MCQ Questions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided शुचिपर्यावरणम् Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 10 Sanskrit Chapter 1 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

अधोलिखित कथनेषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियाताम्

Question 1.
मानव जीवनाय शुचि-पर्यावरणं आवश्यकम् भवति।
(i) कीदृशम्
(ii) क:
(iii) कम्
(iv) कुत्र

Answer

Answer: (i) कीदृशम्


Question 2.
महानगरमध्ये कालायसचक्रम् अनिशं चलति।
(i) केन
(ii) क:
(iii) कुत्र
(iv) कम्

Answer

Answer: (iii) कुत्र


Question 3.
चक्रम् सदा वक्रम् भ्रमति।
(i) कः
(ii) केन
(iii) कीदृशम्
(iv) कुत्र

Answer

Answer: (iii) कीदृशम्


Question 4.
अमुना दुर्दान्तैः अशनैः जनग्रसनम् न स्यात्।
(i) कः
(ii) केन
(iii) केषाम्
(iv) कुत्र

Answer

Answer: (ii) केन


Question 5.
शतं शकटीयानम् धूम्र मुञ्चति।
(i) केन
(ii) कः
(iii) कति
(iv) केषाम्

Answer

Answer: (iii) कति


Question 6.
यामानां पक्तयः अनन्ताः कठिनं संसरणम् भवति।
(i) कः
(ii) केषाम्
(iii) कुत्र
(iv) कम्

Answer

Answer: (ii) केषाम्


Question 7.
वायुमण्डलं अत्यधिकं दूषितं जातम्।
(i) केषाम्
(ii) कीदृशम्
(iii) कः
(iv) कम्

Answer

Answer: (ii) कीदृशम्


Question 8.
प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते।
(i) कः
(ii) कस्याः
(iii) केषाम्
(iv) कः

Answer

Answer: (ii) कस्याः


Question 9.
उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
(i) केषाम्
(ii) कः
(iii) कम्
(iv) कुत्र

Answer

Answer: (i) केषाम्


Question 10.
पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
(i) के
(ii) कः
(iii) केषाम्
(iv) कुत्र

Answer

Answer: (i) के


Question 11.
शकटीयानम् कज्जलमालिनं धूमं मुञ्चति।
(i) किम्
(ii) कम्
(iii) कीदृशम्
(iv) कथम्

Answer

Answer: (iii) कीदृशम्


Question 12.
प्रस्तरतले लतातरुगुल्मा पिष्टाः न भवन्तु।
(i) के
(ii) कुत्र
(iii) किम्
(iv) केन

Answer

Answer: (ii) कुत्र


Question 13.
महानगरेषु, वाहनानाम् अनन्ताः पङक्तयः धावन्ति।
(i) केषु
(ii) कस्मै
(iii) के
(iv) किम्

Answer

Answer: (i) केषु


Question 14.
शकटीयानम् कज्जलमलिनं धूम मुञ्चति।
(i) कम्
(ii) किम्
(iii) कथम्
(iv) कानि

Answer

Answer: (ii) किम्


Question 15.
कविः मानवस्य जीवनस्य कामनां करोति।
(i) कथम्
(ii) केन
(iii) कस्मै
(iv) कस्य

Answer

Answer: (iv) कस्य


अधोलिखितं पद्यांशं पाठित्वा प्रदत्तान प्रश्नान् उत्तरत

(क) दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।
शुचि-पर्यावरणम्॥
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्॥
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम्। शुचि …।।

Question 1.
चक्रम कीदृशम् चलति?

Answer

Answer: वक्रम्


Question 2.
अस्माकम् शरणम् किम्?

Answer

Answer: प्रकृतिः


Question 3.
अत्र जीवितं कथं जातम्?

Answer

Answer: दुर्वहम्


Question 4.
चक्रम् वक्रम् कदा चलति?

Answer

Answer: मनः शोषयत् तनुः पेषयद् कालायसचक्रम् सदा वक्रम् चलति।


Question 5.
अमुना दुर्दान्तैः दशनैः किं न स्यात्?

Answer

Answer: अमुना दुर्दान्तैः दशनैः जनग्रसनं नस्यार


Question 6.
“अहर्निशम्” इति पदस्य पर्यायपदं पद्यांशे किम्?

Answer

Answer: अनिशम्


Question 7.
“सरलैः” इति पदस्य विपर्यय पदं पद्यांशे किम

Answer

Answer: दुर्दान्तैः


Question 8.
“पर्यावरणम्” इति पदस्य विशेषणपदं किम्?

Answer

Answer: शुचि


Question 9.
‘सदा वक्रम् भ्रमति’ अत्र क्रियापदं किम्?

Answer

Answer: भ्रमति


(ख) कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।
वाष्पयानमाला संधावति वितरन्ती ध्वानम्॥
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्। शुचि …॥

Question 1.
किं कज्जलमलिनं धूमं मुञ्चति? (पप) वाष्पयानमाला कि कुर्वन्ती संधावति?

Answer

Answer: शतशकटीयानम्


Question 2.
वाष्पयानमाला किं वितरन्ती अस्ति?

Answer

Answer: ध्वानम्


Question 3.
संसरणम् कठिनम् किमर्थम् भवति?

Answer

Answer: अनन्ताः यानानां पंक्तयः अतः संसरणम् कठिनम् भवति।


Question 4.
शतशकटीयानम् किं करोति?

Answer

Answer: शतशकटीयानम् कज्जलमलिनं धूमं मुञ्चति।


Question 5.
‘शतशकटीयानम्’ कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: मुञ्चति


Question 6.
अनंताः’ इति पदस्ये विशेष्यपदं किम्?

Answer

Answer: पक्तयः


Question 7.
‘चलनम्’ इति क्रियापदस्य पर्यायपदं किम्?

Answer

Answer: संसरणम्


Question 8.
श्लोके ‘सरलम्’ इति पदस्य कः विपर्ययः आगतः?

Answer

Answer: कठिनम्


(ग) वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्।
कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम्॥
करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम्। शुचि …॥

Question 1.
जलम् कीदृशम् अस्ति?

Answer

Answer: निर्मलम्


Question 2.
भृशं दूषितम् किम् अस्ति?

Answer

Answer: वायुमण्डलम्


Question 3.
कुत्सितवस्तु मिश्रितं किम्?

Answer

Answer: धरातलम्


Question 4.
मनुष्यैः किं करणीयम्?

Answer

Answer: मनुष्यैः बहिरन्तर्जगति तु बहु शुद्धीकरणम् करणीयम्।


Question 5.
धरातलं कीदृशं जातम्?

Answer

Answer: समलं धरातलम् जातम्।


Question 6.
‘दूषितम्’ इति पदस्य विपर्ययपदं श्लोके किम्?

Answer

Answer: निर्मलम्


Question 7.
‘वायुमण्डलम्’ इति पदस्य विशेषणपदं किम्?

Answer

Answer: दूषितम्


Question 8.
‘करणीयम्’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: शुद्धीकरणम्


Question 9.
श्लोके ‘अत्यधिकम्’ इति पदस्य कः पर्यायः आगतः?

Answer

Answer: भृशम्


(घ) कञ्चित् कालं नय मामस्मान्नगराद् बहुदूरम्।
प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयःपूरम्।।
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्। शुचि …॥

Question 1.
कविः कस्मात् दूरं गच्छति?

Answer

Answer: नगरात्


Question 2.
कीदृशे कान्तारे सः क्षणमपि संरचरण कर्तुम् इच्छति।

Answer

Answer: एकान्ते


Question 3.
ग्रामान्ते निर्झर-नदी कीदृशं भवति?

Answer

Answer: पयः पूरम्


Question 4.
ग्रामान्ते सः किम् द्रष्टुम् इच्छति?

Answer

Answer: ग्रामान्ते सः निर्झर-नदी-पयः पूरम् द्रष्टुम् इच्छति।


Question 5.
एकान्ते कान्तारे मे किं स्यात्?

Answer

Answer: एकान्ते कान्तारे मे क्षणमपि सञ्चरणं स्यात्।


Question 6.
‘अतिसमीपम्’ इति पदस्य विपर्ययपदम् किम्?

Answer

Answer: बहुदूरम


Question 7.
कान्तारे’ इति पदस्य विशेषणपदं किम्?

Answer

Answer: एकान्ते


Question 8.
‘जलम्’ इति पदस्य पर्यायपदं किम्?

Answer

Answer: पयः


Question 9.
श्लोके ‘सञ्चरणम्’ इति कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: स्यात्


(ङ) हरिततरूणां ललितलतानां माला रमणीया।
कुसुमावलिः समीरचालिता स्यान्मे वरणीया॥
नवमालिका रसालं मिलिता रुचिरं संगमनम्। शुचि …॥

Question 1.
कीदृशानां वृक्षाणां माला रमणीया भवेत्?

Answer

Answer: हरितानाम्


Question 2.
लतानाम् माला कीदृशी भवेत्?

Answer

Answer: रमणीया


Question 3.
संगमनम् कीदृशं भवेत्?

Answer

Answer: रुचिरम्


Question 4.
केन चलिता कुसुमावलिः वरणीया स्यात्?

Answer

Answer: समीरेण चालिता कुसमावलिः वरणीया स्यात्।


Question 5.
नवमालिका संगमनं कीदृशम्?

Answer

Answer: नवमालिका रुचिरं संगमनम्।


Question 6.
‘रमणीया’ इति विशेषणपदस्य विशेष्यपदं श्लोके किम्?

Answer

Answer: माला


Question 7.
श्लोके ‘चालिता’ इति क्रिया पदस्य कर्तृपदं किम्?

Answer

Answer: समीरेण


Question 8.
अत्र ‘आम्रम्’ इति पदस्य पर्यायपदं किम्?

Answer

Answer: रसालम्


Question 9.
श्लोके ‘दुर्गमनम्’ इति क: विपर्ययः?

Answer

Answer: संगमनम्


(च) अयि चल बन्धो! खगकुलकलरव गुञ्जितवनदेशम्।
पुर-कलरव सम्भ्रमितजनेभ्यो धृतसुखसन्देशम्॥
चाकचिक्यजालं नो कुर्याज्जीवितरसहरणम्। शुचि …॥

Question 1.
कविः कीदृशम् सन्देशम् दातुम् इच्छति?

Answer

Answer: धृतसुखम्


Question 2.
कविः कुत्र चलितुम् इच्छति?

Answer

Answer: खगकुलकलरवदेशम्


Question 3.
कविः कं सम्बोधयति?

Answer

Answer: बंधुवर


Question 4.
किम् जीवितम् रसं न हरेत्?

Answer

Answer: नगराणाम् चाकचिक्यजालं जीवितम् रसं न हरेत्।


Question 5.
पुर-कलरव सम्भ्रमित जनेभ्यः सुखसन्देशं कुत्र प्राप्नोति?

Answer

Answer: पुर-कलरव सम्भ्रमित जनेभ्यः सुखसन्देशं खगकुलकलरव गुञ्जितवनदेशे प्राप्नोति।


Question 6.
‘ग्राम’ इति पदस्य विपर्ययपदं किम्?

Answer

Answer: पुर


Question 7.
‘चल’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: बन्धो


Question 8.
‘चाकचिक्यजालं’ इति कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: कुर्यात्


Question 9.
श्लोके ‘नगर’ इति पदस्य कः पर्यायः आगतः?

Answer

Answer: पुर


(छ) प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा॥
मानवाय जीवनं कामये नो जीवन्मरणम्। शुचि …॥

Question 1.
लतातरुगुल्माः कुत्र न पिष्टा:भवन्तु?

Answer

Answer: प्रस्तरतले


Question 2.
पाषाणी सभ्यता कुत्र समविष्टा न स्यात्?

Answer

Answer: निसर्गे


Question 3.
कविः किं न कामयते?

Answer

Answer: जीवन्मरणम्


Question 4.
कविः कस्य कामनां करोति?

Answer

Answer: कविः मानवाय जीवनस्य कामना करोति।


Question 5.
प्रस्तरे तले के न भवन्तु?

Answer

Answer: प्रस्तरतले लतातरुगुल्माः प्रियः न भवन्तु।


Question 6.
‘सभ्यता’ इति पदस्य विशेषणपदं किम्?

Answer

Answer: पाषाणी


Question 7.
‘अहम्’ इति कर्तृपदस्य क्रियापदं किम?

Answer

Answer: कामये


Question 8.
जीवन्मरणं’ इति पदस्य विपर्ययपदं किम् प्रयुक्तम्?

Answer

Answer: जीवनम्


Question 9.
‘पाषाणीसभ्यता निसर्गे न स्यात्’। अत्र कर्तृपदं किम्?

