NCERT Solutions for Class 8 Sanskrit Chapter 14 आर्यभटः

We have given detailed NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 14 आर्यभटः Questions and Answers come in handy for quickly completing your homework.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 14 आर्यभटः

Class 8 Sanskrit Chapter 8 Chapter 14 आर्यभटः Textbook Questions and Answers

1. एकपदेन उत्तरत
(एकपद में उत्तर दो)

(क) सूर्यः कस्यां दिशायाम् उदेति?
उत्तराणि:
पूर्वस्याम्।

(ख) आर्यभटस्य वेधशाला कुत्र आसीत्?
उत्तराणि:
पाटलिपुत्रे।

(ग) महान् गणितज्ञः ज्योतिर्विच्च कः अस्ति?
उत्तराणि:
आर्यभटः।

(घ) आर्यभटेन कः ग्रन्थः रचित?
उत्तराणि:
आर्यभटीयम्।

(ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?
उत्तराणि:
आर्यभटः।

2. पूर्णवाक्येन उत्तरत –
(पूर्ण वाक्य में उत्तर दो)

(क) कः सुस्थापितः सिद्धान्तः?
उत्तराणि:
सूर्योऽचलः पृथिवी च चलेति सुस्थापितः सिद्धान्तः।

(ख) चन्द्रग्रहणं कथं भवति?
उत्तराणि:
यदा पृथिव्याः छायया चन्द्रस्य प्रकाशः अवरुध्यते, तदा चन्द्रग्रहणं भवति।

(ग) सूर्यग्रहणं कथं दृश्यते?
उत्तराणि:
चन्द्रस्य छायया सूर्यग्रहणं भवति।

(घ) आर्यभटस्य विरोधः किमर्थमभवत्?
उत्तराणि:
नूतनविचाराणां स्थापनया आर्यभटस्य विरोधः अभवत्।

(ङ) प्रथमोपग्रहस्य नाम आर्यभटः इति कथं कृतम्?
उत्तराणि:
आर्यभटस्य योगदानम् अवलोक्य प्रथमोपग्रहस्य नाम आर्यभटः इति कृतम्।

3. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(रेखांकित पदों के लिए प्रश्न निर्माण कीजिए)

(क) सूर्यः पश्चिमायां दिशायाम् अस्तं गच्छति।
उत्तराणि:
सूर्यः कस्यां दिशायाम् अस्तं गच्छति?

(ख) पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।
उत्तराणि:
पृथिवी स्थिरा वर्तते इति कथं प्रचलिता रूढिः?

(ग) आर्यभटस्य योगदानं गणितज्योतिषः संबद्धः वर्तते।
उत्तराणि:
आर्यभटस्य योगदान केन संबद्धः वर्तते?

(घ) समाजे नूतनविचाराणां स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुमवन्ति।
उत्तराणि:
समाजे नूतनविचाराणां स्वीकरणे प्रायः के काठिन्यमनुमवन्ति।

(ङ) पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति।
उत्तराणि:
कयोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति?

4. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत –
(मंजूषा से पदों को लेकर रिक्तस्थानों को पूरा करो)

मञ्जूषा- [ नौकाम्, पृथिवी, तदा, चला, अस्तं]

(क) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशायां च ………… गच्छति।
उत्तराणि:
सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशायां च अस्तं गच्छति।

(ख) सूर्यः अचलः पृथिवी च ………..
उत्तराणि:
सूर्यः अचलः पृथिवी च चला।

(ग) ……….. स्वकीये अक्षे घूर्णति।
उत्तराणि:
पृथिवी स्वकीये अक्षे घूर्णति।

(घ) यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते ……….. चन्द्रग्रहणं भवति।
उत्तराणि:
यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति।

(ङ) नौकायाम् उपविष्टः मानवः ………….. स्थिरामनुभवति।
उत्तराणि:
नौकायाम् उपविष्टः मानवः नौकां स्थिरामनुभवति ।

5. सन्धिविच्छेदं कुरुत
(सन्धिविच्छेद करो)

ग्रन्थोऽयम् = ……………… + ………………..
सूर्याचलः = ……………… + ………………..
तथैव = ……………… + ………………..
कालातिगामिनी = ……………… + ………………..
प्रथमोपग्रहस्य = ……………… + ………………..
उत्तराणि:
ग्रन्थोऽयम् = ग्रन्थः + अयम्।
सूर्याचलः = सूर्य + अचलः।
तथैव = तथा + एव।
कालातिगामिनी = काल + अतिगामिनी।
प्रथमोपग्रहस्य = प्रथम + उपग्रहस्य।

6. (अ) अधोलिखितपदानां विपरीतार्थकपदानि लिखत –
(निम्नलिखित पदों के विपरीतार्थक पद लिखो)

उदयः – ………………..
अचलः – ………………..
अन्धकारः – ………………..
स्थिरः – ………………..
समादरः – ………………..
आकाशस्य – ………………..
उत्तराणि:
उदयः – अस्तः ।
अचलः – चलः।
अन्धकारः – प्रकाशः।
स्थिरः – अस्थिरः।
समादरः – अनादरः।
आकाशस्य – धरायाः ।

6. (आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत –
(निम्न पदों के समान अर्थ वाले पाठ में चुनकर लिखिए)

शब्दाः – अर्थाः
संसारे – ………………..
इदानीम् – ………………..
वसुन्धरा – ………………..
समीपम् – ………………..
गणनम् – ………………..
राक्षसौ – ………………..
उत्तराणि:
शब्दाः – अर्थाः
संसारे – लोके
इदानीम् – साम्प्रतम्
वसुन्धरा – पृथिवी
समीपम् – निकषा
गणनम् – आकलनम्
राक्षसौ – राहुकेतुनामानौ

7. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत –
(निम्नलिखित पदों के आधार पर वाक्यों की रचना करो)

