्विवचनम्
(iii) बहुवचनम्
(iv) किमपि न

(ख) ‘अकरोत्’ इति क्रियापदस्य कर्तृपदं किम्?
(i) तत्र
(ii) एव
(iii) सा
(iv) वेद

प्रश्न 14.
अधोलिखितपद्यांशं पठित्वा प्रश्नान् उत्तरत- (4)

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) मूढैः कुत्र रत्नसंज्ञा विधीयते?
(ii) पृथिव्यां कति रत्नानि?

II. पूर्णवाक्येन उत्तरत- (1 × 1 = 1)
(i) पृथिव्यां त्रीणि रत्नानि कानि सन्ति?

III. निर्देशानुसारं कुरुत- (½ × 2 = 1)
(क) ‘रत्नानि’ इति पदस्य विशेषणपदं किम्?
(i) त्रीणि
(ii) जलम्
(iii) अन्नम्
(ii) सुभाषितम्

(ख) ‘पाषाणखण्डेषु’ इति पदे का विभक्तिः?
(i) तृतीया
(ii) षष्ठी
(iii) सप्तमी
(iv) प्रथमा

प्रश्न 15.
श्लोकांशान् मेलयत- (1 × 4 = 4)

(क) (ख)
1. उदिते सूर्ये सेलति नौका।
2. पक्षी कूजति धरणी विहसति।
3. नदति मन्दिरे कमलं विकसति।
4. सरितः सलिले उच्चैढक्का।

प्रश्न 16.
विलोम पदानि मेलयत- (½ × 6 = 3)

(क) (ख)
1. अस्माकम् अनेकम्
2. उपरि अधः
3. प्रगतिः युष्माकम्
4. एकम् अवनतिः
5. दुर्लभम् बहिः
6. अन्तः सुलभम्

प्रश्न 17.
मञ्जूषातः समुचितपदानि समानार्थकपदानि चित्वा लिखत- (½ × 6 = 3)

पुरा, श्रुत्वा, पुष्पम्, धरणी, अन्यस्य, गहनम्

  1. परस्य ____________
  2. सुमनम् ____________
  3. निशम्य ____________
  4. गम्भीरम् ____________
  5. प्राचीनकाले ____________
  6. परस्य ____________

प्रश्न 18.
स्थूलपदानाम् स्थाने समुचितं प्रश्नवाचकं प्रदत्तविकल्पेभ्यः चित्वा प्रश्ननिर्माणं कुरुत- (2 × 2 = 4)

(क) अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।
(i) कस्याः
(ii) कस्य
(iii) कस्याम्
(iv) काः

(ख) शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।
(i) के
(ii) किम्
(iii) कस्मिन्
(iv) कः

(ग) संस्कृतम् सह्णकस्य कृते सर्वोत्तमा भाषा।
(i) कस्य
(ii) कस्याः
(iii) किम्
(iv) कस्मिन्

(घ) विद्या राजसु पूज्यते।
(i) किम्
(ii) कः
(iii) का
(iv) काः

प्रश्न 19.
घटनाक्रमानुसारं वाक्यानि लिखत- (½ × 8 = 4)

  1. कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत्।
  2. गोपालकाः अकथयन्-वयं पतितं कूर्मं खादिष्यामः।
  3. कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
  4. केचित् धीवराः सरस्तीरे आगच्छन्।
  5. कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
  6. लम्बमानं कूर्म दृष्ट्वा गोपलकाः अधावन्।
  7. कूर्मः आकाशात् पतितः गोपालकैः मारितश्च।
  8. वयम् श्वः मत्स्यकूर्मादीन् मारयिष्यामः इति धीवराः अकथयन्।

प्रश्न 20.
भिन्नवर्गस्य पदं चिनुत- (1 × 2 = 2)

  1. सूर्यः, चन्द्रः, अम्बुदः, शुक्र:। _________
  2. मयूराः, चटकाः, शुकाः, मण्डूकाः। _________

CBSE Class 8 Sanskrit Sample Paper Set 4

We have given detailed NCERT Solutions for Class 8 Sanskrit come in handy for quickly completing your homework.

CBSE Class 8 Sanskrit Sample Paper Set 4

निर्धारित समय: 3 घंटे
अधिकतम अंकाः 80

खण्डः – ‘क’
अपठित-अवबोधनम्

प्रश्न 1.
अधोलिखितं अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत- (10)