Answer

Answer: पाषाणीसभ्यता


अधोलिखितानां श्लोकानाम् अन्वये रिक्तस्थानपूर्तिः

(क) दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।
शुचि-पर्यावरणम्॥
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्॥
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम् ॥शुचि …..॥

अन्वयः- अत्र जीवितं (i) …………….. जातं प्रकृतिः एवं शरणम् शुचि-पर्यावरणम् (एव शरणम्) (ii) …………….. मध्ये कालाय सचक्रम् अनिशं चलत् मनः (iii) …………….. तनुः प्रेक्षेयद् सदा वक्रम भ्रमति अमुना दुर्दान्तैः (iv) ……………. जनग्रसनम् न एवं स्यात् ।।1।।
मञ्जूषा- दशनैः, दुर्वहम्, शोषयत्, महानगर

Answer

Answer:
(i) दुर्वहम्
(ii) महानगर
(iii) शोषयत्
(iv) दशनैः


(ख) कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।
वाष्पयानमाला संधावति वितरन्ती ध्वानम्॥
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम् ॥शुचि…॥

अन्वयः- (अद्यत्वे देशे) शतशकटीयानम् (i) ……………….. धूमं मुञ्चति, वाष्पयानमाला (ii) ……………… वितरन्ती संधाावति। यानानां (iii) ………………. पङ्क्तयः हि (येन) (iv) …………… संसरणम्।
मञ्जूषा- कठिनं, कज्जलमलिनं, ध्वानम्, अनन्ताः

Answer

Answer:
(i) कज्जलमलिनं
(ii) ध्वानम्
(iii) अनन्ताः
(iv) कठिन


(ग) वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्।
कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम्॥
करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम् ॥ शुचि…॥

अन्वयः- (अद्य) वायुमण्डलं (1) ………….. दूषितं, निर्मलं जलम् हि न, (ii) ……………. कुत्सित वस्तु मिश्रितं समलं (iii) …………… अर्न्तजगति तु (iv) …………….. करणीयं बहु शुद्धीकरणम्।।
मञ्जूषा- भक्ष्यं, भृशं, धरातलम्, निर्मलं

Answer

Answer:
(i) भृशं
(ii) भक्ष्यं
(iii) धरातलम्
(iv) निर्मलं


(घ) कञ्चित् कालं नय मामस्मान्नगराव् बहुदूरम्।
प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयःपूरम्॥
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्॥ शुचि….॥

अन्वयः- कञ्चित् कालं माम् (i) …………….. नगरात् बहु दूरम् नय। ग्रामान्ते (अहम्) (ii) …………… नदी-पयः पूरम् प्रापश्यामि। (iii) ……………. कान्तारे में क्षणम् अपि (iv) …………… स्यात्। मञ्जूषा- सञ्चरणम्, अस्मात्, एकान्ते, निर्झर

Answer

Answer:
(i) अस्मात्
(ii) निर्झर
(iii) एकान्ते
(iv) सञ्चरणम्


(ङ) हरिततरूणां ललितलतानां माला रमणीया।
कुसुमावलिः समीरचालिता स्यान्मे वरणीया॥
नवमालिका रसालं मिलिता रुचिरं संगमनम्। शुचि…॥

अन्वयः- हरित तरूणाम् ललित (i) ……………. रमणीया माला (ii) …………….. चालिता कुसमावलिः मे वरणीया स्यात् (iii) …………… नवमालिका (iv) ……………. संगमनम् मिलिता।
मञ्जूषा- रुचिरं, लतानां, रसालं, समीर

Answer

Answer:
(i) लतानां
(ii) समीर
(iii) रसालं
(iv) रुचिरं


(च) अयि चल बन्धो! खगकुलकलरव गुञ्जितवनदेशम्।
पुर-कलरव सम्भ्रमितजनेभ्यो धृतसुखसन्देशम्॥
चाकचिक्यजालं नो कुर्याज्जीवितरसहरणम् ॥ शुचि…॥

अन्वयः- बन्धो! खगकुल (i) …………… गुञ्जितवनदेशम् (ii) …………….. पुर-कलरव सम्भ्रमित (iii) ……………. धृत सुख सन्देशम्। चाकचिक्यजालं जीवित (iv) ……………… हरणम् न कुर्यात्।
मञ्जूषा- जनेभ्यः, कलरव, रस, चल

Answer

Answer:
(i) कलरव
(ii) चल
(iii) जनेभ्यः
(iv) रस


(छ) प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा॥
मानवाय जीवनं कामये नो जीवन्मरणम्। शुचि…॥

अन्वयः- लतातरु गुल्माः (i) ………………… न पिष्टाः भवन्तु। (ii) ………………. पाषाणी सभ्यता (iii) ………………. स्यात्। (अहम्) मानवाय (iv) …………….. कामये जीवन्मरणम् न।
मञ्जुषा- जीवन, प्रस्तरतले, निसर्गे, समाविष्टा|

Answer

Answer:
(i) प्रस्तरतले
(ii) निसर्गे
(iii) समाविष्टा
(iv) जीवनं


श्लोकक्रमानुसारं वाक्यानि पुनः लेखनीयानि

(अ) (क) अमुना दुर्दान्तैः दशनौः जनग्रसनम् न स्यात्।
(ख) महानगरेषु कालायसचक्रम् अहर्निशम् चलति।
(ग) चक्रम सर्वदा वक्रम् भ्रमति।
(घ) अधुना प्रकृतिरेव शरणम् गन्तव्यम्।
(ङ) अस्मिन् संसारे जीवितं कठिनं अस्ति।
(च) अस्मभ्यम्-पर्यावरणम् आवश्यकम्।
(छ) चक्रम् मनः शोषयति तनुः च पेषयति।
(ज) शुचि-पर्यावरणम् आवश्यकम् अस्ति।

Answer

Answer:
(क) अस्मिन् संसारे जीवितं कठिनं अस्ति।
(ख) महानगरेषु कालायसचक्रम् अहर्निशम् चलति।
(ग) चक्रम् मनः शोषयति तनुः च पेषयति।
(घ) चक्रम सर्वदा वक्रम् भ्रमति।
(ङ) अमुना दुर्दान्तैः दशनैः जनग्रसनम् न स्यात्।
(च) अधुना प्रकृतिरेव शरणम् गन्तव्यम्।
(छ) अस्मभ्यम्-पर्यावरणम् आवश्यकम्।
(ज) शुचि-पर्यावरम् आवश्यकम् अस्ति।


(आ) (क) शुचि-पर्यावरणम् आवश्यकम् अस्ति।
(ख) वायु-प्रदूषणम् भवति।
(ग) शकटीयानम् धूमं मुञ्चति।
(घ) महानगरेषु वाहनानाम् अन्नताः पङक्तयः धावन्ति।
(ङ) पर्यावरणम् प्रदूषितम् भवति।
(च) शतशकटीयानम् कज्जलमलिनं धूमं मुञ्चति।
(छ) महानगरेषु चलनम् कठिनम् भवति।
(ज) वाष्पयानमाला ध्वानम् वितरन्ती सधावति।

Answer

Answer:
(क) शकटीयानम् धूम मुञ्चति।
(ख) शतशकटीयानम् कज्जलमलिनं धूम मुञ्चति।
(ग) वाष्पयानमाला ध्वानम् वितरन्ती सधावति।
(घ) महानगरेषु वाहनानाम् अन्नताः पङक्तयः धावन्ति।
(ङ) वायु-प्रदूषणम् भवति।
(च) महानगनेषु चलनम् कठिनम् भवति।
(छ) पर्यावरणम् प्रदूषितम् भवति।
(ज) शुचि-पर्यावरणम् आवश्यकम् अस्ति।


समुचितानि पर्यायपदानि मेलनं कुरुतखण्ड

‘क’ खण्ड – ‘ख’ खण्ड
(क) जीतितम् – सुन्दरी
(ख) दुर्वहम् – पुष्पपक्तिः
(ग) तनुः – वायुः
(घ) वृक्षाणाम् – वरणीया
(ङ) रमणीया – त्यजति
(च) कुसमावलिः – अत्यधिकम्
(छ) चयनीया – कुटिलम्
(ज) समीरः – जीवनम्
(झ) चाकचिक्यजालम् – शरीरम्
(ञ) रसालम् – दुष्करम्
(ट) मुञ्चति – तरुणाम्
(ठ) वक्रम् – कृत्रिमप्रभावपूर्णजगत्
(ड) भक्ष्यम् – आम्रम्
(ढ) संसरणम् – मलेनयुक्तम्
(ण) भृषम् – सञ्चलनम्
(त) समलम् – खाद्यपदार्थ
(थ) शुचिः – मनसि
(द) यानानाम् – इच्छामि
(ध) धरातलम् – अवलोकयामि
(न) अन्तर्जगति – नहि
(प) बहु – वने
(फ) प्रपश्यामि – पवित्रम्
(ब) कान्तारे – मित्र
(भ) बन्धु – वाहनानाम्
(म) नो – पृथ्वी
(य) कामये – अत्यधिकम्

Answer

Answer:
(क) जीवनम्
(ख) दुष्करम्
(ग) शरीरम्
(घ) तरुणाम्
(ङ) सुन्दरी
(च) पुष्पपक्तिः
(छ) वरणीया
(ज) वायुः
(झ) कृत्रिमप्रभावपूर्ण जगत्
(ञ) आम्रम्
(ट) त्यजति
(ठ) कुटिलम्
(ड) खाद्यपदार्थ
(ढ) सञ्चलनम्
(ण) अत्यधिकम्
(त) मलेन युक्तम्
(थ) पवित्रम्
(द) वाहनानाम्
(ध) पृथ्वी
(न) मनसि
(प) अत्यधिकम्
(फ) अवलोकयामि
(ब) वने
(भ) मित्र
(म) नहि
(य) इच्छामि


‘क’ स्तम्भे विशेषणपदं लिखितम् ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत

‘क’ स्तम्भ – ‘ख’ स्तम्भ
(क) शुचि – (i) दशनः
(ख) दुर्दान्तः – (ii) वायुमण्डलम्
(ग) दूषितम् – (iii) कान्तरे
(घ) निर्मलं – (iv) पर्यावरणम्
(ङ) समलं – (v) धरातलम्
(च) एकान्ते – (vi) धुमं
(छ) मलिनं – (vii) पक्तयः
(ज) अनंताः – (viii) जलम्

Answer

Answer:
(क) शुचि – (iv) पर्यावरणम्
(ख) दुर्दान्तः – (i) दशनः
(ग) दूषितम् – (ii) वायुमण्डलम्
(घ) निर्मलं – (viii) जलम्
(ङ) समलं – (v) धरातलम्
(च) एकान्ते – (iii) कान्तरे
(छ) मलिनं – (vi) धुमं
(ज) अनंताः – (vii) पक्तयः


निम्न ‘क’ वर्गीय पदायं ‘ख’ वर्गीय पदेषु विपर्यायपदानि चीयताम्

‘क’ पदानि – ‘ख’ विपर्यायपदानि
(क) निर्मलम् – अदुर्दान्तैः
(ख) भक्ष्यम् – निर्मलम्
(ग) बहु – ग्रहणति
(घ) करणीयम् – एकम्
(ङ) नगरात् – अन्ताः
(च) बहुदूरम् – सरलम्
(छ) कान्तारे – अकरणीयम्
(ज) रमणीया – ग्रामात्
(झ) रुचिरम् – समीपम्
(ञ) बन्धो! – नगरे
(ट) कुर्यात् – अरमणीया
(ठ) जीवितम् – मलम्
(ड) सभ्यता – अभक्ष्यम्
(ढ) मानवाय – यम
(ण) भृषम् – अरुचिरम्
(त) दूषितम् – शत्रो!
(थ) शुचि – अकुर्यात्
(द) वक्रम् – मरणम्
(ध) दुर्दान्तः – असभ्यता
(न) मलिनम् – दानवाय
(प) मुञ्चति – न्यूनम्
(फ) शतम् – अदूषितम्
(ब) अनन्ताः – अशुचि
(भ) कठिनम् – सरलम्

Answer

Answer:
(क) मलम्
(ख) अभक्ष्यम्
(ग) न्यून
(घ) अकरणीयम्
(ङ) ग्रामात्
(च) समीपम्
(छ) नगरे
(ज) अरमणीया
(झ) अरुचिरम्
(ञ) शत्रो!
(ट) अकुर्यात्
(ठ) मरणम्
(ड) असभ्यता
(ढ) दानवाय
(ण) न्यूनम्
(त) अदूषितम्
(थ) अशुचि
(द) सरलम्
(ध) अदुर्दान्तैः
(न) निर्मलम्
(प) ग्रहणति
(फ) एकम्
(ब) अन्ताः
(भ) सरलम्


We hope the given NCERT MCQ Questions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 10 Sanskrit शुचिपर्यावरणम् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 9 Sanskrit Chapter 12 वाडमनःप्राणस्वरूपम् with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Chapter 12 वाडमनःप्राणस्वरूपम् with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided वाडमनःप्राणस्वरूपम् Class 9 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 9 Sanskrit Chapter 12 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्नवाक्येषु रेखाकित पदानाम् स्थानेषु प्रश्नवाचकं पदं लिखत

Question 1.
मथ्यमानस्य दघ्नः अणिमा ऊर्ध्वं समुदीषति।।
(क) कस्य
(ख) किम्
(ग) कम्
(घ) कुत्र

Answer

Answer: (घ) कुत्र


Question 2.
भवता घृतोत्पत्तिरहस्यम् व्याख्यातम्।
(क) कम्
(ख) किम्
(ग) केन
(घ) कीदृशम्