साम्प्रतम् – …………………
निकषा – …………………
परितः – …………………
उपविष्टः – …………………
कर्मभूमिः – …………………
वैज्ञानिकः – …………………
उत्तराणि:
साम्प्रतम् विज्ञानस्य युगम् अस्ति।
ग्रामं निकषा तडागः अस्ति।
नगरं परितः जलं वर्तते।
वृक्षे एकः काकः उपविष्टः अस्ति।
श्रीकृष्णस्य कर्मभूमिः गोकुलम् आसीत् ।
आर्यभटः वैज्ञानिकः आसीत्।

Class 8 Sanskrit Chapter 14 आर्यभटः Additional Important Questions and Answers

अधोलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत –

476 तमे ख्रिस्ताब्दे आर्यभटः जन्म लब्धवानिति तेनैव विरचिते ‘आर्यभटीयम्’ इत्यस्मिन् ग्रन्थे उल्लिखितम्। ग्रन्थोऽयं तेन त्रयोविंशतितमे वयसि विरचितः। ऐतिहासिकस्रोतोभिः ज्ञायते यत् पाटलिपुत्रं निकषा आर्यभटस्य वेधशाला आसीत्।

I. एकपदेन उत्तरत

(i) आर्यभटः कदा जन्म लब्धवान्?
उत्तराणि:
476 तमे वर्षे ।

(ii) आर्यभटस्य वेधशाला कुत्र आसीत्?
उत्तराणि:
पाटलिपुत्रं निकषा।

II. पूर्णवाक्येन उत्तरत

(i) आर्यभटेन को ग्रन्थः लिखितः?
उत्तराणि:
आर्यभटेन ‘आर्यभटीयम्’ इति ग्रन्थो लिखितः।

III. निर्देशानुसारम् प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा लिखत –

(i) ‘विरचितः’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अयं
(ख) तेन
(ग) वयसि
(घ) ग्रन्थः
उत्तराणि:
(ख) तेन

(ii) ‘लब्धवान्’ इत्यस्मिन् पदे कः प्रत्ययः?
(क) क्त
(ख) वान्
(ग) शानच्
(घ) क्तवतु
उत्तराणि:
(घ) क्तवतु

समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत् –

सूर्यो गतिशील इति अवबोध्यम्।
भाव:-……… भ्रमति इति ज्ञेयम्।
उत्तरम्-
सूर्यः भ्रमति इति ज्ञेयम् ।

अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत

(क) पृथिव्याम् अवस्थितः मानवः पृथिवीं स्थिराम् अनुभवति।
भावार्थाः
(i) पृथिव्यां स्थितः जनः ‘पृथिवी स्थिरा अस्ति’ इति जानाति।
(ii) स्थिर पृथिव्यां मानवः तिष्ठति।
(iii) मानवः पृथिवीं स्थिरां मन्यते।
उत्तराणि:
(i) पृथिव्यां स्थितः जनः ‘पृथिवी स्थिरा अस्ति’ इति जानाति।

अधोलिखितेषु शुद्धकथनं ( ✓ ) चिह्नन अशुद्धकथनं (✗) चिह्नन अङ्कयत –

स पण्डितम्मन्यानाम् उपहासपात्रम् जातः

(i) पण्डितम्मन्याः जनाः आर्यभटस्य उपहासम् अकुर्वन् ।
(ii) सः पण्डितानाम् उपहासम् अकरोत् ।
उत्तराणि:
(i) (✓)
(ii) (✗)

अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(i) आर्यभटस्य अपि विरोधः अभवत् ।
(क) कस्याः
(ख) कस्य
(ग) केषाम्
(घ) कस्मिन्
उत्तराणि:
कस्य विरोधः अभवत्?

(ii) सूर्यः पूर्वदिशायाम् उदेति।
(क) किम्
(ख) क:
(ग) का
(घ) कम्
उत्तराणि:
कः पूर्वदिशायाम् उदेति?

(iii) सूर्योऽचलः पृथिवी च चला।
(क) कः
(ख) कौ
(ग) का
(घ) के
उत्तराणि:
का चला अस्ति?

घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि –

(i) आर्यभटस्य विरोधः अभवत् ।
उत्तराणि:
476 तमे ख्रिस्ताब्दे आर्यभटः जन्म लब्धवान्।

(ii) 476 तमे ख्रिस्ताब्दे आर्यभट: जन्म लब्धवान् ।
उत्तराणि:
तेन आर्यभटीयम् इति ग्रन्थः प्रणीतः।

(iii) तेन आर्यभटीयम् इति ग्रन्थः प्रणीतः।
उत्तराणि:
पाटलिपुत्रे आर्यभटस्य वेधशाला आसीत्।

(iv) अस्माकं प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्।
उत्तराणि:
तस्य कर्मभूमिः पाटलिपुत्रमेव आसीत्।

(v) पाटलिपुत्रे आर्यभटस्य वेधशाला आसीत्।
उत्तराणि:
गणितपद्धत्या तेन ग्रहणस्य वैज्ञानिकं कारणं उपादिशत्।

(vi) गणितपद्धत्या तेन ग्रहणस्य वैज्ञानिकं कारणं उपादिशत्।
उत्तराणि:
आर्यभटस्य विरोधः अभवत्।

(vii) तस्य कर्मभूमिः पाटलिपुत्रमेव आसीत्।
उत्तराणि:
अस्माकं प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्।

अधोलिखिते सन्दर्भे रिक्तस्थानानि मंजूषातः उचितपदैः पूरयत –

आर्यभटस्य …………… गणितज्योतिषा …….. ……. वर्तते यत्र …………… आकलनं ……………. आदधाति।
[महत्त्वम्, योगदानम्, सम्बद्धम्, संख्यानाम् ।]
उत्तराणि:
आर्यभटस्य योगदानम् गणितज्योतिषा सम्बद्धम् वर्तते यत्र संख्यानाम् आकलनं महत्त्वम् आदधाति।