एकदा राजकुमारः सिद्धार्थः विहाराय उद्यानं गतवान्। सहसा सः क्रन्दनध्वनिम् अशृणोत्। तदैव एकः हंसः तस्य सम्मुखे भूमौ अपतत्। तम् दृष्ट्वा सिद्धार्थः करुणापूर्णः अभवत्। पुनः च सः हंसस्य शरीराद् बाणं निष्कास्य यावत्पश्यति तावत् देवदतः तत्र आगच्छत्। सः सिद्धार्थम् अकथयत्-“भो सिद्धार्थ! एषः हंसः मया हतः, इमम् हंसम् मह्यम् देहि।” सिद्धार्थः उच्चैः अवदत्-“न दास्यामि इमम् हंसम्, यतः अहम् अस्य रक्षकः।” तौ परस्परम् विवदमानौ राजसभां अगच्छताम्। नृपः सर्वं वृत्तान्तं श्रुत्वा आदिष्टवान्–“यस्य समीपे हंसः गमिष्यति सः तस्यैव भविष्यति। हंसः सानन्दम् सिद्धार्थम् एव उपगतः।” उक्तम् हि-रक्षकः भक्षकात् श्रेयान्।

प्रश्ना:
I. एकपदेन उत्तरत- (1 × 4 = 4)
(i) करुणापूर्णः कः अभवत्?
(ii) सिद्धार्थः विहाराय कुत्र अगच्छत्?
(iii) तौ विवदमानौ कुत्र अगच्छताम्?
(iv) हंसः कुत्र अपतत्?

II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) राजा किम् आदिष्टवान्?
(ii) सिद्धार्थः उच्चैः किम् अवदत्?

III. प्रदत्तविकल्पेभ्यः शुद्धम् उत्तरं चित्वा लिखत- (½ × 2 = 1)
(i) ‘भक्षकः’ इति पदस्य विलोमपदं किम्?
(क) रक्षकः
(ख) भक्षकात्
(ग) श्रेयः
(घ) श्रेयान्

(ii) ‘सहसा सः क्रन्दनध्वनिम् अशृणोत्’ अत्र कर्तृपदं किम्?
(क) सहसा
(ख) सः
(ग) क्रन्दन
(घ) अशृणोत्

IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (1)

खण्ड: – ‘ख’
रचनात्मक कार्यम्

प्रश्न 2.
मञ्जूषातः प्रार्थनापत्रे उचितपदैः रिक्तस्थानानि पूरयत- (6)

दण्डितः, निवेद्यते, श्रेण्या, प्रार्थनापत्रं, वार्षिकोत्सवः, महोदय

सेवायाम्
प्राचार्य महोदयाः
सर्वोदय विद्यालय
कुरुक्षेत्रम्
_____(1)_____
सादरं _____(2)_____ यत् अहम् अष्टम्यां _____(3)_____ पठामि। ह्यः विद्यालयस्य _____(4)_____ आसीत्। ज्वरवेगेन पीडितः अहम् _____(5)_____ न प्रेषितवान्। अतः अहं रूप्यकद्वयेन _____(6)_____। अतोऽहम् प्रार्थये यत् मम अर्थदण्डः क्षन्तव्यः।
धन्यवादः।
आज्ञाकारी शिष्यः
दिनांक 28.12.2020
केशवः
अष्टमी श्रेणी।

प्रश्न 3.
अधोदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानाम् सहायतया पञ्च संस्कृतवाक्यानि लिखत- (10)

मञ्जूषा – छात्राः, शिक्षिका, शिक्षकः, बसयानम्, विद्यालयस्य, गच्छन्ति, वृक्षाः, प्रसन्नाः, सन्ति, गृहम्, स्यूताः, धारयन्ति
CBSE Class 8 Sanskrit Sample Paper Set 4 Q3

प्रश्न 4.
अधोदत्तां कथाम् मञ्जूषायाम् प्रदत्तशब्दानाम् सहायतया पूरयत- (4)

भिक्षाम्, भिक्षापात्रम्, तीरे, परमेश्वरस्य

एकदा गंगातटे गोस्वामी _____(1)_____ नामस्मरणे मग्नः आसीत्। तदैव कश्चित् भिक्षुकः आगत्य _____(2)_____ अयाचत। गोस्वामी अवदत्-“मम समीपे _____(3)_____ विहाय किमपि नास्ति। परन्तु अद्य मया नद्याः _____(4)_____ एक: मणिः प्राप्तः, सः तु दूरे सिकतासु क्षिप्तः।

खण्ड: – ‘ग’
अनुप्रयुक्त-व्याकरणम्

प्रश्न 5.
सन्धिं सन्धिविच्छेदं वा कुरुत- (4)

(i) सूर्य + उदयः ____________
(ii) मुर + अरिः ____________
(iii) प्रति + एकम् ____________
(iv) कवीश्वरः _____ + _____

प्रश्न 6.
मञ्जूषातः अव्ययपदं चित्वा वाक्यानि पूरयत- (4)

सहसा, उच्चैः, श्वः, अधुना

(i) कक्षायाम् ____________ न वदेम।
(ii) ____________ कार्यम् न कुरुत।
(iii) त्वम् ____________ विद्यालयं गच्छ।
(iv) वयम् ____________ न क्रीडिष्यामः।

प्रश्न 7.
मञ्जूषातः पर्यायपदानि चित्वा लिखत- (½ × 6 = 3)