Answer

Answer: (ख) किम्


Question 3.
आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
(क) किम्
(ख) कम्
(ग) कः
(घ) के

Answer

Answer: (ख) कम्


Question 4.
श्वेतकेतुः वाग्विषये पृच्छति।
(क) कस्य
(ख) किम्
(ग) कः
(घ) कीदृशः

Answer

Answer: (ग) कः


Question 5.
अशितस्यान्नस्य यः अणिष्ठः तत् मनः।
(क) किम्
(ख) कः
(ग) कस्य
(घ) कम्

Answer

Answer: (ग) कस्य


Question 6.
पीतानाम् अपां यः अणिष्ठः सः प्राणः।
(क) किम्
(ख) कीदृशाणाम्
(ग) कम्
(घ) काम्

Answer

Answer: (ख) कीदृशाणाम्


Question 7.
अशितस्य तेजसा योऽणिष्ठः सा वाक्।
(क) कीदृशः
(ख) कः
(ग) कस्य
(घ) केन

Answer

Answer: (क) कीदृशः


Question 8.
अहम् भूयोऽपि श्रोतुमिच्छामि।
(क) कथम्
(ख) कतिवारम्
(ग) कदा
(घ) कः

Answer

Answer: (ख) कतिवारम्


Question 9.
एतत् सर्वम् हृदयेन अवधारय।
(क) कथम
(ख) किम्
(ग) केन
(घ) कम्

Answer

Answer: (ग) केन


Question 10.
मानवः यादृशं अन्नं गृह्णाति तादृशं तस्य चित्तादिकं भवति।
(क) कः
(ख) कम्
(ग) कथम्
(घ) किम्

Answer

Answer: (क) कः


Question 11.
मानवः यादृशं अन्नं गृह्णाति तादृशं तस्य चित्तादिकं भवति।
(क) कीदृशम्
(ख) क़म्
(ग) किम्
(घ) कः

Answer

Answer: (क) कीदृशम्


Question 12.
मनः अन्नमयं भवति।
(क) कस्य
(ख) कः
(ग) किम्
(घ) केषाम्

Answer

Answer: (ग) किम्


Question 13.
प्राणः अपोमयः भवति।
(क) कः
(ख) कीदृशः
(ग) कस्य
(घ) किम्

Answer

Answer: (ख) कीदृशः


Question 14.
वाक् तेजोमयी भवति।
(क) का
(ख) कः
(ग) कथम्
(घ) कदा

Answer

Answer: (क) का


Question 15.
मनः अन्नमयं भवति।
(क) केषाम्
(ख) कस्य
(ग) केन
(घ) कीदृशम्

Answer

Answer: (घ) कीदृशम्


Question 16.
प्राणः अपोमयः भवति।
(क) कथम्
(ख) कदा
(ग) कः
(घ) केन

Answer

Answer: (ग) कः


Question 17.
वाक् तेजोमयी भवति।
(क) कस्य
(ख) कीदृशी
(ग) कस्य
(घ) किम्

Answer

Answer: (ख) कीदृशी


निम्नलिखितम् संवादं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत

श्वेतकेतुः – भगवन्! श्वेतकेतुरहं वन्दे।
आरुपिणः – वत्स! चिरञ्जीव।
श्वेतकेतुः – भगवन्! किञ्चित्प्रष्टुमिच्छामि।
आरुणिः – वत्स! किमद्य त्वया प्रष्टव्यमस्ति?
श्वेतकेतुः – भगवन्! ज्ञातुम् इच्छामि यत् किमिदं मनः?
आरुणिः – वत्स! अशितस्यान्नस्य योऽणिष्ठः तन्मनः।

Question 1.
कः प्रश्न प्रष्टुम् इच्छति?

Answer

Answer: श्वेतकेतुः


Question 2.
श्वेतकेतुः कस्मात् प्रश्नं पृच्छति?

Answer

Answer: आरुणेः


Question 3.
अन्नस्य कीदृशः भागः मनः?

Answer

Answer: अणिष्ठः


Question 4.
श्वेतकेतुः कम् प्रणामम् करोति?

Answer

Answer: श्वेतकेतुः आरुणिम् प्रणामम् करोति।


Question 5.
मनः किम् अस्ति?

Answer

Answer: अशितस्यान्नस्य योऽणिष्ठः तन्मनः।


Question 6.
‘तत् मनः’ अत्र विशेषणपदं किम्?

Answer

Answer: तत्


Question 7.
‘अहम् वन्दे’ अत्र ‘अहम्’ पदं कस्मै प्रयुक्तम्?

Answer

Answer: श्वेतकेतवे


Question 8.
‘किञ्चित् प्रष्टुम् इच्छामि’ अत्र ‘इच्छामि’ क्रियापदस्य कर्ता कः?

Answer

Answer: श्वेकेतुः (अहम्)


Question 9.
‘भक्षितस्य’ इति पदस्य अर्थे गद्यांशे किं पदं प्रयुक्तम्?

Answer

Answer: अशितस्य।


श्वेतकेतुः – कश्च प्राणः?
आरुणिः – पीतानाम् अपां योऽणिष्ठः स प्राणः।
श्वेतकेतुः – भगवन्! का इयं वाक्?
आरुणिः – वत्स! अशितस्य तेजसा योऽणिष्ठः सा वाक्। सौम्य! मनः अन्नमयं, प्राणः आपोमयः वाक् च तेजोमयी भवति इत्यप्यवधार्यम्।
श्वेतकेतुः – भगवन्! भूय एव मां विज्ञापयतु।
आरुणिः – सौम्य! सावधानं शृणु! मथ्यमानस्य दनः योऽणिमा, स ऊर्ध्वः समुदीषति। तत्सर्पिः भवति।
श्वेतकेतुः – भगवन्! भवता घृतोत्पत्तिरहस्यम् व्याख्यातम्। भूयोऽपि श्रोतुमिच्छामि।
आरुणिः – एवमेव सौम्य! अश्यमानस्य अन्नस्य योऽणिमा, स ऊर्ध्वः समुदीषति। तन्मनो भवति। अवगतं न वा?

Question 1.
घृतोत्पत्तिरहस्यम् कः वदति?

Answer

Answer: आरुणिः


Question 2.
अपाम् अरिष्टः भागः कः भवतिः

Answer

Answer: प्राणः


Question 3.
श्वेतकेतुः कस्य शिष्यः आसीत्?

Answer

Answer: आरुणेः


Question 4.
सर्पिः किम् भवति?

Answer

Answer: मथ्यमानस्य दनः योऽणिमा, स ऊर्ध्वः समुदीषति। तत्सर्पिः भवति।


Question 5.
वाक्, प्राणः मनश्च कीदृशानि भवन्ति?

Answer

Answer: वाक् तेजोमयी, प्राणः आपोमयः मनः अन्नमयं च भवति।


Question 6.
‘उपरि’ इति पदस्य अर्थे किम् पदम् संवादे प्रयुक्तम्?

Answer

Answer: ऊर्ध्वः


Question 7.
‘वक्तुम्’ इति पदस्य संवादे विपर्ययपदं किं प्रयुक्तम्?

Answer

Answer: श्रोतुम्


Question 8.
‘सौम्य’ इति पदम् कस्मै प्रयुक्तम्?

Answer

Answer: श्वेतकेतवे


Question 9.
‘केयं वाक्’ अत्र विशेषणपदं किम् प्रयुक्तम्?

Answer

Answer: इयम्


श्वेतकेतुः – सम्यगवगतं भगवन्!।
आरुणिः – वत्स! पीयमानानाम् अपां योऽणिमा स ऊर्ध्वः समुदीषति स एव प्राणो भवति।
श्वेतकेतुः – भगवन्! वाचमपि विज्ञापयतु।
आरुणिः – सौम्य! अश्यमानस्य तेजसो योऽणिमा, स ऊर्ध्वः समुदीषति। सा खलु वाग्भवति। वत्स! उपदेशान्ते भूयोऽपि त्वां विज्ञापयितुमिच्छामि यत् अन्नमयं भवति मनः, आपोमयो भवति प्राणाः तेजोमयी च भवति वागिति। किञ्च यादृशमन्नादिकं गृह्णाति मानवस्तादृशमेव तस्य चित्तादिकं भवतीति मदुपदेशसारः। वत्स! एतत्सर्वं हृदयेन अवधारय।
श्वेतकेतुः – यदाज्ञापयति भगवन्। एष प्रणमामि।
आरुणिः – वत्स! चिरञ्जीव। तेजस्वि नौ अधीतम् अस्तु (आवयोः अधीतम् तेजस्वि अस्तु)।

Question 1.
कः सम्यक् अवगच्छति?

Answer

Answer: श्वेतकेतुः


Question 2.
चिरञ्जीव! इति कः कथयति?

Answer

Answer: आरुणिः


Question 3.
श्वेतकेतुः कं प्रणमति?

Answer

Answer: आरुणिम्


Question 4.
आरुणेः उपदेशस्य सारः किम् अस्ति?

Answer

Answer: आरुणेः उपदेशस्य सारः अस्ति यत् मनुष्यः यादृशम् अन्नादिकं गृह्णाति तादृशमेव तस्य चित्तादिकं भवति।


Question 5.
मनः कीदृशं भवति?

Answer

Answer: अन्नमयं मनः भवति।


Question 6.
अत्र ‘प्रणमामि’ इति क्रियापदस्य कर्ता कः?

Answer

Answer: श्वेतकेतुः (अहम्)


Question 7.
‘पठितम्’ इति पदस्य पर्यायपदं संवादे किम्?

Answer

Answer: अधीतम्


Question 8.
‘भवतीति मदुपदेशसारः’ अत्र ‘मत्’ पदम् कस्मै प्रयुक्तम्?

Answer

Answer: आरुणये


Question 9.
अनुच्छेदे ‘अधः’ इत्यस्य पदस्य कः विपर्ययः आगतः?

Answer

Answer: ऊर्ध्वः


‘अ’ वर्गस्य पर्यायपदानि ‘ब’ वर्गेण दत्तैः पदैः सह यथायोग्यं योजयत

‘अ’ वर्गः – ‘ब’ वर्गः
1. अपाम् – भक्ष्यमाणस्य
2. अपोमयः – उत्तमरीत्या
3. अवधार्यम् – घृतम्
4. भूयोऽपि – प्रणमामि
5. वाक् – लघिष्ठः
6. अवगतम् – जलानाम्
7. ऊर्ध्व – पुनरपि
8. अस्यमानस्य – अवागच्छम्
9. सम्यक् – जलमयः
10. सर्पिः – उपरि
11. वन्दे – अवगन्तव्यम्
12. प्रष्टव्यम् – वाणी
13. अणिष्ठः – प्रष्टुम् योग्यम्
14. तेजोमयः – समुत्तिष्ठति
15. विज्ञापयतु – तेजोयुक्तम्
16. उपदेशान्ते – आवयोः
17. श्रोतुम् – अग्निमयः
18. समुदीषति – प्रबोधयतु
19. तेजस्वि – प्रवचनान्ते
20. नौ – आकर्णयितुम्

Answer

Answer:
1. जलानाम्
2. जलमयः
3. अवगन्तव्यम्
4. पुनरपि
5. वाणी
6. अवागच्छम्
7. उपरि
8. भक्ष्यमाणस्य
9. उत्तमरीत्या
10. घृतम्
11. प्रणमामि
12. प्रष्टुम् योग्यम्
13. लघिष्ठः
14. अग्निमयः
15. प्रबोधयतु
16. प्रवचनान्ते
17. आकर्णयितुम्
18. समुत्तिष्ठति
19. तेजोयुक्तम्
20. आवयोः।


निम्नवाक्यानि घटनाक्रमानुसारं पुनर्लिखत

1. (i) भगवन् मनः किं भवति?
(ii) अशितस्य तेजसः यः अणिष्ठः भागः भवति सा वाक् अस्ति।
(iii) अनेन शिष्यः सन्तुष्टः भूत्वा तं प्रणमति।
(iv) श्वेतकेतुः नाम शिष्यः गुरुम् आरुणिं प्रश्नं पृच्छति।
(v) भगवन् प्राणः कः?
(vi) गुरुः वदति यत् अशितस्य अन्नस्य यः अणिष्ठः भागः तत् मनः भवति।
(vii) गुरुः अकथयत्-पीतानाम् अपां यः अणिष्ठः भागः सः प्राणः भवति।
(viii) पुनः श्वेतकेतुः वदति यत् वाक् काऽस्ति?