अधोलिखितानां शब्दानां वाक्येषु प्रयोगं कुरुत –

उदेति, अनुभवति, निकषा।
उत्तराणि:
(i) उदेति = उदयः भवति।
सूर्यः पूर्वस्याम् उदेति।

(ii) अनुभवति = अनुभवं करोति।
सन्तुष्टः जनः सदा सुखम् अनुभवति।

(iii) निकषा = निकटे।
ग्रामं निकषा उपवनम् अस्ति।

अधोलिखितानां शब्दानां समक्षं दत्तैरथैः सह मेलनं कुरुत –

शब्दाः – अर्थाः
(i) नूतनः – प्राप्तः
(ii) निकषा – कठिनता
(iii) काठिन्यम् – अवस्था
(iv) समागतः – नवीनः
(v) वयः – समीपम्
(vi) लब्धः – आगतः।
उत्तराणि:
शब्दाः – अर्थाः
(i) नूतनः – नवीनः
(ii) निकषा – समीपम्
(iii) काठिन्यम् – कठिनता
(iv) समागतः – आगतः
(v) वयः – अवस्था
(vi) लब्धः – प्राप्तः।

1. निम्नलिखितगद्यांशद्वयं पठित्वा प्रश्नान् उत्तरत –

(क) समाजे नूतनानां विचाराणां स्वीकारे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति। भारतीयज्योति:शास्त्रे तथैव आर्यभटस्यापि विरोधः अभवत्। तस्य सिद्धान्ताः उपेक्षिताः।

(i) एकपदेन उत्तरत-

कस्य सिद्धान्ताः उपेक्षिता:?
(क) आर्यभटः
(ख) आर्यभटस्य
(ग) आर्यभटे
(घ) आर्यभटाय
उत्तराणि:
(ख) आर्यभटस्य

(ii) पूर्णवाक्येन उत्तरत-

समाजे सामान्यजनाः केषाम् स्वीकारे काठिन्यम् अनुभवन्ति?
उत्तराणि:
समाजे नूतनानां विचाराणां स्वीकारे सामान्यजनाः काठिन्यमनुभवन्ति।

(iii) ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तः?
(क) आर्यभटाय
(ख) आर्यभटः
(ग) आर्यभटेन
(घ) आर्यभटस्य
उत्तराणि:
(घ) आर्यभटस्य

(iv) ‘नवीनानां’ इत्यर्थे किं पदं प्रयुक्तं?
(क) नूतनानां
(ख) प्राचीन
(ग) नूतन
(घ) नूतनानि
उत्तराणि:
(क) नूतनानां

(ख) ग्रन्थोऽयं तेन त्रयोविंशतितमे वयसि विरचितः। ऐतिहासिकस्रोतोभिः ज्ञायते यत् पाटलिपुत्रं निकषा आर्यभटस्य वेधशाला आसीत्। अनेन इदम् अनुमीयते यत् तस्य कर्मभूमिः पाटलिपुत्रमेव आसीत्।

(i) एकपदेन उत्तरत

पाटलिपुत्रम् कस्य कर्मभूमिः आसीत्?
(क) आर्यभटस्य
(ख) आर्यभटः
(ग) आर्यभटं
(घ) आर्यभटाः
उत्तराणि:
(क) आर्यभटस्य

(ii) पूर्णवाक्येन उत्तरत

आर्यभटेन कदा ग्रन्थः रचित?
उत्तराणि:
आर्यभटेन त्रयोविंशतितमे वयसि ग्रन्थः रचितः।

(iii) ‘समीपं’ इत्यस्य पर्यायपदं गद्यांशे किं प्रयुक्तं?
(क) निकषा
(ख) यत्
(ग) वयसि
(घ) ज्ञायते
उत्तराणि:
(क) निकषा

(iv) ‘वयसि’ अस्मिन् पदे का विभक्तिः किं वचनं च?
(क) प्रथमा, एकवचन
(ख) सप्तमी, बहुवचन
(ग) सप्तमी, एकवचन
(घ) षष्ठी, एकवचन
उत्तराणि:
(ग) सप्तमी, एकवचन

2. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(i) भारतस्य प्रथमोपग्रहस्य नाम आर्यभटः अस्ति?
(क) कस्याः
(ख) कस्य
(ग) कया
(घ) केन
उत्तराणि:
(ख) कस्य

(ii) पूर्वदिशायाम् उदेति सूर्यः।
(क) कः
(ख) कस्य
(ग) कस्याम्
(घ) का
उत्तराणि:
(ग) कस्याम्

शब्द परिचयः 3 Summary Notes Class 6 Sanskrit Chapter 3

By going through these CBSE Class 6 Sanskrit Notes Chapter 3 शब्द परिचयः 3 Summary, Notes, word meanings, translation in Hindi, students can recall all the concepts quickly.

