CBSE Class 7 Sanskrit Sample Paper Set 4

We have given detailed NCERT Solutions for Class 7 Sanskrit come in handy for quickly completing your homework.

CBSE Class 7 Sanskrit Sample Paper Set 4

निर्धारित समय : 3 घंटे
अधिकतम अंक : 80

खण्ड: – क
अपठित-अवबोधनम्

प्रश्न 1.
अधोलिखितम् अनुच्छेदम् पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत- (10)

जीवने धनस्य अत्यधिकं महत्त्वम् अस्ति। धनेन जीवननिर्वाहः भवति। धनं विना वयं कथं भोजनम् अपि प्राप्तुम् शक्नुमः? परन्तु यदि लोभेन वयं अन्धाः भूत्वा अधिकाधिकम् धनम् इच्छामः, अनुचितसाधनानाम् प्रयोगं कुर्मः, तर्हि तेन धनेन दुःखमेव भविष्यति। तस्य रक्षणे एव समयः व्यतीतः भवति अतः वयम् उचितसाधनैः एव धनार्जनं कुर्याम। अन्यस्य धनं प्रति कदापि लोभः न कर्तव्यः। ये असहायाः सन्ति तेषाम् यथाशक्ति साहाय्यं कुर्याम।

प्रश्ना:
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) धनं प्रति कदापि क: न कर्तव्यः?
(ii) जीवने कस्य अत्यधिकं महत्त्वम् अस्ति?

II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) वयम् कथम् धनार्जनं कुर्याम?
(ii) धनस्य रक्षणे किम् भवति?

III. यथानिर्देशं उत्तरत- (2 × 2 = 4)
(क) ‘भविष्यति’ इति पदे कः लकार:?
(i) लट
(ii) लृट्
(iii) लङ्
(iv) लोट

(ख) ‘शक्नुमः’ इति क्रियापदस्य कर्तृपदं किम्?
(i) वयम्
(ii) धनं
(iii) विना
(iv) कथ

खण्ड: – ख
रचनात्मकं लेखनम्

प्रश्न 2.
मञ्जूषातः पदानि चित्वा अनुच्छेदस्य रिक्तस्थानानि पूरयत- (10)

प्रकाराः, चर्चा, प्रदर्शनम्, भवितव्यम्, करणीयः, सुखम्, पुष्ट्म, पौष्टिकम्, अतएव, व्यायामेन

अस्मिन् संसारे सर्वे जनाः ________(1)________ इच्छन्ति। शरीरं नीरोगं ________(2)________ च भवेत्। स्वास्थ्यलाभाय व्यायामः कर्तव्यः। व्यायामस्य विविधाः ________(3)________ सन्ति यथा क्रीडा, धावनम्, भ्रमणम्, आसनम् इत्यादयः। अद्यत्वे आसनानाम् प्राणायामस्य च बहु ________(4)________ वर्तते। गृहे जनाः दूरदर्शने तेषाम् ________(5)________ दृष्ट्वा स्वयमपि आचरन्ति। शरीरं हृष्टं पुष्टं बलिष्ठं च ________(6)________। सुस्वादु ________(7)________ भोजनं आवश्यकम्। ________(8)________ शरीरे रक्तस्य संचारः सम्यक् भवति। ________(9)________ मनुष्येण प्रातः एव व्यायामः ________(10)________।

प्रश्न 3.
वाक्यानि रचयत- (1 × 5 = 5)

  1. पुस्तकालय
  2. कलमेन
  3. मार्गः
  4. जनकः
  5. आकाशे

प्रश्न 4.
चित्रं दृष्ट्वा मञ्जूषायाम् प्रदत्तशब्दानानाम् सहायतया पञ्चवाक्यानि पूरयत- (1 × 5 = 5)