Answer

Answer:
(i) श्वेतकेतुः नाम शिष्यः गुरुम् आरुणिं प्रश्नं पृच्छति।
(ii) भगवन् मनः किं भवति?
(iii) गुरुः वदति यत् अशितस्य अन्नस्य यः अणिष्ठः भागः तत् मनः भवति।
(iv) भगवन् प्राणः कः?
(v) गुरुः अकथयत्-पीतानाम् अपां यः अणिष्ठः भागः सः प्राणः भवति।
(vi) पुनः श्वेतकेतुः वदति यत् वाक् काऽस्ति?
(vii) अशितस्य तेजसः यः अणिष्ठः भागः भवति सा वाक् अस्ति।
(viii) अनेन शिष्यः सन्तुष्टः भूत्वा तं प्रणमति।


2. (i) गुरुः आरुणिः वदति-पीयमानानाम् अपाम् यः अणिमा ऊर्ध्वः समुदीषति स एव प्राणः भवति।
(ii) वत्स! अश्यमानस्य तेजसः च अणिमा भागः ऊर्ध्वः उद्गच्छति सा एव वाक् भवति।
(iii) गुरुः कथयति-सौम्य! आश्यमानस्य अन्नस्य यः अणिमा अंशः सः एव मनः भवति।
(iv) गुरोः आरुणेः प्रियः शिष्यः श्वेतकेतुः आसीत्।
(v) पुनः शिष्यः पृच्छति-गुरुवर! प्राणश्च कः?
(vi) भगवन् मनः किमस्ति?
(vii) भगवन्! कथयतु भवान् यत् वाक् च कः कथ्यते?
(viii) सः गुरुम् उपगम्य मनसः, प्राणस्य वाचः च विषये प्रश्नानि पृच्छति।

Answer

Answer:
(i) गुरोः आरुणे: प्रियः शिष्यः श्वेतकेतुः आसीत्।
(ii) स: गुरुम् उपगम्य मनसः, प्राणस्य वाचः च विषये प्रश्नानि पृच्छति।
(iii) भगवन् मनः किमस्ति?
(iv) गुरुः कथयति-सौम्य! आश्यमानस्य अन्नस्य यः अणिमा अंशः सः एव मनः भवति।
(v) पुनः शिष्यः पृच्छति-गुरुवर! प्राणश्च कः?
(vi) गुरुः आरुणिः वदति-पीयमानानाम् अपाम् यः अणिमा ऊर्ध्वः समुदीषति स एव प्राणः भवति।
(vii) भगवन्! कथयतु भवान् यत् वाक् च कः कथ्यते?
(viii) वत्स! अश्यमानस्य तेजसः च अणिमा भागः ऊर्ध्वः उद्गच्छति सा एव वाक् भवति।


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे विशेष्याणि दत्तानि। तानि समुचित योजयत

‘क’ स्तम्भः – ‘ख’ स्तम्भः
1. इदम् – रहस्यम्
2. यः – वाक्
3. व्याख्यातम् – मनः
4. सा – प्राणः
5. अन्नमयम् – वाणी
6. अपोमयः – मनः
7. तेजोमयी – अणिष्ठः
8. अन्नमयम् – मनः

Answer

Answer:
1. मन:
2. अणिष्ठः
3. रहस्यम्
4. वाक्
5. मनः
6. प्राणः
7. वाणी
8. मनः


‘अ’ वर्गस्य विपर्ययपदानि ‘ब’ वर्गे दत्तैः पदैः सह मेलयत

‘अ’ वर्गः – ‘ब’ वर्गः
1. श्रोतुम् – असम्यक्
2. रहस्यम् – अवधीतम्
3. अन्ते – सर्वम्
4. सौम्यः – अधः
5. सम्यक् – वक्तुम्
6. भूयः – लघिष्ठः
7. ऊर्ध्वम् – प्राकटम्
8. अनवधीतम् – आरम्भे
9. किञ्चित् – चञ्चलः
10. गरिष्ठः – एकवारम्

Answer

Answer:
1. वक्तुम्
2. प्राकटम्
3. आरम्भे
4. चञ्चलः
5. असम्यक्
6. एकवारम्
7. अधः
8. अवधीतम्
9. सर्वम्
10. लघिष्ठः।


We hope the given NCERT MCQ Questions for Class 9 Sanskrit Chapter 12 वाडमनःप्राणस्वरूपम् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 9 Sanskrit वाडमनःप्राणस्वरूपम् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 9 Sanskrit Chapter 11 पर्यावरणम् with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Chapter 11 पर्यावरणम् with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided पर्यावरणम् Class 9 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 9 Sanskrit Chapter 11 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्नवाक्येषु रेखाकित पदानां स्थानेषु प्रश्नवाचक पदं लिखत

Question 1.
प्रकृतिः प्राणिनाम् संरक्षति।
(क) केषाम्
(ख) का
(ग) कः
(घ) काम्

Answer

Answer: (क) केषाम्


Question 2.
प्रकृतिः सुखसाधनैः तर्पयति।
(क) केन
(ख) किमर्थम्
(ग) कैः
(घ) कम्

Answer

Answer: (ग) कैः


Question 3.
पञ्चतत्वानि मिलित्वा पर्यावरणं रचयन्ति।
(क) कानि
(ख) किम्
(ग) कीदृशम्
(घ) कम्

Answer

Answer: (ख) किम्


Question 4.
‘परिष्कृतम्’ पर्यावरणं अस्मभ्यम् जीवनं यच्छति।
(क) किम्
(ख) कीदृशम्
(ग) केन
(घ) कथम्

Answer

Answer: (ख) कीदृशम्


Question 5.
प्रकृतिकोपैः जनः आतङ्कितः भवति।
(क) कीदृशः
(ख) कीदृशम्
(ग) कीदृशेन
(घ) कीदृशाः

Answer

Answer: (क) कीदृशः


Question 6.
‘इन्धनकाष्ठानि‘ बाहुल्येन समुपहरन्ति।
(क) कानि
(ख) काम्
(ग) कम्
(घ) कान्

Answer

Answer: (क) कानि


Question 7.
वृक्षकर्तनात् सङ्कटापन्नो जातः।।
(क) कात्
(ख) कस्मात्
(ग) केन
(घ) कुतः

Answer

Answer: (ख) कस्मात्


Question 8.
यन्त्रागाराणां विषाक्तं जलं नद्याम् पतन्ति।
(क) काम्
(ख) कानाम्
(ग) कासाम्
(घ) केषाम्

Answer

Answer: (घ) केषाम्


Question 9.
पर्यावरणरक्षणं धर्मस्य अङ्ग इति ऋषयः कथयन्ति।
(क) कस्य
(ख) किम्
(ग) कम्
(घ) कः

Answer

Answer: (क) कस्य


Question 10.
शुद्धपर्यावरणं अस्मभ्यम् जीवनं यच्छति।
(क) केभ्यः
(ख) कम्
(ग) किमर्थम्
(घ) काम्

Answer

Answer: (क) केभ्यः


Question 11.
स्वार्थान्धः मानवः अद्य पर्यावरणं नाशयति।
(क) कीदृशः
(ख) कः
(ग) केन
(घ) कम्

Answer

Answer: (क) कीदृशः


Question 12.
पञ्च प्रमुखानि तत्त्वानि सन्ति।
(क) कदा
(ख) कति
(ग) कः
(घ) का

Answer

Answer: (ख) कति


Question 13.
वने ऋषयः वसन्ति स्म?
(क) के
(ख) केन
(ग) कस्मै
(घ) कदा

Answer

Answer: (ख) केन


Question 14.
प्राचीनकाले ऋषयः लोकमङ्गलाशंसिनः आसन्।
(क) कति
(ख) कः
(ग) कदा
(घ) कम्

Answer

Answer: (ग) कदा


Question 15.
भूकम्पैः मानवस्य मङ्गलम् या भवति?
(क) केषाम्
(ख) कथम्
(ग) कैः
(घ) कः

Answer

Answer: (ग) कैः


Question 16.
विहगाः श्रोत्ररसायनं ददति।
(क) कानाम्
(ख) कासाम्
(ग) कति
(घ) के

Answer

Answer: (घ) के


Question 17.
स्वल्पलाभाय जनाः बहुमूल्यानि वस्तूनि नाशयन्ति।
(क) कीदृशानि
(ख) के
(ग) कैः
(घ) का

Answer

Answer: (क) कीदृशानि


निम्नलिखितम् गद्यांशम् पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत

प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते। इयं सर्वान् पुष्णाति विविधैः प्रकारैः सुखसाधनैः च तर्पयति। पृथिवी, जलं, तेजः, वायुः, अकाशः च अस्याः प्रमुखानि तत्त्वानि। तान्येव मिलित्वा पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति। आवियते परितः समन्तात् लोकः अनेन इति पर्यावरणम्। यथा अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति तथैव मानवः पर्यावरणकुक्षौ। परिष्कृतं प्रदूषणरहितं च पर्यावरणम् अस्मभ्यं सांसारिकं जीवनसुखं, सद्विचार, सत्यसङ्कल्पं माङ्गलिकसामग्रीञ्च प्रददाति। प्रकृतिकोपैः आतङ्कितो जनः किं कर्तुं प्रभवति? जलप्लावनैः, अग्निभयैः, भूकम्पैः, वात्याचक्रैः, उल्कापातादिभिश्च सन्तप्तस्य मानवस्य क्व मङ्गलम्?

Question 1.
प्रकृतिः केषाम् संरक्षणाय यतते?

Answer

Answer: प्राणिनाम्


Question 2.
का विविधैः प्रकारैः सर्वान् पुष्णाति तर्पयति च?

Answer

Answer: प्रकृतिः


Question 3.
प्रकृतिः कैः पोषयति?

Answer

Answer: सुखसाधनैः।


Question 4.
प्रकृतिः कथं रक्षणं करोति?

Answer

Answer: प्रकृतिः यथा अजातः शिशुः मातृगर्भे सुरक्षितः तिष्ठति तथैव मानवः पर्यावरणकुक्षौ रक्षणं करोति।


Question 5.
परिष्कृतं प्रदुषणरहितं च पर्यावरणं अस्मभ्यम् किं ददाति?

Answer

Answer: परिष्कृतं प्रदूषणरहित च पर्यावरणं अस्मभ्यम् सांसारिकं जीवनसुखं, सद्विचार, सत्यसंकल्प मांगलिक सामग्रीञ्च प्रददाति।


Question 6.
‘इयं सर्वान् पुष्णाति’ अत्र ‘इयं’ पदम् कस्यै प्रयुक्तम्?

Answer

Answer: प्रकृत्ये


Question 7.
‘शुद्धम्’ इति पदस्य पर्यायपदं गद्यांशे किम् प्रयुक्तम्?

Answer

Answer: परिष्कृतम्


Question 8.
‘प्रददाति’ इति क्रियापदस्य कर्तृपदम् किम् अत्र?

Answer

Answer: पर्यावरणम्


Question 9.
अत्र ‘विविधैः’ इति विशेषणपदस्य विशेष्यपदं किम्?

Answer

Answer: सुखसाधनैः


अत एव अस्माभिः प्रकृतिः रक्षणीया। तेन च पर्यावरणं रक्षितं भविष्यति। प्राचीनकाले लोकमङ्गलाशंसिनः ऋषयो वने निवसन्ति स्म। यतो हि वने सुरक्षितं पर्यावरणमुपलभ्यते स्म। तत्र विविधा विहगाः कलकूजिश्रोत्ररसायनं ददति। सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति। वृक्षा लताश्च फलानि पुष्पाणि इन्धनकाष्ठानि च बाहुल्येन समुपहरन्ति। शीतलमन्दसुगन्धवनपवना औषधकल्पं प्राणवायु वितरन्ति।

Question 1.
प्रकृतिः केन रक्षणीया?

Answer

Answer: अस्माभिः


Question 2.
के श्रोत्ररसायनं ददति?

Answer

Answer: विहगाः


Question 3.
प्राचीन काले वने के वसन्ति स्म?

Answer

Answer: ऋषयः।


Question 4.
प्राचीनकाले कीदृशाः ऋषयः वने निवसन्ति स्म?

Answer

Answer: प्राचीनकाले लोकमङ्गलाशंसिनः ऋषयः वने निवसन्ति स्म।


Question 5.
निर्मलं जलं के-के प्रयच्छन्ति?

Answer

Answer: सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति।


Question 6.
अत्र ‘आधुनिककाले’ इति पदस्य विपर्ययपदं किम् अस्ति?

Answer

Answer: प्राचीनकाले


Question 7.
‘विविधाः विहगाः’ अनयोः पदयोः अत्र विशेषणपदं किम्?

Answer

Answer: विविधाः


Question 8.
‘सरिता’ इति कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: प्रयच्छति


Question 9.
खगाः ‘इति पदस्य पर्यायपदं किम्?’

Answer

Answer: विहगाः


परन्तु स्वार्थान्धो मानवः तदेव पर्यावरणम् अद्य नाशयति। स्वल्पलाभाय जना बहुमूल्यानि वस्तूनि नाशयन्ति। जनाः यन्त्रागाराणां विषाक्तं जलं नद्यां निपातयन्ति। तेन मत्स्यादीनां जलचराणां च क्षणेनैव नाशो भवति। नदीजलमपि तत्सर्वथाऽपेयं जायते। मानवाः व्यापारवर्धनाय वनवृक्षान् निर्विवेकं छिन्दन्ति। तस्मात् अवृष्टिः प्रवर्धते, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधति। शुद्धवायुरपि वृक्षकर्तनात् सङ्कटापन्नो जायते एवं हि स्वार्थान्धमानवै विकृतिम् उपगता प्रकृतिः एव तेषां सर्वेषां विनाशकी भवति। विकृतिमुपगते पर्यावरणे विविधाः रोगाः भीषणसमस्याश्च सम्भवन्ति तत्सर्वमिदानी चिन्तनीयं प्रतिभाति।

Question 1.
कीदृशः मानवः अद्य पर्यावरणं नाशयति?