Class 6 Sanskrit Chapter 3 शब्द परिचयः 3 Summary Notes

शब्द परिचयः 3 पाठ का परिचय

इस पाठ में अकारान्त नपुंसकलिङ्ग शब्दों से परिचय कराया गया है। वस्त्र, फल, क्षेत्र, अन्न, बसयान, धन आदि नपुंसकलिङ्ग शब्द होते हैं। हम सीख चुके हैं कि संस्कृत में संज्ञा और सर्वनाम के रूप लिंग पर आधारित होते हैं। वचन के अनुसार भी उनमें रूपांतर आता है। संक्षेप में देखते हैं
शब्द परिचयः 3 Summary Notes Class 6 Sanskrit Chapter 3

शब्द परिचयः 3 Summary

प्रस्तुत पाठ में अकारान्त नपुंसकलिंग शब्दों का परिचय चित्रों के माध्यम से कराया गया है। प्रत्येक शब्द के साथ उसका वाचक चित्र दिया गया है। जो शब्द न पुंल्लिङ्ग होते हैं और न ही स्त्रीलिङ्ग, उन्हें नपुंसकलिङ्ग के अंतर्गत रखा जाता है। इस पाठ में प्रयुक्त सभी शब्द अकारान्त नपुंसकलिंग हैं। ये शब्द निम्नलिखित हैं
शब्द परिचयः 3 Summary Notes Class 6 Sanskrit Chapter 3.1

शब्द परिचयः 3 Summary Notes Class 6 Sanskrit Chapter 3.2

शब्द परिचयः 3 Summary Notes Class 6 Sanskrit Chapter 3.3

खनित्रम् = कुदाल।
भित्तिकम् = दीवार।
बसयानम् = बस।
करवस्त्रम् = रूमाल।
कदलीफलम् = केला।
विश्रामगृहम् = विश्रामालय।
अगुलीयकम् = अँगूठी।
रेलस्थानकम् = स्टेशन।
पुराणम् = पुराना।

अन्य अकारान्त नपुंसकलिंग शब्द
फलम् (फल), छत्रम् (छाता), पुष्पम् (फूल), जलम् (जल), भवनम् (भवन), पात्रम् (पात्र), गृहम् (घर), कमलम् (कमल), पत्रम् (पत्ता)।

शब्द परिचयः 3 Word Meanings Translation in Hindi

एतत किम्?
एतत् खनित्रम् अस्ति?
श्रमिका खनित्रं चालयति।

तत् किम्?
तत् विश्रामगृहम् अस्ति।
किम् अत्र भित्तिकम् अस्ति?
अत्र भित्तिकं न अस्ति।

शब्दार्थाः (Word Meanings) : एतत् (नपुं०)- यह (this/it), खनित्रम्-कुदाल, फावड़ा (spade), श्रमिका-मज़दूरनी (lady labourer), तत् (नपुं०)-वह (that), विश्रामगृहम्-विश्रामालय, आराम करने की जगह (Rest house), किम्-क्या (what), अत्र-यहाँ (here), भित्तिकम्-दीवार (wall)।

सरलार्थ : – English Translation:
यह क्या है? – What is this?
यह कुदाल/फावड़ा है। – This is a spade.
मज़दूरनी कुदाल/फावड़ा चलाती है। – The lady labourer digs with the spade.
वह क्या है। – What is that?
वह विश्रामघर है। – That is a rest house.
क्या यहाँ दीवार है? – Is there a wall here?
यहाँ दीवार नहीं है। – Here there is no wall.

ध्यातव्यम्-इन वाक्यों में एकवचन का प्रयोग आया है।

एते के?
एते अडुलीयके स्तः।
सुवर्णकारः अङ्कलीयके रचयति।

ते के?
ते बसयाने स्तः।
ते बसयाने कुत्र गच्छतः?
ते रेलस्थानकं गच्छतः।

शब्दार्थाः (Word Meanings) : एते-ये दो (these two), अडुलीयके-दो अंगूठियाँ (two rings), सुवर्णकारः-सोनार (goldsmith), रचयति-बनाता है, (makes), के-क्या (दो) (what), बसयाने-दो बसें (two buses), स्तः (द्विव०)-हैं (dual), कुत्र-कहाँ (where), गच्छतः (द्विव०) -जाते/जाती हैं, (go), रेलस्थानकं-रेलवे स्टेशन (Railway Station)

सरलार्थ : – English Translation:
ये दो क्या हैं? – What are these two?
ये दोनों अंगूठियाँ हैं? – These two are rings?
सुनार दो अंगूठियाँ बनाता है। – The goldsmith makes the two rings.
वे दोनों क्या हैं? – Those two are buses.
ये दोनों बसें हैं। – Those two are buses.
वे दोनों बसें कहाँ जा रही हैं? – Where are those two buses going?
वे दोनों रेलवे स्टेशन जा रही हैं। – Both of those are going to the Railway Station.

ध्यातव्यम्-इन वाक्यों में द्विवचन का प्रयोग आया है।

एतानि कानि?
एतानि करवस्त्राणि सन्ति।
किम् एतानि पुराणानि?
न, एतानि तु नूतनानि।

तानि कानि?
तानि कदलीफलानि सन्ति।
किं तानि मधुराणि?
आम्, तानि मधुराणि पोषकाणि च।

शब्दार्थाः (Word Meanings) : एतानि (नपुं, बहु०)-ये सब (these), कानि-क्या (what (plu.)), करवस्त्राणि-रूमाल (handkerchieves), सन्ति-हैं (are), पुराणानि-पुराने (old), नूतनानि-नए (new), तानि-वे (those), कदलीफलानि-केले (bananas), मधुराणि-मीठे (sweet), पोषकाणि-पोषक/पौष्टिक (nutritious)।

सरलार्थ : English Translation:
ये सब क्या हैं? – What are all these?
ये सब रूमाल हैं। – All these are handkerchieves.
क्या ये सब पुराने हैं? – Are these old?
नहीं, ये सब नए हैं। – No, these are new
वे सब क्या हैं? – What are those?
वे केले हैं। – Those are bananas
क्या वे मीठे हैं? – Are those sweet?
हाँ, वे मीठे और पौष्टिक हैं। – Yes, they are sweet and nutritious.

ध्यातव्यम्-इन वाक्यों में बहुवचन का प्रयोग आया है।

Class 8 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि

We have given detailed NCERT Solutions for Class 8 Sanskrit Grammar Book संख्यावाचक-विशेषणपदानि Questions and Answers come in handy for quickly completing your homework.