कृषकौ, कुटीरः, वृषभशकटेन, ग्रामस्य, कमलम्

CBSE Class 7 Sanskrit Sample Paper Set 4 Q4

  1. इदम् चित्रम् ________ अस्ति।
  2. द्वौ ________ वार्तालापम् कुरुतः।
  3. सरोवरस्य जले ________ विकसति।
  4. कृषक: ________ अन्नानि नयति।
  5. चित्रे एकः ________ अपि अस्ति।

खण्ड: – ग
अनुप्रयुक्त-व्याकरणं

प्रश्न 5.
वाक्येषु रेखाङ्कितपदानाम् समुचितं सन्धिं सन्धिविच्छेदं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत- (4)

(क) राकेशः पाठं पठति।
(i) राक + ईशः
(ii) राका + ईशः
(iii) राक + ऐशः
(iv) राका + इशः

(ख) धर्म + अन्धः न भवेत्।
(i) धर्मांधः
(ii) धर्मन्धः
(iii) धर्माधः
(iv) धमान्धः

(ग) प्रातः सूर्य + उदयः भवति।
(i) सूर्यदयः
(ii) सूर्योदयः
(iii) सूर्यउदयः
(iv) सूर्योदयः

(घ) नारदः देवर्षिः अस्ति।
(i) देव + ऋषिः
(ii) देव + र्षिः
(iii) देव + रिषि
(iv) देव + षिः

प्रश्न 6.
उदाहरणानुसारं शब्दरूपेषु रिक्तस्थानानि पूरयत- (1 × 4 = 4)

CBSE Class 7 Sanskrit Sample Paper Set 4 Q6

प्रश्न 7.
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत। (1 × 4 = 4)

च, न, कदाचन, सदा

  1. असत्यं …………………………. वक्तव्यम्।
  2. महात्मागांधी ………. अहिंसा न अत्यजत्।
  3. भक्तः …………………….. ईश्वरं स्मरति।
  4. लता मेघा … ……. विद्यालयं गच्छतः।

प्रश्न 8.
मञ्जूषातः समुचितपदानि चित्वा रिक्तस्थानानि पूरयत- (1 × 4 = 4)

उदेति, क्रीडन्ति, कूजन्ति, विकसन्ति

  1. उद्याने पुष्पाणि ________।
  2. पूर्वदिशायाम् सूर्यः ________।
  3. क्रीडाक्षेत्रे बालकाः ________।
  4. वृक्षे खगाः ________।

प्रश्न 9.
प्रदत्तविकल्पेभ्यः उचितविभक्तिपदं चित्वा वाक्यपूर्तिः क्रियताम्। (1 × 4 = 4)

  1. ________ नमः। (हरिं / हरये / हरिः)
  2. ________ परितः वृक्षाः सन्ति। (ग्रामम् / ग्रामस्थ / ग्राम:)
  3. ________ उपरि खगाः तिष्ठन्ति। (वृक्षम् / वृक्षस्य / वृक्षाः)
  4. ________ विना जीवननिर्वाहः न भवति। (धनं / धन: / धनस्य)

प्रश्न 10.
उदाहरणानुसारं धातुरुपेषु रिक्तस्थानानि पूरयत- (½ × 6 = 3)

CBSE Class 7 Sanskrit Sample Paper Set 4 Q10

प्रश्न 11.
उदाहरणानुसारं पदरचनां कुरूत- (1 × 2 = 2)

यथा- वसन्ति स्म – अवसन्

  1. लिखन्ति स्म ________
  2. गच्छन्ति स्म ________

खण्ड: – घ
पठित-अवबोधनम्

प्रश्न 12.
अधोलिखितम् गद्यांशं पठित्वा प्रश्नान् उत्तरत- (5)

(क) चटका अवदत्- “दुष्टेनैकेन गजेन मम सन्ततिः नाशिता। तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्।” ततः काष्ठकूटः तां वीणा- नाम्नयाः मक्षिकायाः समीपम् अनयत्। तयोः वार्ता श्रुत्वा मक्षिका अवदत्- “ममापि मित्रं मण्डूकः मेघनादः अस्ति। शीघ्रं तमुपेत्य यथोचितं करिष्यामः।” तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम्

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
1. मण्डूकस्य अभिधानम् किम् अस्ति?
2. काष्ठकूटः चटकां कस्याः समीपं अनयत्?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
1. चटकायाः काष्ठकूटस्य वार्ता श्रुत्वा मक्षिका किम् अवदत्?