Answer

Answer: स्वार्थान्धः


Question 2.
कस्याः जलम् सर्वथा अपेयं जायते?

Answer

Answer: नद्याः (नदीजलम्)


Question 3.
जनाः किमर्थम् बहुमूल्यानि वस्तूनि नाश्यन्ति?

Answer

Answer: स्वल्पलाभाय।


Question 4.
यन्त्रागाराणां जलं किम् करोति?

Answer

Answer: यन्त्रागाराणां विषाक्तं जलं नद्यां निपात्यते येन मत्स्यादीनां जलचराणां च क्षणेनैव नाशः जायते।


Question 5.
वृक्षकर्तनात् कीदृशः संकटापन्नो जातः?

Answer

Answer: शुद्धवायुरपि वृक्षकर्तनात् संकटापन्नो जातः।


Question 6.
‘बहुलाभाय’ अस्य पदस्य विपर्ययपदं किं प्रयुक्तम्?

Answer

Answer: स्वल्पलाभाय


Question 7.
‘भवति’ इति क्रियापदस्य कर्ता कः?

Answer

Answer: प्रकृतिः


Question 8.
‘विविधाः रोगाः’ अनयोः पदयोः अत्र विशेष्यपदं किम्?

Answer

Answer: रोगाः


Question 9.
‘वस्तूनि’ इति विशेष्य पदस्य विशेषणपदं किम् अत्र?

Answer

Answer: बहुमूल्यानि।


धर्मो रक्षति रक्षितः इत्यार्षवचनम्। पर्यावरणरक्षणमपि धर्मस्यैवाङ्गमिति ऋषयः प्रतिपादितवन्तः। अत एव ‘वापीकूपतडागादिनिर्माणं देवायतन-विश्रामगृहादिस्थापनञ्च धर्मसिद्धेः स्रोतो रूपेण अङ्गीकृतम्। कुक्कुर-सूकर-सर्प-नकुलादि-स्थलचराः, मत्स्य-कच्छप-मकरप्रभृतयः जलचराश्च अप रक्षणीयाः, यतः ते स्थलमलानाम् अपनोदिनः जलमलानाम् अपहारिणश्च। प्रकृतिरक्षया एव लोकरक्षा सम्भवति इत्यत्र न संशयः।

Question 1.
‘धर्मो रक्षति रक्षितः’ इति कीदृशम् वचनम्?

Answer

Answer: आर्षवचनम्


Question 2.
पर्यावरणरक्षणं कस्य अङ्गम् इति?

Answer

Answer: धर्मस्य


Question 3.
कः रक्षितः रक्षति?

Answer

Answer: धर्मः।


Question 4.
आर्षवचनम् किम्?

Answer

Answer: ‘धर्मो रक्षति रक्षितः’ इति आर्षवचनम् अस्ति।


Question 5.
स्थलचराः के-के. भवन्ति?

Answer

Answer: कुक्कुर-सूकर-सर्प-नकुल आदयः स्थलचराः भवन्ति।


Question 6.
‘प्रतिपादितवन्तः’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: ऋषयः


Question 7.
अनुच्छेदे ‘लोकरक्षा’ इति कर्तृपदस्यं क्रियापदं किम्?

Answer

Answer: संभवति


Question 8.
अनुच्छेदे ‘स्थलचराः’ इति पदस्य विपर्ययपदं किम्?

Answer

Answer: जलचराः


Question 9.
अत्र ‘ऋषीणां’ इति पदस्य पर्यायपदं किम्?

Answer

Answer: आर्षः।


निम्न ‘क’ वर्गीय पदानाम् ‘ख’ वर्गीय पदेषु पर्यायपदम् चित्वा लिखत

‘क’ वर्गः – ‘ख’ वर्गः
1. यतते – कर्णामृतम्
2. कुक्षौ – अधुना
3. परितः – शोचनीयम्
4. परिष्कृतम् – ऋषयः
5. गिरिनिर्झराः – प्रयत्न करोति
6. श्रोत्ररसायनम् – स्वीकृतम्
7. प्राणवायुः – शुद्धम्
8. अपेयम् – पर्वतानां प्रपाताः
9. इदानीम् – गर्भ
10. अवृष्टिः – समन्तात्
11. चिन्तनीयम् – आक्सीजनम्
12. देवायतनम् – पातुम् अयोग्यम्
13. आर्षः – वर्षारहितः
14. अङ्गीकृतम् – देवालयः

Answer

Answer:
1. प्रयत्नं करोति
2. गर्भे
3. समन्तात्
4. शुद्धम्
5. पर्वतानां प्रपाताः
6. कर्णामृतम्
7. आक्सीजनम्,
8. पातुम् अयोग्यम्
9. अधुना
10. वर्षारहितः
11. शोचनीयम्
12. देवालयः
13. ऋषयः
14. स्वीकृतम्।


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे विशेष्याणि दत्तानि। तानि समुचित योजयत

‘क’ स्तम्भः – ‘ख’ स्तम्भः
1. प्रमुखानि – सुखसाधनैः
2. विविधैः – प्रकृतिः
3. इयं – मानवस्य
4. सन्तप्तस्य – विहगाः
5. आतङ्कितः – जलम्
6. विविधाः – वनपवनः
7. निर्मलम् – प्रकृतिः
8. शीतलः – धर्म
9. बहुमूल्यानि – प्राणिनाम्
10. विनाशकी – वस्तुनि
11. रक्षितः – जनः
12. समेषाम् – तत्त्वानि

Answer

Answer:
1. तत्त्वानि
2. सुखसाधनैः
3. प्रकृतिः
4. मानवस्य
5. जनः
6. विहगाः
7. जलम्
8. वनपवनः
9. वस्तूनि
10. प्रकृतिः
11. धर्म:
12. प्राणिनाम्


निम्न ‘क’ वर्गीय पदानाम् ‘ख’ वर्गीय पदेषु विलोमपदानि मेलयत

‘क’ वर्गः – ‘ख’ वर्गः
1. जलचराः – पुरा
2. संशयः – पेयम्
3. धर्मः – उपकी
4. रक्षितः – अविषाक्तम्
5. स्वार्थः – असुरक्षितम्
6. अद्य – असत्यम्
7. अपेयम् – असंशयः
8. निर्विवेकम् – परार्थः
9. विनाशकी – अधर्मः
10. विषाक्तम् – स्थलचराः
11. भविष्यति – अरक्षितः
12. प्राचीनकाले – सविवेकम्
13. सुरक्षितम् – आसीत्
14. सद्विचारम् – आधुनिक काले
15. अजातशिशुः – कुविचारम्
16. सत्यम् – जातशिशुः

Answer

Answer:
1. स्थलचराः
2. असंशयः
3. अधर्मः
4. अरक्षितः
5. परार्थः
6. पुरा
7. पेयम्
8. सविवेकम्
9. उपकत्री
10. अविषाक्तम्
11. आसीत्
12. आधुनिक काले
13. असुरक्षितम्
14. कुविचारम्
15. जातशिशुः
16. असत्यम्।


We hope the given NCERT MCQ Questions for Class 9 Sanskrit Chapter 11 पर्यावरणम् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 9 Sanskrit पर्यावरणम् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided जननी तुल्यवत्सला Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 10 Sanskrit Chapter 5 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

कोष्ठकेषु उचितं उत्तरं चित्वा प्रश्ननिर्माणं कुरुत

Question 1.
दुर्बले सुते मातुः अभ्यधिका कृपा भवति।
(i) के
(ii) कति
(iii) कस्य
(iv) कस्याः

Answer

Answer: (iv) कस्याः


Question 2.
सर्वत्र एव जलोपप्लवः सञ्जातः।
(i) कः
(ii) कीदृशः
(iii) किम्
(iv) कथम्

Answer

Answer: (ii) कीदृशः


Question 3.
बहूनि अपत्यानि सन्ति।
(i) कानि
(ii) कीदृशाः
(iii) कथम्
(iv) कम्

Answer

Answer: (i) कानि


Question 4.
एक :बलीवर्दः शरीरेण दुर्बलः आसीत्।
(i) केन
(ii) कथम्
(ii) कीदृशम्
(iv) किम्

Answer

Answer: (i) केन


Question 5.
कृषीवलः क्रुद्धः अभवत्।
(i) कः
(ii) कीदृशः
(iii) किम्
(iv) केन

Answer

Answer: (ii) कीदृशः


Question 6.
मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्।
(i) काः
(ii) कस्याः
(iii) कीदृशः
(iv) काम्

Answer

Answer: (ii) कस्याः


Question 7.
पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
(i) किम्
(ii) कम्
(iii) कः
(iv) कीदृशम्

Answer

Answer: (i) किम्


Question 8.
कृषक: तं दीनम् बहुधा पीङयति।
(i) कीदृशम्
(ii) किम्
(iii) केन
(iv) कथम्

Answer

Answer: (i) कीदृशम्


Question 9.
क्रुद्ध कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्।
(i) कीदृशम्
(ii) कतिवारम्
(iii) एकवारम्
(iv) किम्

Answer

Answer: (ii) कतिवारम्


Question 10.
सर्वेषु अपत्येषु जननी तुल्यवत्सला भवति।
(i) कासु
(ii) केषु
(iii) कस्याः
(iv) कथम्

Answer

Answer: (ii) केषु


Question 11.
दीने पुत्रे तु माता कृपाईहृदया भवेत्।।
(i) कासु
(ii) कीदृशी
(iii) का
(iv) कीदृशः

Answer

Answer: (ii) कीदृशी


Question 12.
कृषक: वृषभौ नीत्वा गृहमगात्।
(i) कः
(ii) को
(iii) किम्
(iv) केन

Answer

Answer: (ii) को


अधोलिखितं गद्याशं पठित्वा गद्यांशाधारितानां प्रश्नानाम् उत्तराणि निर्देशानुसार लिखित

(क) कश्चित् कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्। तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत् अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत। स ऋषभः हलमूदवा गन्तुमशक्तः क्षेत्रे पपात। क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्। तथापि वृषः नोत्थितः। भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्। सुरभेरिमामवस्थां दृष्ट्वा सुराधिपः तामपृच्छत्-“अयि शुभे! किमेवं रोदिषि? उच्यताम्” इति। सा च

Question 1.
कृषकः काभ्याम् क्षेत्रकर्षणं कुर्वन्नासीत्?

Answer

Answer: बलीवाभ्याम्


Question 2.
एकः बलीवर्दः कीदृशः आसीत्?

Answer

Answer: दुर्बलः


Question 3.
कः गन्तुम् अशक्तः आसीत्?

Answer

Answer: एकः (वृषभः)


Question 4.
सर्वधेनूनां माता सुरभिः किमर्थम् रुदन्ती आसीत्?

Answer

Answer: सर्वधेनूनां माता भूमौ पतिते स्वपुत्रं दृष्ट्वा रुदन्ती आसीत्।


Question 5.
कश्चित् कृषकः किं कुर्वन् आसीत्?

Answer

Answer: कश्चित् कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्।


Question 6.
‘पपात’ इति क्रियापदस्य कर्ता कः?

Answer

Answer: सः


Question 7.
‘क्रुद्धः कृषीवलः’ अत्र विशेषणपदं किम् प्रयुक्तम्?

Answer

Answer: क्रुद्धः


Question 8.
‘ताम् पृच्छत्’ अत्र ‘ताम्’ पदं कस्यै प्रयुक्तम्?

Answer

Answer: सुरभये


Question 9.
‘सबलः’ इति पदस्य विपर्ययपदं किम्?

Answer

Answer: दुर्बलः


(ख) “भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छेण भारमुद्वहति। इतरमिव। इतरमिव धुरं वोढुं सः न शक्नोति। एतत् भवान् पश्यति न?” इति प्रत्यवोचत्। “भद्रे! नूनम्। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्?” इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्

Question 1.
सा पुत्रस्य किं दृष्ट्वा रोदिति?

Answer

Answer: दैन्यम्


Question 2.
अत्र सम्बोधनपदं किं प्रयुक्तम्?

Answer

Answer: भो वासव!


Question 3.
कः वृषभं बहुधा पीडयति?

Answer

Answer: कृषक:


Question 4.
सुरभिः इन्द्राय किम् अवदत्?

Answer

Answer: सुरभिः इन्द्राय अवदत्-” भो वासव! अहं पुत्रस्य दैन्यं दृष्ट्वा रोदिमि। सः दीन इति जाननपि कृषक: तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्वहति। इतरमिव धुरं बोढुं सः न शक्नोति। एतत् भवान् पश्यति न?”


Question 5.
सः (कृषक:) तं कथं बहुधा पीटर नि

Answer

Answer: सः वृषभः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति।


Question 6.
‘कृषकः’ इति कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: पीडयति


Question 7.
‘रोदिमि’ इति क्रियापदस्य कर्ता कः?