सलिलम्, घटः, बालम्, सदनम्, हस्ते, श्रुत्वा

(i) करे ____________
(ii) गृहम् ____________
(iii) आकर्ण्य ____________
(iv) जलम् ____________
(v) शिशुम् ____________
(vi) कुम्भः ____________

प्रश्न 8.
तद्भव-पदानाम् कृते मञ्जूषातः चित्वा संस्कृतपदानि लिखत- (½ × 6 = 3)

वंशम्, भ्राता, ग्रामः, क्षेत्रम्, सप्त, भगिनी

(i) बहिन
(ii) खेत
(iii) सात
(iv) गाँव
(v) बाँस
(vi) भाई

प्रश्न 9.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (4)

अनेकानि, सुन्दराणि, एकाम्, स्वच्छं

(i) उद्याने ____________ पुष्पाणि विकसन्ति।
(ii) पुस्तकालये ____________ पुस्तकानि सन्ति।
(iii) महिला ____________ जलं आनयति।
(iv) सिंहः ____________ गुहाम् अपश्यत्।

प्रश्न 10.
कोष्ठकेषु शब्देषु उचितं पदं चित्वा रिक्तस्थानानि पूरयत- (4)

(i) वानरा: ____________ उपरि कूर्दन्ति। (वृक्षे / वृक्षस्य / वृक्षं)
(ii) ____________ परितः पर्वताः सन्ति। (नगरं / नगरस्य / नगरात)
(iii) ____________ गङ्गा निर्गच्छति। (हिमालयः/हिमालयात्/ हिमालये)
(iv) रामः ____________ सह अगच्छत् (सीताम्/सीतया/सीतायाः)

प्रश्न 11.
मञ्जूषातः अङ्कानाम् कृते पदानि लिखत- (1 × 3 = 3)

पञ्चाशत्, नवचत्वारिंशत्, चतुस्त्रिंशत्, द्वाविंशतिः

(i) 12 ____________
(ii) 34 ____________
(iii) 49 ____________

खण्डः – ‘घ’
पठित-अवबोधनम्

प्रश्न 12.
अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत- (5)

कस्मिंश्चित् वने खरनखरः नाम सिंहः प्रतिवसति स्म। सः कदाचित् इतस्ततः परिभ्रमन् क्षुधार्तः न किञ्चिदपि आहारं प्राप्तवान्। ततः सूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्–“नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति। अतः अत्रैव निगूढो भूत्वा तिष्ठामि” इति।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) क्षुधातः कः आसीत्?
(ii) सिंहस्य नाम किम् आसीत्?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
(i) सः किम् अचिन्तयत्?

III. यथानिर्देशम् उत्तरत- (½ × 2 = 1)
(i) ‘अरण्ये’ इति पदस्य पर्यायः कः?
(क) कदाचित्
(ख) वने
(ग) गुहां
(घ) महतीं

(ii) ‘दिने’ इति पदस्य विलोमपदं किम्?
(क) रात्रि
(ख) साये
(ग) नूनम्
(घ) रात्रौ

प्रश्न 13.
अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (5)

शालिनी – भ्राता एवं चिन्तयितुमपि कथं प्रभवति? शिशुः कन्याऽस्ति चेत् वधार्हा? जघन्यं कृत्यमिदम्। त्वम् विरोधं न कृतवती? सः तव शरीरे स्थितस्य शिशोः वधार्थं चिन्तयति, त्वम् तूष्णीम् तिष्ठसि? अधुनैव गृहं चल। नास्ति आवश्यकता लिंगपरीक्षणस्य। भ्राता यदा गृहम् आगमिष्यति, अहम् वार्ता करिष्ये।

प्रश्नाः
I. एकपदेन उत्तरत- (2 × 1 = 2)
(i) वधार्हा का अस्ति?
(ii) गृहं कः आगमिष्यति?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
(i) पितृगृहं का आगच्छति?
(ii) माला कया सह गच्छति?

III. निर्देशानुसारम् उत्तरत- (½ × 2 = 1)
(i) ‘शिशोः इत्यत्र का विभक्तिः?
(ii) ‘भ्राता ____________ कथं प्रभवति’ इत्यत्र कर्तृपदं किम्?

प्रश्न 14.
अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (4)

गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणम् प्राप्य भवन्ति दोषाः।
सुस्वादुतोयाः प्रभवन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः।।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) गुणाः किम् प्राप्य दोषाः भवन्ति?
(ii) केषु गुणाः गुणाः भवन्ति?

II. पूर्णवाक्येन उत्तरत- (1 × 1 = 1)
(i) कीदृशाः नद्यः प्रभवन्ति?

III. निर्देशानुसारं लिखत- (½ × 2 = 1)
(i) ‘नद्यः’ इति पदस्य समानार्थकम् पदम् किम्?
(क) सलिलः
(ख) पवनः
(ग) सरिताः
(घ) समुद्रः

(ii) ‘पेयाः’ इति पदस्य विलोमपदं किम्?
(क) अपेयाः
(ख) पेय
(ग) नद्यः
(घ) तोयाः