Sanskrit Vyakaran Class 8 Solutions संख्यावाचक-विशेषणपदानि

(क) एक से दस तक सभी विभक्तियों के रूप
पुँल्लिङ्ग, स्त्रीलिङ्ग तथा नपुंसकलिङ्ग में एक से चार तक पृथक्-पृथक् रूप होते हैं। यथा एक के रूप एकवचन में, द्वि के द्विवचन में तथा त्रि, चतुर आदि के रूप बहुवचन में होते हैं।
Class 8 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि 1
Class 8 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि 2

(ख) ग्यारह से बीस तक संख्यावाचक शब्द
Class 8 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि 3
Class 8 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि 4
एकादश से नवदश तक पुँ., स्त्री०, नपुं० के रूपों में भेद नहीं है। एकोनविंशतिः, विंशतिः रूप मात्र स्त्रीलिङ्ग एकवचन में होते हैं चाहे विशेष्य पद किसी भी लिङ्ग में क्यों न हो। विंशति के रूप मति के समान होंगे।

(ग) सप्तम कक्षा के पाठ्यक्रमानुसार 21 से 50 तक संख्यावाचक विशेषण पद
Class 8 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि 5
नीचे प्रथम के पुंल्लिङ्ग, स्त्रीलिङ्ग तथा नपुंसकलिङ्ग में रूप दिए जा रहे हैं, तदनुसार द्वितीय से दशम तक के रूप छात्र स्वयं बनाकर अभ्यास करें।
Class 8 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि 6

प्रयोगः

  1. मैं तीसरी कक्षा का छात्र हूँ। अहं तृतीयायाः कक्षायाः छात्रः अस्मि।
  2. तुम दूसरे स्थान पर बैठो। त्वं द्वितीये स्थाने उपविश।
  3. हम पहले घर में रहेंगे। वयं प्रथमे गृहे स्थास्यामः।
  4. चन्द्रोदय चौथी तिथि का है। चन्द्रोदयः चतुर्थ्याः तिथ्याः अस्ति।
  5. शिक्षक दसवीं कक्षा से बाहर आया। शिक्षकः दशम्याः कक्षायाः बहिर् आगतः।
  6. नौवीं बेल पर फूल है। नवम्यां लतायां पुष्पम् अस्ति।
  7. वह पाँचवें पृष्ठ पर लिखता है। सः पञ्चमे पृष्ठे लिखति।
  8. छठे घर में राहु है। षष्ठे गृहे राहुः अस्ति।
  9. सातवाँ फल मीठा है। सप्तमम् फलं मधुरम् अस्ति।
  10. आठवाँ पुत्र योग्य होगा। अष्टमः पुत्रः योग्यः भविष्यति।

बहुविकल्पीय प्रश्नाः

रेखाङ्कितपदे रिक्तस्थाने किं पदं भविष्यति?

प्रश्न 1.
वेदाः ___________ सन्ति
(क) चत्वारि
(ख) चत्वारः
(ग) चतुर्
(घ) चतस्त्रः
उत्तराणि:
(ख) चत्वारः

प्रश्न 2.
___________ महिलाः राजमार्गे भ्रमन्ति।
(क) त्रयः
(ख) त्रीणि
(ग) तिस्रः
(घ) त्रि
उत्तराणि:
(ग) तिस्रः

प्रश्न 3.
उचितविभक्तिं प्रयुज्य वाक्यपूर्तिः क्रियताम्-
मासे ___________ (द्वे / द्वौ / द्वयः) पक्षे स्तः।
उत्तराणि:
द्वे

प्रश्न 4.
शिवस्य ___________ आननानि सन्ति।
(क) पञ्चानि
(ख) पञ्चाः
(ग) पञ्च
(घ) पञ्चः
उत्तराणि:
(ग) पञ्च

प्रश्न 5.
अधोलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
___________ उद्याने सुन्दराणि पुष्पाणि विकसन्ति।
(क) एकस्मिन्
(ख) एकस्याम्
(ग) एके
(घ) एका
उत्तराणि:
(क) एकस्मिन्

प्रश्न 6.
___________ वाटिकायाम् जनाः व्यायाम कुर्वन्ति।
(क) एकस्मिन्
(ख) एकस्याम्
(ग) एका
(घ) एकः
उत्तराणि:
(ख) एकस्याम्

प्रश्न 7.
रेखाङ्किते पदे का विभक्तिः प्रयुक्ता?
त्रिभिः मेट्रोयानैः जनाः भ्रमणाय गच्छन्ति।
(क) प्रथमा विभक्तिः
(ख) द्वितीया विभक्तिः
(ग) तृतीया विभक्तिः
(घ) चतुर्थी विभक्तिः
उत्तराणि:
(ग) तृतीया

प्रश्न 8.
एकस्मिन् वने एकः सिंहः अवसत्। रेखांकितपदे का विभक्तिः?
(क) प्रथमा विभक्तिः
(ख) द्वितीया विभक्तिः
(ग) तृतीया विभक्तिः
(घ) सप्तमी विभक्तिः
उत्तराणि:
(घ) सप्तमी

प्रश्न 9.
उचितरूपेण रिक्तपूर्तिः क्रियताम्-
कालिदासस्य ___________ नाटकानाम् मञ्चनं अद्य भविष्यति।
(क) त्रयाणाम्
(ख) त्रयः
(ग) तिस्रः
(घ) त्रीणि
उत्तराणि:
(क) त्रयाणाम्

प्रश्न 10.
सप्ताहे ___________ दिनानि भवन्ति।
(क) सप्त
(ख) सप्ताः
(ग) सप्तानि
(घ) सप्तानी
उत्तराणि:
(क) सप्त

प्रश्न 11.
क्रीडाक्षेत्रे ___________ बालौ कन्दुकेन क्रीडतः।
(क) द्वयः
(ख) द्वो
(ग) द्वौ
(घ) द्वे
उत्तराणि:
(ग) द्वौ