Answer

Answer: अहम्


Question 8.
‘काठिन्येन’ इति पदस्य पर्यायपदं किं प्रयुक्तम्?

Answer

Answer: कृच्छ्रेण


Question 9.
‘प्रसीदामि’ इति पदस्य विपर्ययपदं किं प्रयुक्तम्?

Answer

Answer: रोदिमि


(ग)“बहुन्यपत्यानि मे सन्तीति सत्यम्। तथाप्यहमेतस्मिन् पुत्रे विशिष्य आत्मवेदनामनुभवामि। यतो हि अयमन्येभ्यो दुर्बलः। सर्वेष्वपत्येषु जननी तुल्यवत्सला एव। तथापि दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव” इति। सुरभिवचनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत्। स च तामेवमसान्त्वयत्-“ गच्छ वत्से! सर्वं भद्रं जायेत।” अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत। पश्यतः एव सर्वत्र जलोपप्लवः सञ्जातः। कृषक: हर्षतिरिकेण कर्षणाविमुखः सन् वृषभौ नीत्वा गृहमगात्।

Question 1.
सर्वेष्वपत्येषु जननी कीदृशी भवति?

Answer

Answer: तुल्यवत्सला


Question 2.
कुत्र जलोपप्लवः सञ्जातः?

Answer

Answer: सर्वत्र


Question 3.
कीदृशे सुते मातुः अभ्यधिका कृपा सहजा एव?

Answer

Answer: दुर्बले


Question 4.
कस्य वचनं श्रुत्वा भृश विस्मितस्याखण्डलस्यापि हृदयमद्रवत्?

Answer

Answer: सुरभिवचनं (सुरभेः वचनं) श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत्।


Question 5.
सः (आखण्डलः) ताम् कथम् असान्त्वयत्?

Answer

Answer: स च तामेवमसान्त्वयत्-“गच्छ वत्से! सर्वं भद्रं जायेत।”


Question 6
‘अनुभवामि’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: अहम्


Question 7.
‘जनकः’ इति पदस्य विपर्ययपदं किम्?

Answer

Answer: जननी


Question 8.
‘शीघ्रम्’ इति पदस्य पर्यायपदं किम् प्रयुक्तम्?

Answer

Answer: अचिरात्


Question 9.
‘एतस्मिन् पुत्रे’ अत्र विशेषणपदं किम् अस्ति?

Answer

Answer: एतस्मिन्


अधोलिखित श्लोकं पठित्वा श्लोकाधारितानां प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत

(क) विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः!।
अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक!॥

Question 1.
त्रिदशाधिपः कः अस्ति?

Answer

Answer: इन्द्रः


Question 2.
कश्चित् कः न दृश्यते?

Answer

Answer: विनिपातः (सहायक:)


Question 3.
सुरभिः कं शोचति?

Answer

Answer: पुत्रम्


Question 4.
सुरभिः पुत्रस्य चिन्तां कृत्वा किमर्थम् रोदिति?

Answer

Answer: सुरभिः चिन्तयति यत् कश्चित् न वः विनिपातः दृश्यते अतः सः पुत्रस्य चिन्तां कृत्वा रोदिति।


Question 5.
सुरभिः कं सम्बोधयति?

Answer

Answer: सुरभिः इन्द्रं कौशिकं सम्बोधयति।


Question 6.
‘सहायकः’ इत्यर्थे किं पदं प्रयुक्तम्?

Answer

Answer: विनिपातः


Question 7.
‘त्रिदशाधिपः’ पदं कस्य पदस्य विशेषणं अस्ति?

Answer

Answer: इन्द्रस्य


Question 8.
‘रोदिमि’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: अहम्


Question 9.
‘कौशिक’ पदं कस्मै प्रयुक्तम्?

Answer

Answer: इन्द्राय


(ख) यदि पुत्रसहनं मे, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा॥

Question 1.
सुरभेः कति पुत्राः सन्ति?

Answer

Answer: सहस्रम्


Question 2.
पुत्राः सर्वत्र कीदृशाः सन्ति?

Answer

Answer: समम्


Question 3.
के सर्वत्र समम् एव सन्ति?

Answer

Answer: पुत्रसहस्रम्


Question 4.
सुरभिः इन्द्रम् प्रति किं कथयति?

Answer

Answer: सुरभिः इन्द्रम् प्रति कथयति-हे शक्र! यदि मे पुत्रसहस्रं मे सर्वत्र सममेव तु तथापि दीनस्य पुत्रस्य सतः अभ्यधिका कृपा (अस्ति)।


Question 5.
कीदृशे पुत्रे मातुः अभ्यधिका कृपा भवति?

Answer

Answer: दीने सति पुत्रे मातुः अभ्यधिका कृपा भवति।


Question 6.
‘शक्र’ इति पदं कस्मै प्रयुक्तम्?

Answer

Answer: इन्द्राय


Question 7.
श्लोके ‘मे’ पदं कस्मै आगतम्?

Answer

Answer: सुरभये


Question 8.
‘दीनस्य पुत्रस्य’ अनयोः पदयोः विशेषणपदं किम्?

Answer

Answer: दीनस्य


Question 9.
श्लोके ‘एकस्मिन् स्थाने’ इति पदस्य विलोमपदं किं प्रयुक्तम्?

Answer

Answer: सर्वत्र


(ग) अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपाहद्रया भवेत्॥

Question 1.
जननी कीदृशी भवति?

Answer

Answer: वत्सला


Question 2.
सर्वेषु अपत्येषु जननी कीदृशी भवति?

Answer

Answer: तुल्यवत्सला


Question 3.
तुल्यवत्सला का भवति?

Answer

Answer: जननी


Question 4.
जननी कीदृशम् पुत्रम् प्रति आर्द्रहृदया भवेत्?

Answer

Answer: पुत्रे दीने तु सा माता कृपाहृदया भवेत्?


Question 5.
कीदृशे पुत्रे माता कृपार्द्रहृद्रया भवति?

Answer

Answer: दीने पुत्रे माता कृपार्द्रहृदया भवति।


Question 6.
श्लोके ‘उदारहृदया’ इति अर्थे किं पदं प्रयुक्तम्?

Answer

Answer: (क) आर्द्रहृदया


Question 7.
अत्र ‘दीने’ इति विशेषणपदस्य विशेष्यपदं किम् प्रयुक्तम्?

Answer

Answer: (ख) पुत्रे


Question 8.
श्लोके ‘भवेत्’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: (ख) माता


Question 9.
अत्र श्लोके ‘जनकः’ इति पदस्य विपर्ययपदं किं प्रयुक्तम्?

Answer

Answer: (ख) जननी


रेखांकितपदानां आधृत्य प्रश्ननिर्माणं कुरुत

(क) कृषक: बलीवाभ्याम् क्षेत्रकर्षणं कुर्वन्नासीत।
(ख) तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः आसीत्।
(ग) सः ऋषभः क्षेत्रे पपात।
(घ) भूमौ पतिते स्वपुत्रं दृष्ट्वा जननी अरोदत्।
(ङ) मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्।
(च) सुरभेः इमाम् अवस्थां दृष्टट्वा सुराधिपः अपृच्छत्।
(छ) पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।
(ज) सः बलीवर्दः धुरं वोढुं न शक्नोति।
(झ) सर्वधेनूनां माता सुरभिः आसीत्।
(ञ) सर्वेषु अपत्येषु जननी तुल्यवत्सला भवति।

Answer

Answer:
(क) कृषक: काभ्याम् क्षेत्रकर्षणं कुर्वन्नासीत?
(ख) तयोः कयोः एकः शरीरेण दुर्बलः आसीत्?
(ग) सः ऋषभः कुत्र पपात?
(घ) भूमौ पतिते कम् दृष्ट्वा जननी अरोदत्?
(ङ) मातुः कस्याः नेत्राभ्यामश्रूणि आविरासन्?
(च) सुरभेः इमाम् अवस्था दृष्टट्वा कः अपृच्छत्?
(छ) कस्य दैन्यं दृष्ट्वा अहं रोदिमि?
(ज) सः बलीवर्दः किम् वोढुं न शक्नोति?
(झ) कासाम् माता सुरभिः आसीत्?
(ञ) सर्वेषु अपत्येषु जननी कीदृशी भवति?


श्लोकानाम् अन्वयं लिखतमञ्जूषायां प्रदत्तपर्दै उचितं पदं चित्वा रिक्तस्थानानि पूरयन्तु

(क) विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिप:!।
अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक!॥

अन्वय- कौशिक! (i) …………….. वः कश्चित (ii) …………….. न टश्यते अनम् तु (iii) ……………… शोचामि तेन (iv) …………….
मञ्जूषा- रोदिमि, त्रिदशाधिपः, विनिपातः, पुत्रं

Answer

Answer:
(i) त्रिदशाधिपः
(ii) विनिपातः
(iii) पुत्रं
(iv) रोदिमि


(ख) यदि पुत्रसहनं मे, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा॥

अन्वय- शक्र! यदि में (i) ………………. में सर्वत्र (ii) …………. तु दीनस्य (iii) ……………….. सतः (iv) …………… कृपा।
मञ्जूषा- सममेव, आभ्यधिका, पुत्रसहस्रं, पुत्रस्य

Answer

Answer:
(i) पुत्रसहस्रं
(ii) सममेव
(iii) पुत्रस्य
(iv) आभ्यधिका


(ग) अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपाहृदया भवेत्॥

अन्वय- सर्वेषु (i) …………… च (ii) ………………. जननी दीने (iii) ………………. तु सा माता। (iv) ……………….. भवेत्।
मञ्जूषा- कृपाहृदया, तुल्यवत्सला, पुत्रे, अपत्येषु

Answer

Answer:
(i) अपत्येषु
(ii) तुल्यवत्सला
(iii) पुत्रे
(iv) कृपार्द्रहृदया


भावार्थचयनम् उचितं पदं चित्वा भावार्थम् सम्पूरयत

(क) विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः!।
अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक!।

भावार्थ:- अस्य भावोऽस्ति यत् हे यात्राणां (i) …………….. स्वामि इन्द्र! तस्य मम दीनस्य (ii) …………… कश्चित (iii) ………………. माम् न दृश्यते। अतः अहंतस्य (iv) ……………. चिन्तयित्वा विलयामि।
मञ्जूषा- पुत्रस्य, लोकानाम्, विषय, सहायकः

Answer

Answer:
(i) लोकानाम्
(ii) पुत्रस्य
(iii) सहायकः
(iv) विषये


(ख) यदि पुत्रसहस्रं में, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा॥

भावार्थ:- अर्थात् हे सुरधिप! यद्यपि अस्मिन् (i) ……………. मम सहस्रं पुत्राः महयं (ii) ……………. एव सन्ति, तथापि अस्य दीनस्य (iii) …………. कृते मम अधिकतरा (iv) ………………. अस्ति। मञ्जूषा- कृपा, संसारे, समानाः, पुत्रस्य

Answer

Answer:
(i) संसारे
(ii) समानाः
(iii) पुत्रस्य
(iv) कृपा


(ग) अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपाहृदया भवेत्॥

भावार्थ- अस्य भावोऽस्ति यत् माता तु स्व (i) ……………… सन्तानेषु समान प्रेमवती भवति तथापि स्व (ii) ……………… पुत्रे तु (iii) ……………… हृदयम् अतीव (iv) ………………. भवति।
मञ्जूषा- दीने, तस्याः, दयायुक्त, सर्वेषु

Answer

Answer:
(i) सर्वेषु
(ii) दीने
(iii) तस्याः
(iv) दयायुक्तं


कथाक्रमानुसारम् वाक्यानि पुनः लिखत

(अ) (क) एकः कृषकः आसीत्।
(ख) कृषकः तं दुर्बलं वृषभं तोदनेन अवर्तत।
(ग) तस्य समीपे बलीवौ आस्ताम्।
(घ) कृषीवल: क्रुद्धः अभवत्।
(ङ) सः जवेन गन्तुम् अशक्तः च आसीत्।
(च) तमुत्थापयितुम् बहुवारं यत्नमकरोत् तथापि सः नोत्थितः।
(छ) सः ऋषभः हलमूढ्वा गन्तुम् अशक्तः क्षेत्रे पपात्।
(ज) तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः आसीत्।

Answer

Answer:
(क) एकः कृषकः आसीत्।
(ख) तस्य समीपे बलीवर्दी आस्ताम्।
(ग) तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः आसीत्।
(घ) सः जवेन गन्तुम् अशक्तः च आसीत्।
(ङ) कृषकः तं दुर्बलं वृषभं तोदनेन अवर्तत।
(च) सः ऋषभः हलमूढ्वा गन्तुम् अशक्तः क्षेत्रे पपात्।
(छ) कृषीवलः क्रुद्धः अभवत्।
(ज) तमुत्थापयितुम् बहुवारं यत्नमकरोत् तथापि सः नोत्थितः।


(आ) (क) सुरभेः इमाम् अवस्थां दृष्ट्वा सुराधिपः तामपृच्छत्।
(ख) एकः दुर्बल: बलीवर्दः भूमौ अपतत्।
(ग) सा अकथयत्-पुत्रस्य दैन्यम् दृष्ट्वा रोदिमि।
(घ) तदा तत्र सुराधिपः आगच्छत्।
(ङ) कृषक: तं दुर्बलं बहुधा पीड़यति।
(च) स्वपुत्रं दृष्ट्वा सर्वधेनूनां माता सुरभिः रोदिति स्म।
(छ) सः बलीवर्दः धुरं वोढुं न शक्नोति।
(ज) आयि शुभे! किमेवं रोदिषि?