III. निर्देशानुसारम् कुरूत- (½ × 2 = 1)

(क) ‘करिष्यामः’ इति पदे किम् वचनम्?
(i) एकवचनम्
(ii) द्विवचनम्
(iii) बहुवचनम्

(ख) ‘मक्षिकया’ इति पदे का विभक्तिः?
(i) षष्ठी
(ii) तृतीया
(iii) प्रथमा
(iv) द्वितीया

(ख) अधोलिखितं पद्यांशं पठित्वा प्रश्नान् उत्तरत- (4)

न चौरहार्यं न च राजहार्य
न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धत एव नित्यम्
विद्याधनं सर्वधनप्रधानम्।।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
1. विद्याधनं कीदृशं धनं अस्ति?
2. चौरहार्यं किम् न अस्ति?

II. पूर्णवाक्येन उत्तरत- (1 × 1 = 1)
1. व्यये कृते किम वर्धते?

III. यथानिर्देशं उत्तरत- (½ × 2 = 1)

(क) ‘व्यये कृते वर्धते’ अत्र क्रियापदं किम्?
(i) व्यये
(ii) कृते
(iii) वर्धते
(iv) किमपि न

(ख) निम्नलिखितपदेषु किम् अव्ययपदम् न अस्ति।
(i) न
(ii) च
(ii) धनं
(iv) एव

प्रश्न 13.
श्लोकांशान् मेलयत- (4)

(क) (ख)
1. उन्नतवृक्षं तुझं भवनं वसुधैव कुटुम्बकम्।
2. कृत्वा हिमवन्तं सोपानं क्रान्त्वाकाशं खलुयाम।
3. अयं निजः परो वेति चन्दिरलोकं प्रविशाम।
4. उदारचरितानां तु गणना लघुचेतसाम्।

प्रश्न 14.
विलोमपदानि मेलयत- (½ × 4 = 2)

(क) (ख)
1. मन्दम् नूतनम्
2. नीचैः स्निग्धम्
3. कठोरः पर्याप्तम्
4. पुरातनम् उच्चैः

प्रश्न 15.
मञ्जूषातः समानार्थकपदानि चित्वा लिखत- (3)

करालम्, विपिने, हरिणः, सलिले, अन्यस्य, अश्वः

  1. भयङ्करम् ________
  2. मृगः ________
  3. जले ________
  4. वने ________
  5. घोटकराजः ________
  6. परस्य ________

प्रश्न 16.
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- (1 × 3 = 3)

(क) सत्येन वाति वायुः।
(i) केन
(ii) कान्
(iii) काम्
(iv) कम्

(ख) वसुन्धरा बहुरत्ना भवति।
(i) कः
(ii) का
(iii) कां
(iv) किम्

(ग) श्रीकण्ठस्य भवने सुखसाधनानि आसन्।
(i) कस्य
(ii) कस्याः
(iii) कः
(iv) किम्

प्रश्न 17.
घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनर् लेखनीयानि। (½ × 8 = 4)

  1. गजः महतः गर्तस्य अन्तः पतितः।
  2. पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म।
  3. चटकायाः नीडम् भुवि अपतत्।
  4. मक्षिका गजस्य कर्णे शब्दं कृतवती।
  5. गजः शुण्डेन शाखाम् अत्रोटयत्।
  6. कालेन चटकायाः सन्ततिः जाता।
  7. तृषार्तः गजः जलाशयं अगच्छत्।
  8. मक्षिकायाः मित्रं मण्डूक: मेघनादः आसीत्।