NCERT Solutions for Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः

We have given detailed NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः Questions and Answers come in handy for quickly completing your homework.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः

Class 8 Sanskrit Chapter 8 Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः Textbook Questions and Answers

1. प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(निम्नलिखित प्रश्नों के उत्तर एकपद में लिखो)

(क) इयं धरा कैः स्वर्णवद् भाति?
उत्तराणि:
शस्यैः

(ख) भारतस्वर्णभूमिः कुत्र राजते?
उत्तराणि:
क्षितौ

(ग) इयं केषां महाशक्तिभिः पूरिता?
उत्तराणि:
अणूनाम्

(घ) इयं भूः कस्मिन् युतानाम् अस्ति?
उत्तराणि:
प्रबन्धे

(ङ) अत्र किं सदैव सुपूर्णमस्ति?
उत्तराणि:
खाद्यान्नभाण्डम्।

2. समानार्थकपदानि पाठात् चित्वा लिखत –
(समान अर्थ वाले पदों को पाठ से चुनकर लिखिए)

(क) पृथिव्याम् ………. (क्षितौ/पर्वतेषु त्रिलोक्याम्)
उत्तराणि:
पृथिव्याम् क्षितौ।

(ख) सुशोभते ……. (लिखते/भाति/पिबति)
उत्तराणि:
सुशोभते भाति।

(ग) बुद्धिमताम् ……. (पर्वणाम्/उत्सवानाम्/विपश्चिज्जनानाम्)
उत्तराणि:
बुद्धिमताम् विपश्चिज्जनानाम्।

(घ) मयूराणाम् …………… (शिखीनाम्/शुकानाम्/पिकानाम्)
उत्तराणि:
मयूराणाम् शिखीनाम्।

(ङ) अनेकेषाम् ……………. (जनानाम्/वैज्ञानिकानाम्/बहूनाम्)
उत्तराणि:
अनेकेषाम् बहूनाम्।

3. श्लोकांशमेलनं कृत्वा लिखत –
(श्लोक का मेल कीजिए)

(क) त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैः – नदीनां जलं यत्र पीयूषतुल्यम्
(ख) सदा पर्वणामुत्सवानां धरेयम् – जगद्वन्दनीया च भू:देवगेया
(ग) वने दिग्गजानां तथा केशरीणाम् – क्षितौ राजते भारतस्वर्णभूमिः
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् – अणूनां महाशक्तिभिः पूरितेयम्
(ङ) इयं वीरभोग्या तथा कर्मसेव्या – तटीनामियं वर्तते भूधराणाम्
उत्तराणि:
(क) त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैः – अणूनां महाशक्तिभिः पूरितेयम्
(ख) सदा पर्वणामुत्सवानां – धरेयम् क्षितौ राजते भारतस्वर्णभूमिः
(ग) वने दिग्गजानां तथा केशरीणाम् – तटीनामियं वर्तते भूधराणाम्
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् – नदीनां जलं यत्र पीयूषतुल्यम्
(ङ) इयं वीरभोग्या तथा कर्मसेव्या – जगद्वन्दनीया च भू:देवगेया

4. चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत
(चित्र को देखकर सही पदों से वाक्य पूरे कीजिए)

NCERT Solutions for Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः 1

(क) अस्मिन् चित्रे एका ………………….. वहति।
उत्तराणि:
अस्मिन् चित्रे एका नदी वहति।

(ख) नदी …………………. नि:सरति।
उत्तराणि:
नदी पर्वतात् नि:सरति।

(ग) नद्याः जलं …………………. भवति।
उत्तराणि:
नद्याः जलं शीतलं भवति।

(घ) …………. शस्यसेचनं भवति।
उत्तराणि:
नदीजलेन शस्यसेचनं भवति।

(ङ) भारतः ……. भूमिः अस्ति।
उत्तराणि:
भारतः कृषकाणां भूमिः अस्ति।

5. चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत –
(चित्र को देखकर मञ्जूषा से शब्द चुनकर वाक्य पूरे कीजिए)।

NCERT Solutions for Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः 2

अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः, प्रयोगः, उपग्रहाणां

(क) अस्मिन् चित्रे ……………… दृश्यन्ते।
उत्तराणि:
अस्मिन् चित्रे अस्त्राणि दृश्यन्ते।

(ख) एतेषाम् अस्त्राणां …………………. युद्धे भवति।
उत्तराणि:
एतेषाम् अस्त्राणां प्रयोगः युद्धे भवति।

(ग) भारतः एतादृशानां …………….. प्रयोगेण विकसितदेशः मन्यते।
उत्तराणि:
भारतः एतादृशानां अस्त्राणाम् प्रयोगेण विकसितदेशः मन्यते।

(घ) अत्र परमाणुशक्तिप्रयोगः अपि ……..
उत्तराणि:
अत्र परमाणुशक्तिप्रयोगः अपि भवति

(ङ) आधुनिकैः अस्त्रैः ……….. अस्मान् शत्रुभ्यः रक्षन्ति।
उत्तराणि:
आधुनिकैः अस्त्रैः सैनिकाः अस्मान् शत्रुभ्यः रक्षन्ति।

(च) ……………… सहायतया बहूनि कार्याणि भवन्ति।
उत्तराणि:
उपग्रहाणां सहायतया बहूनि कार्याणि भवन्ति।

6. (अ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत –
(चित्र देखकर संस्कृत भाषा में पाँच वाक्य लिखिए)

NCERT Solutions for Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः 3

(क) …………………………………
(ख) …………………………………
(ग) …………………………………
(घ) …………………………………
(ङ) …………………………………
उत्तराणि:
(क) एतद् दीपावलिनः पर्व अस्ति।
(ख) माता दीपान् प्रज्वालयति।
(ग) मम भगिनी तस्याः सहायतां करोति।
(घ) अहं नूतनपरिधानं धारयामि।
(ङ) एतत् उल्लासस्य पर्व अस्ति।