Answer

Answer:
(क) एकः दुर्बलः बलीवर्दः भूमौ अपतत्।
(ख) स्वपुत्रं दृष्ट्वा सर्वधेनूनां माता सुरभिः रोदिति स्म।
(ग) तदा तत्र सुराधिपः आगच्छत्
(घ) सुरभेः इमाम् अवस्थां दृष्ट्वा सुराधिपः तामपृच्छत्।
(ङ) आयि शुभे! किमेवं रोदिषि?
(च) सा अकथयत्-पुत्रस्य दैन्यम् दृष्ट्वा रोदिमि।
(छ) कृषक: तं दुर्बलं बहुधा पीड़यति।
(ज) स: बलीवर्दः धुरं वोढुं न शक्नोति।


(इ) (क) कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्।
(ख) सर्वेषु अपत्येषु जननी तुल्यवत्सला भवति।
(ग) सः बलीवर्दः क्षेत्रे अपतत्।
(घ) तथापि दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव।
(ङ) कृषकः वृषभौ नीत्वा गृहम् आगच्छत्।
(च) एकः शरीरेण दुर्बलः जवेन गुन्तुम् अशक्तः च आसीत्।
(छ) सर्वत्र जलोपप्लवः सञ्जातः।
(ज) एतत् दृष्ट्वा माता सुरभिः रोदितुम् आरब्धा।

Answer

Answer:
(क) कृषक: बलीवर्दाभ्यां क्षेत्रकर्ष कुर्वन्नासीत्।
(ख) एकः शरीरेण दुर्बलः जवेन गुन्तुम् अशक्तः च आसीत्।
(ग) सः बलीवर्दः क्षेत्रे अपतत्।
(घ) एतत् दृष्ट्वा माता सुरभिः रोदितुम् आरब्धा।
(ङ) सर्वेषु अपत्येषु जननी तुल्यवत्सला भवति।
(च) तथापि दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव।
(छ) सर्वत्र जलोपप्लवः सञ्जातः।
(ज) कृषक: वृषभौ नीत्वा गृहम् आगच्छत्।


उचित पर्यायवाचि शब्दा: मेलनं कुरुत

MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers 1

Answer

Answer:
MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers 2


(अ) विशेषण-विशेष्यपदानि योजयत

विशेषणपदानि – विशेष्यपदानि
(क) एकः – (i) वृषभं
(ख) दुर्बलं – (ii) पुत्रेषु
(ग) क्रुद्धः – (iii) पुत्रस्य
(घ) अधिकेषु – (iv) सुते
(ङ) दीनस्य – (v) कृषकः
(च) दुर्बले – (vi) कृषीवलः

Answer

Answer:
(क) एकः – (v) कृषकः
(ख) दुर्बलं – (i) वृषभं
(ग) क्रुद्धः – (vi) कृषीवलः
(घ) अधिकेषु – (ii) पुत्रेषु
(ङ) दीनस्य – (iii) पुत्रस्य
(च) दुर्बले – (iv) सुते


(आ) संस्कृतेन वाक्यप्रयोगं कुरुत

MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers 3

Answer

Answer:
(क) उत्कृष्टानि मन्दिराणि दर्शनीयानि सन्ति।
(ख) वैदेशिकाः पर्यटकाः अपि अत्र अगच्छन्ति।
(ग) मोहनः योग्यः वरः अस्ति।
(घ) सा तु निर्भीका महिला अस्ति।


उचितानि विपर्ययानि मेलनं कुरुत

MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers 4

Answer

Answer:
MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers 5


We hope the given NCERT MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 10 Sanskrit जननी तुल्यवत्सला MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided प्राणेभ्योऽपि प्रियः सुह्रद् Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 10 Sanskrit Chapter 11 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्नलिखित वाक्येषु रेखांकित पदानां स्थाने समुचित प्रश्नवाचक पदं चित्वा लिखत

Question 1.
‘अमृतम्-आसीत्’ इति परस्पर विरुद्ध वचने।
(i) के
(ii) को
(iii) कस्मै
(iv) कीदृशे

Answer

Answer: (iv) कीदृशे


Question 2.
राजपुरुषाः गृहजनं निक्षिप्य देशान्तरं व्रजन्ति।
(i) के
(ii) कुत्र
(iii) कम्
(iv) कस्य

Answer

Answer: (ii) कुत्र


Question 3.
भीताः गृहजनं नगरवासिनः गृहेषु वसन्ति।
(i) काः
(ii) कीदृशाः
(iii) के
(iv) कम्

Answer

Answer: (ii) कीदृशाः


Question 4.
तदा मम गृहे अमात्यराक्षसस्य गृहजनं आसीत्।
(i) कः
(ii) कम्
(iii) कस्य
(iv) के

Answer

Answer: (iii) कस्य


Question 5.
इति ननु भवता प्रष्टव्याः स्मः।
(i) केन
(ii) कः
(iii) का
(iv) कस्य

Answer

Answer: (i) केन


Question 6.
एतत् अलीकम् अस्ति।
(i) कीदृशम्
(ii) कीदृशः
(iii) कीदृशी
(iv) किम्

Answer

Answer: (i) कीदृशम्


Question 7.
श्रेष्ठिन्। ते स्वागतं अस्ति।
(i) के
(ii) कस्य
(iii) किम्
(iv) कीदृशे

Answer

Answer: (ii) कस्य


Question 8.
आर्यस्य प्रसादेन मे वाणिज्या अखण्डिता अस्ति।
(i) कस्य
(ii) कीदृशम्
(iii) कम्
(iv) किम्

Answer

Answer: (i) कस्य


Question 9.
अयम् श्रेष्ठी चन्दनदासः।
(i) कम्
(ii) किम्
(iii) कः
(iv) कीदृशः

Answer

Answer: (iii) कः


Question 10.
तव संव्यवहाराणाम् वृद्धिलाभाः प्रचीयन्ते।
(i) कासाम्
(ii) केषाम्
(iii) काः
(iv) किम्

Answer

Answer: (ii) केषाम्


Question 11.
उभौ प्रविश्य कृत्वा परिक्रामतः।।
(i) कौ
(ii) कः
(iii) कीदृशौ
(iv) के

Answer

Answer: (i) कौ


Question 12.
अत्यधिक: आदरः शड्कनीयः भवति।
(i) कीदृशाः
(ii) कीदृशम्
(iii) कीदृशौ
(iv) कीदृशनि

Answer

Answer: (i) कीदृशाः


Question 13.
शिविना विना इदं दुष्करं अस्ति।
(i) केन
(ii) कया
(iii) का
(iv) किम्

Answer

Answer: (i) केन


Question 14.
परसंवेदने अर्थलाभेषु सुलभेषु भवति।
(i) कस्मिन्
(ii) कदा
(iii) कुत्र
(iv) कीदृशे

Answer

Answer: (iv) कीदृशे


Question 15.
सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि।
(i) कुत्र
(ii) कस्मिन्
(iii) के
(iv) को

Answer

Answer: (i) कुत्र


गद्यांशान्/श्लोकं पठित्वा प्रश्नान् उत्तरत

(क) चाणक्यः – वत्स! मणिकारश्रेष्ठिनं चन्दनदासमिदानीं द्रष्टुमिच्छामि।
शिष्यः – तथेति (निष्क्रम्य चन्दनदासेन सह प्रविश्य) इतः इतः श्रेष्ठिन्! (उभौ परिक्रामतः)
शिष्यः – (उपसृत्य) उपाध्याय! अयं श्रेष्ठी चन्दनदासः।
चन्दनदासः – जयत्वार्यः
चाणक्यः – श्रेष्ठिन्! स्वागतं ते। अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभाः?
चन्दनदासः – (आत्मगतम्) अत्यादरः शङ्कनीयः। (प्रकाशम्) अथ किम्। आर्यस्य प्रसादेन अखण्डिता मे वाणिज्य।
चाणक्यः – भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
चन्दनदासः – आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति।

Question 1.
चाणक्यः कम् द्रष्टुमिच्छति?

Answer

Answer: चन्दनदासम्


Question 2.
शिष्यः केन सह प्रविशति?

Answer

Answer: चन्दनदासेन


Question 3.
्रेष्ठिनः केषां वृद्धिलाभाः प्रचीयन्ते?

Answer

Answer: संव्यवहाराणाम्


Question 4.
राजानः किमच्छन्ति?

Answer

Answer: प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।


Question 5.
चाणक्यः इदानीं कं द्रष्टुम् इच्छति?

Answer

Answer: चाणक्यः इदानीं मणिकारश्रेष्ठिनं चन्दनदासं दुष्टम् इच्छति?


Question 6.
‘आत्मगतम्’ इति पदस्य विपर्ययपदं किम् आगतम्?

Answer

Answer: प्रकाशम्


Question 7.
‘परिक्रामतः’ इति क्रियापदस्य कर्तृपदं किं प्रयुक्तम्?

Answer

Answer: उभौ


Question 8.
शङ्कनीयः’ इति विशेष्य पदस्य विशेषणपदं किम्?

Answer

Answer: अत्यादरः


Question 9.
नाट्यांशे ‘अधुना’ इति पदस्य कः पर्यायः आगतः?

Answer

Answer: इदानीम्


(ख) चाणक्यः – भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति। चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव।
चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽस्मि।
चाणक्यः – भो श्रेष्ठिन्! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः।
चन्दनदासः – आज्ञापयतु आर्यः।
चाणक्यः – राजनि अविरुद्धवृत्तिर्भव।
चन्दनदासः – आर्य! कः पुनरधन्यो राज्ञो विरुद्ध इति आर्येणावगम्यते?
चाणक्यः – भवानेव तावत् प्रथमम्।
चन्दनदासः – (कर्णी पिधाय) शान्तं पापम्, शान्तं पापम्। कीदृशस्तृणानामग्निना सह विरोधः?

Question 1.
इदम् कस्य राज्यम् अस्ति?

Answer

Answer: चन्द्रगुप्तस्य


Question 2.
नन्दस्य राज्यं केन सह प्रीतिमत्पादयति?

Answer

Answer: अर्थेण


Question 3.
राजानि कीदृशो भवेत्?

Answer

Answer: अविरुद्धवृत्ति


Question 4.
चन्दनदासः कर्णौ पिधाय किं कथयति?

Answer

Answer: चन्दनदासः कर्णो पिधाय कथयति-शान्तं पापम्. शान्तं पापम्। कीदृशस्तृणानामग्निना सह विरोधः?


Question 5.
चन्दनदासानुरेण अग्निना सह केषां विरोधः न भवेत्?

Answer

Answer: चन्दनदासानुसारेण अग्निना सह तृणानां विरोधः न भवेत्।


Question 6.
‘अवगम्यते’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: आर्येण


Question 7.
भो श्रेष्ठिन्! अत्र ‘श्रेष्ठिन्’ पदं कस्मै प्रयुक्तम्?

Answer

Answer: चन्दनदासाय


Question 8.
‘शान्तं पापम्’ अत्र विशेषणपदं किम्?

Answer

Answer: शान्तम्


Question 9.
नाट्यांशे “प्रेम” इति पदस्य कः पर्यायः लिखितः?

Answer

Answer: प्रीतिम्


(ग) चाणक्यः – अयमीदृशो विरोधः यत् त्वमद्यापि राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं स्वगृहे रक्षसि।
चन्दनदासः – आर्य। अलीकमेतत्। केनाप्यनार्येण आर्याय निवेदितम्।
चाणक्यः – भो श्रेष्ठिन्! अलमाशङ्कया। भीताः पूर्वराजपुरुषाः पौराणामिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति। ततस्तत्प्रच्छादनं दोषमुत्पादयति।
चन्दनदासः – एवं नु इदम्। तस्मिन् समये आसीदस्मद्गृहे अमात्यराक्षसस्य गृहजन इति।
चाणक्यः – पूर्वम् ‘अनृतम्’, इदानीम् “आसीत्” इति परस्परविरुद्धे वचने।
चन्दनदासः – आर्य! तस्मिन् समये आसीदस्मद्गृहे अमात्यराक्षसस्य गृहजन इति।

Question 1.
चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति?

Answer

Answer: अमात्यराक्षसस्य


Question 2.
केन आर्याय निवेदितम्?

Answer

Answer: अनार्येण


Question 3.
अमात्यराक्षसः कः आसीत्?

Answer

Answer: राजापथ्यकारी


Question 4.
कीदृशाः जनाः गृहजनं निक्षिप्य देशान्तरं व्रजन्ति?

Answer

Answer: भीताः पूर्वराजपुरुषाः पौराणामिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति।


Question 5.
के परस्परविरुद्ध वचने स्तः?

Answer

Answer: पूर्वम् ‘अनृतम् इदानीम्’ आसीत्।


Question 6.
‘नगरवासिनाम्’ इत्यर्थ किं पदं प्रयुक्तम्?

Answer

Answer: पौराणाम्


Question 7.
‘अनृतम्’ इति पदस्य पर्यायपदं किं प्रयुक्तम्?

Answer

Answer: अलीकम्


Question 8.
‘आर्याय निवेदितम्’। अत्र ‘आर्याय’ पदं कस्मै प्रयुक्तम्?

Answer

Answer: चाणक्याय


Question 9.
“केनाप्यनार्येण आर्याय निवेदितम्” अत्र क्रियापदं किम्?

Answer

Answer: निवेदितम्


(घ) चाणक्यः – अथेदानी क्व गतः?
चन्दनदासः – न जानामि।
चाणक्यः – कथं न ज्ञायते नाम? भो श्रेष्ठिन्! शिरसि भयम्, अतिदूरं तत्प्रतिकारः।
चन्दनदासः – आर्य! किं मे भयं दर्शयसि? सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि, किं पुनरसन्तम्?
चाणक्यः – चन्दनदास! एष एव ते निश्चयः? चन्दनदासः – बाढम्, एष एव मे निश्चयः।।
चाणक्यः – (स्वागतम्) साधु! चन्दनदास साधु।

Question 1.
कः भयं दर्शयति?

Answer

Answer: चाणक्यः


Question 2.
चाणक्यः कम् भयं दर्शयति?

Answer

Answer: चन्दनदासम्


Question 3.
तस्य प्रतिकारः कुत्र अस्ति?

Answer

Answer: अतिदूरम्


Question 4.
चन्दनदासः अमात्यराक्षसस्य गृहजनस्य सम्बन्धे किं कथयति?

Answer

Answer: चन्दनदासः अमात्यराक्षसस्य गृहजनस्य सम्बन्धे कथयति यत् सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न। समर्पयामि, किं पुनरसन्तम्?


Question 5.
चाणक्यः कं भयं दर्शयति?

Answer

Answer: चाणक्यः चन्दनदासं भयं दर्शयति।


Question 6.
‘दर्शयसि’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: त्वम्


Question 7.
‘एष एव ते निश्चयः’ अत्र ‘ते’ पदं कस्मै प्रयुक्तम्?

Answer

Answer: चन्दनदासाय


Question 8.
‘अतिसमीपम्’ इति पदस्य विपर्ययपदं किम्?

Answer

Answer: अतिदूरम्


Question 9.
नाट्यांशे ‘गृहे’ इति पदस्य कः पर्यायः आगतः?

Answer

Answer: गेहे


(ङ) सुलभेष्वर्थलाभेषु परसंवेदने जने।
कः इदं दुष्करं कुर्यादिदानीं शिविना विना॥

Question 1.
परसंवेदने किं भवति?

Answer

Answer: अर्थलाभः


Question 2.
अर्थलाभः कीदृशो भवति?

Answer

Answer: सुलभः


Question 3.
शिविः कीदृशं कार्यम् अकरोत्?

Answer

Answer: दुष्करम्


Question 4.
इदं दुष्करं कार्यं कः कर्तुम् शक्नोति?

Answer

Answer: शिविना विना अर्थात् चन्दनदासेन विना इदं दुष्करं कार्यं कोऽपि न कर्तुम् शक्नोति।


Question 5.
अर्थलाभः कीदृशः भवेत्?

Answer

Answer: अर्थ लाभः सुलभः भवेत्।


Question 6.
‘इदम् दुष्करम्’ अत्र विशेषणपदं किम्?

Answer

Answer: दुष्करम्


Question 7.
‘कः इदं दुष्करं कुर्यात्’। अत्र क्रियापदं किं वर्तते?

Answer

Answer: कुर्यात्


Question 8.
श्लोके ‘दुर्लभेषु’ इत्यस्य पदस्य कः विपर्ययः आगतः?

Answer

Answer: सुलभेषु


Question 9.
श्लोके ‘धनम्’ इत्यस्य पदस्य कः पर्यायः आगतः?

Answer

Answer: अर्थम्


रेखांकित पदानि आधृत्य प्रश्ननिर्माणं कुरुत

(क) आर्यस्य प्रसादेन मे वाणिज्या अखण्डिता।
(ख) प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।
(ग) तृणानाम् अग्निना सह विरोधो भवति।
(घ) प्राणेभ्योऽपि प्रियः सुहृत्।
(ङ) शिविना विना इदं दुष्करं कार्यं कः कुर्यात्।
(च) एष एव ते निश्चयः।
(छ) त्वम् मे भयं दर्शयसि।
(ज) अमात्यराक्षसस्य गृहजनं न समर्पयामि।
(झ) चन्दनदासेन सह शिष्यः प्रवेशं करोति।
(ञ) आर्यस्य प्रसादेन अखण्डिता मे वाणिज्या।
(ट) आर्यस्य जयः भवतु।
(ठ) इदानीम् चन्दनदासम् द्रष्टुम् इच्छामि।
(ड) आर्येण राज्ञो विरुद्ध इति अवगम्यते।
(ढ) भवान् एव तावत् प्रथमम् अस्ति।
(ण) अमात्यराक्षसस्य गृहजनं स्वगृहे रक्षसि।
(त) तस्मिन् समये अस्मद्गृहे अमात्यरा क्षमस्य गृहजनं आसीत्।

Answer

Answer:
(क) केन
(ख) के
(ग) केन
(घ) कीदृशः
(ङ) कीदृशम्
(च) कस्य
(छ) कस्मै
(ज) कस्य
(झ) केन
(ञ) कीदृशी
(ट) कस्य
(ठ) कदा
(ड) कस्य
(ढ) कः
(ण) कुत्र
(त) कदा


उचितैः पदैः अन्वयं सम्पूरयत

सुलभेष्वर्थलाभेषु परसंवेदने जने।
क इदं दुष्करं कुर्यादिदानीं शिविना विना॥

अन्वयः- (i) ……………… अर्थलाभेषु (ii) ………………. इदानीं शिविना (iii) …………… जने इदं (iv) ………………. कः कुर्यात्?
मञ्जूषा- सुलभेषु, दुष्कर, विना, परसंवेदने

Answer

Answer:
(i) परसंवेदने
(ii) सुलभेषु
(ii) विना
(iv) दुष्करं


मञ्जूषायां दत्तानां पदानां सहायताया निम्न श्लोकस्य भावार्थं पूरयत्

सुलभेष्वर्थलाभेषु परसंवेदने जने।
क इदं दुष्करं कुर्यादिदानीं शिविना विना॥

भावार्थ:-परकीयस्य वस्तुन: (i) ……….. कृते सति अर्थलाभे सुलभे सत्यपि स्वार्थ (ii) ……………… परेषां संरक्षणरूपं दुष्करं कर्म अस्मिन् (iii) ……….. महाराज (iv) …………. बिना कः करिष्यति?
मञ्जूषा- संसारे, परित्यज्य, शिवि, समर्पणे

Answer

Answer:
(i) समर्पणे
(ii) परित्यज्य
(iii) संसारे
(iv) शिविं


कथा क्रमानुसारम् वाक्यानि पुनः लिखत्

I. (क) शिष्यः चन्दनदासेन सह प्रविशति।
(ख) चाणक्य तस्य स्वागतं करोति।
(ग) चाणक्यः चन्दनदासम् द्रष्टुम् इच्छति।
(घ) अत्यादरः शङ्कनीयः भवति।
(ङ) प्रीताभ्यः प्रकृतिभ्यः प्रीतिप्रियम् इच्छन्ति राजानः।
(च) चन्दनदासः चाणक्यम् प्रणमति।
(छ) आर्यस्य प्रसादेन तर वाणिज्या अखण्डिता अस्ति।
(ज) चन्दनदासः अनुगृहीतः भवति।

Answer

Answer:
(क) चाणक्यः चन्दनदासम् द्रष्टुम् इच्छति।
(ख) शिष्यः चन्दनदासेन सह प्रविशति।
(ग) चन्दनदासः चाणक्यम् प्रणमति।
(घ) चाणक्य तस्य स्वागतम् करोति।
(ङ) अत्यादरः शङ्कनीयः भवति।
(च) आर्यस्य प्रसादेन तस्य वाणिज्या अखण्डिता अस्ति।
(छ) प्रीताभ्यः प्रकृतिभ्यः प्रीतिप्रियम् इच्छन्ति राजानः।
(ज) चन्दनदासः अनुगृहीतः भवति।


II. (क) चाणक्यः कथयति चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्।
(ख) अमात्य राक्षसस्य गृहजनं स्वगृहे रक्षसि।
(ग) भीताः राजपुरुषाः पौराणाम् इच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति।
(घ) कः पुनः अधन्यः राज्ञः विरुद्धः आर्येण अवगम्यते।
(ङ) कीदृशः तृणानाम् अग्निना सह विरोधः भवतु।
(च) राजनि अविरुद्धवृत्तिर्भव।
(छ) सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि।
(ज) अलीकमेतत्। अनार्येण आर्याय निवेदितवान्।

Answer

Answer:
(क) चाणक्यः कथयति चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्।
(ख) राजनि अविरुद्धवृत्तिर्भव।
(ग) कः पुनः अधन्यः राज्ञः विरुद्धः आर्येण अवगम्यते।
(घ) कीदृशः तृणानाम् अग्निना सह विरोधः भवतु।
(ङ) अमात्य राक्षसस्य गृहजनं स्वगृहे रक्षसि।
(च) अलीकमेतत्। अनार्येण आर्याय निवेदितवान्।
(छ) भीताः राजपुरुषाः पौराणाम् इच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति।
(ज) सन्तमपि गेहे अमात्यराक्षस्य गृहजनं न समर्पयामि।


III. (क) आर्यस्य प्रसादेन तस्य वणिज्या अखण्डिता अस्ति।
(ख) चाणक्य चन्दनदासम् द्रष्टुम् इच्छति।
(ग) कः पुनः अधन्यः राज्ञः विरुद्धः आर्येण अवगम्यते।
(घ) सन्तमपि गेहे अमात्य राक्षसस्य गृहजनं न समर्पयामि
(ङ) अमात्य राक्षसस्य गृहजनं स्वगृहे रक्षसि।
(च) शिष्यः चन्दनदासेन सह प्रविशति।
(छ) परसंवेदने अर्थलाभेषु सुलभेषु जने इदं दुष्करं कार्यं कृतम्।
(ज) अलीकमेतत्! अनार्येण आर्याय निवेदितम्।

Answer

Answer:
(क) चाणक्य चन्दनदासम् द्रष्टुम् इच्छति।
(ख) शिष्यः चन्दनदासेन सत प्रविशति।
(ग) आर्यस्य प्रसादेन तस्य वाणिज्या अखण्डिता अस्ति।
(घ) कः पुनः अधन्यः राजः विरुद्धः आर्येण अवगम्यते।
(ङ) अमात्य राक्षसस्य गृहजनं स्वगृहे रक्षसि।।
(च) अलीकमेतत्! अनार्येण अर्याय निवेदितम्।
(छ) सन्तमपि गेहे अमात्य राक्षसस्य गृहजनं न समर्णयामि।
(ज) परसंवेदने अर्थलाभेषु सुलभेषु जने इदं दुष्करं कार्यं कृतम्।


पर्यायपदानि मेलनम् कुरुत

MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers 1

Answer

Answer:
MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers 2


विशेषण-विशेष्यपदानि योजयत

विशेषणपदानि – विशेष्यपदानि
(क) पूर्वः – (i) दुष्करम्
(ख) इदम् – (ii) शङ्कनीयः
(ग) अत्यादरः – (iii) पापम्
(घ) शान्तं – (iv) काकः
(ङ) कृष्णः – (v) फलम्
(च) मधुरं – (vi) राजपुरुषः

Answer

Answer:
(क) पूर्वः – (vi) राजपुरुषः
(ख) इदम् – (i) दुष्करम्
(ग) अत्यादरः – (ii) शङ्कनीयः
(घ) शान्तं – (iii) पापम्
(ङ) कृष्णः – (iv) काकः
(च) मधुरं – (v) फलम्


संस्कृतेन वाक्यप्रयोगं कुरुत

MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers 3

Answer

Answer:
(क) एकस्मिन् स्थाने द्वे ना? वसतः स्म।
(ख) यत्र विविधानि पुस्तकानि पठनार्थं संगृहीतानि।
भवन्ति तत् स्थानम् पुस्तकालयः उच्यते।
(ग) सार्वजानिकेषु पुस्तकालयेषु बहुविधानि पुस्तकानि भवन्ति।
(घ) एषः विशालः सभामण्डपः अस्ति।


विपर्ययपदानि मेलनम् कुरुत

MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers 4

Answer

Answer:
MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers 5


We hope the given NCERT MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 10 Sanskrit प्राणेभ्योऽपि प्रियः सुह्रद् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.