6. (आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत
(चित्र देखकर संस्कृत भाषा में पाँच वाक्य लिखिए)

NCERT Solutions for Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः 4

(क) …………………………………
(ख) …………………………………
(ग) …………………………………
(घ) …………………………………
(ङ) …………………………………
उत्तराणि:
(क) एतत् रक्षाबन्धनम् अस्ति।
(ख) भगिनी भ्रातुः हस्ते सूत्रं बध्नाति।
(ग) एतत् स्नेहस्य पर्व अस्ति।
(घ) भ्राता भगिन्यै रूप्यकाणि यच्छति।
(ङ) एतत् उल्लासस्य पर्व अस्ति।

7. अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत –
(यहाँ दिए चित्र को देखकर संस्कृत भाषा में पाँच वाक्यों में प्रकृति वर्णन कीजिए)

NCERT Solutions for Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः 5

(क) …………………………………
(ख) …………………………………
(ग) …………………………………
(घ) …………………………………
(ङ) …………………………………
उत्तराणि:
(क) इदं प्रकत्याः दृश्यम् अस्ति।
(ख) एतत् मनोहारि अस्ति।
(ग) प्रकृतिः अस्माकं माता अस्ति।
(घ) वृक्षाणां छटा विलक्षणा अस्ति।
(ङ) मृगाः अत्र तिष्ठन्ति।

Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः Additional Important Questions and Answers

अधोलिखितं श्लोकांशं पठित्वा प्रश्नान् उत्तरत –

(क) इयं स्वर्णवद् भाति शस्यैर्धरेयं।
क्षितौ राजते भारतस्वर्णभूमिः॥

I. एकपदेन उत्तरत

(i) स्वर्णवद् का भाति?
उत्तराणि:
धरा

(ii) भारतस्वर्ण भूमिः कुत्र राजते?
उत्तराणि:
क्षितौ

II. पूर्णवाक्येन उत्तरत

(i) धरा कथं भाति?
उत्तराणि:
धरा शस्यैः भाति स्वर्णवद्।

III. यथानिर्देशम् उत्तरत

(i) ‘क्षितौ राजते ……………… इत्यत्र क्रियापदं किम्?
उत्तराणि:
राजते

(ii) ‘भाति धरेयम्’ इत्यत्र कर्तृपदं किम्?
उत्तराणि:
धरा

(iii) ‘क्षितौ’ इत्यत्र का विभक्तिः ?
उत्तराणि:
सप्तमी

(iv) ‘भाति’ इत्यत्र कः लकार:?
उत्तराणि:
लट

(क) शिखीनां शुकानां पिकानां धरेयम्।

भावः-इयं …………. मयूराणां …………. पिकानाम् अस्ति।
उत्तराणि:
इयं धरा मयूराणां शुकानां पिकानाम् अस्ति।

अधोलिखितेषु शुद्धकथनं (✓) चिह्नन अशुद्धकथनं (✗) चिह्नन अङ्कयत

(क) सदा राष्ट्ररक्षारतां धरेयम्।
भावः-(क) इयं भूमिः राष्ट्रस्य रक्षां करोति।
(ख) इयं भूमिः राष्ट्ररक्षायां संलग्नानाम् अस्ति।
उत्तराणि:
(क) (✗)
(ख) (✓)

अधोलिखितस्य अन्वयं कुरुत –

बहूनां मतानां जनानां धरेयम्।
क्षितौ राजते भारतस्वर्णभूमिः।।
उत्तराणि:
अन्वयः- इयं बहूनां मतानां जनानां धरा अस्ति।
क्षितौ भारतस्वर्णभूमिः राजते।

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(i) इय ज्ञानिनां धराऽस्ति।
(क) कस्य
(ख) केषाम्
(ग) कस्याः
(घ) के
उत्तराणि:
(ख) केषाम्

(ii) क्षितौ राजते भारतस्वर्णभूमिः।
(क) कः
(ख) के
(ग) कस्य
(घ) कुत्र
उत्तराणि:
(घ) कुत्र

(iii) शिखीनां शुकानां पिकानां धरेयम्।
(क) कस्य
(ख) केषाम्
(ग) के
(घ) कानि
उत्तराणि:
(ख) केषाम्

शब्दानां वाक्येषु प्रयोगं कुरुत –

शुकाः, धरा, जनाः, पर्व
उत्तराणि:
(क) शुकाः – वृक्षे शुकाः तिष्ठन्ति।
(ख) धरा – भारतं मुनीनां धरा अस्ति।
(ग) जनाः – भारतवर्षे विविधाः जनाः वसन्ति।
(घ) पर्व – दीपावलि भारतीयानां पर्व अस्ति।

अधोलिखितानाम् अर्थमेलनं कुरुत-

(क) – (ख)
(i) क्षितिः – अनेके
(ii) शिखी – देवता
(iii) भाति – विद्वान्
(iv) विपश्चित् – मयूरः
(v) देवः – धरा
(vi) बहवः – शोभते
उत्तराणि:
(क) – (ख)
(i) क्षितिः – धरा
(ii) शिखी – मयूरः
(iii) भाति – शोभते
(iv) विपश्चित् – विद्वान्
(v) देवः – देवता
(vi) बहवः – अनेके

उचित विकल्पं चित्वा उत्तराणि लिखत –

सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम्।

(i) ‘सुपूर्ण’ किम् अस्ति?
(क) खाद्यान्नभाण्डम्
(ख) धरा
(ग) क्षितिः
(घ) सदा
उत्तराणि:
(क) खाद्यान्नभाण्डम्

(ii) ‘सदैव’ इत्यत्र कः सन्धिः ?
(क) दीर्घ
ख) गुण
(ग) यण
(घ) वृद्धि
उत्तराणि:
(घ) वृद्धि

(iii) ‘सुपूर्णम्’ इत्यत्र कः समासः?
(क) कर्मधारय
(ख) द्विगु
(ग) द्वन्द्व
(घ) तत्पुरुष
उत्तराणि:
(क) कर्मधारय

(iv) ‘अस्ति’ इत्यत्र कः लकार:?
(क) लोट
(ख) लट्
(ग) लङ्
(घ) लिङ्
उत्तराणि:
(ख) लट्

शब्द परिचयः 2 Summary Notes Class 6 Sanskrit Chapter 2

By going through these CBSE Class 6 Sanskrit Notes Chapter 2 शब्द परिचयः 2 Summary, Notes, word meanings, translation in Hindi, students can recall all the concepts quickly.

Class 6 Sanskrit Chapter 2 शब्द परिचयः 2 Summary Notes

शब्द परिचयः 2 पाठ का परिचय

इस पाठ में आकारान्त स्त्रीलिङ्ग शब्दों से परिचय कराया गया है। आकारान्त शब्द वे होते हैं जिनके अंत में ‘आ’ आता है। यथा-‘लता’, ‘अध्यापिका’, ‘वाटिका’ आदि। आकारान्त स्त्रीलिङ्ग शब्दों के साथ प्रयोग में आने वाले सर्वनाम यथा- सा, एषा, का भी पाठ में आए हैं। इस पाठ में संज्ञा, सर्वनाम तथा क्रियापद तीनों का प्रयोग तीनों वचनों में आया है।

शब्द परिचयः 2 Summary

प्रस्तुत पाठ में आकारान्त स्त्रीलिङ्ग शब्दों का परिचय चित्रों के माध्यम से कराया गया है। प्रत्येक शब्द के साथ उसका वाचक चित्र दिया गया है। इस पाठ में प्रयुक्त सभी शब्द आकारान्त शब्द हैं। जिन शब्दों के अंत में ‘आ’ वर्ण आता है, उन्हें ‘आकारान्त’ शब्द कहते हैं। ‘स्त्रीलिङ्ग’ का अर्थ है-स्त्री जाति के लिए प्रयुक्त होने वाले शब्द। जैसे-रमा, उमा, चटका, कोकिला आदि।।
शब्द परिचयः 2 Summary Notes Class 6 Sanskrit Chapter 2.1
शब्द परिचयः 2 Summary Notes Class 6 Sanskrit Chapter 2.2
शब्द परिचयः 2 Summary Notes Class 6 Sanskrit Chapter 2.3

पाठ में प्रयुक्त शब्द निम्नलिखित हैं

  • दोला = झूला।
  • कोकिला = कोयल।
  • चालिका = ड्राईवर।
  • अजा = बकरी।
  • घटिका = घड़ी।
  • चटका = गौरैया।
  • स्थालिका = थाली।

अन्य आकारांत स्त्रीलिंग शब्द

  • नौका (नाव)
  • पाकशाला (रसोई)
  • मक्षिका (मक्खी)
  • माला (माला)
  • तुला (तराजू)
  • वीणा (सितार)
  • खट्वा (खाट)
  • जवनिका (पर्दा)
  • लता (बेल)।

शब्द परिचयः 2 Word Meanings Translation in Hindi

एषा का?
एषा दोला।
दोला कुत्र अस्ति?
दोला उपवने अस्ति।

सा का?
सा घटिका।
घटिका किं सूचयति?
घटिका समयं सूचयति।

शब्दार्थाः (Word Meanings) : एषा (स्त्री०)-यह (this), का (स्त्री०)-कौन/क्या (what/ who), दोला-झूला (swing), कुत्र-कहाँ (where), अस्ति-है (is), उपवने-बाग़ में (in the garden), सा (स्त्री०)-वह (that), घटिका-घड़ी (clock), सूचयति-सूचित करती है (दिखा रही. है) (informs/shows), समयम्-समय को (time).

सरलार्थ : – English Translation:
यह क्या है? यह झूला है। – What is this? This is a swing.
झूला कहाँ है? – Where is the swing?
झूला बाग़ में है। – The swing is in the garden.
वह क्या है? – What is that?
वह घड़ी है। – That is a clock.
घड़ी क्या दिखाती है? – What does the clock show?
घड़ी समय दिखाती है। – The clock shows time.

ध्यातव्यम्-इन वाक्यों में एकवचन का प्रयोग आया है।

एते के?
किम् एते कोकिले?
न, एते चटके।
चटके किं कुरुतः?
एते विहरतः।

ते के?
ते चालिके स्तः।
ते किं कुरुतः?
ते वाहनं चालयतः।

शब्दार्थाः (Word Meanings) : एते (स्त्री०)-ये दोनों (these two), कोकिले (स्त्री०)-दो कोयलें (two cuckoos) (dual), चटके-दो चिड़ियाँ/गौरैया (two sparrows), कुरुतः करते/करती हैं (द्वि०व०) do (dual), विहरत:-विहार करते हैं/विहार करती हैं (roam around), चालिके-दो महिला चालक (two female drivers), वाहनम्-गाड़ी को (vehicle), के (स्त्री०)-कौन दो (स्त्री०) who two, ते (स्त्री०)-वे दोनों (those two), चालयतः (स्त्री०)-चलाती हैं/चला रही हैं (drive).

सरलार्थ : – English Translation:
ये दोनों कौन है? – Who are these two?
क्या ये दोनों कोयल हैं? – Are these two cuckoos?
नहीं, ये दोनों गोरैया हैं? – No, these two are sparrows.
दोनों गोरैया क्या करती हैं? – What do the two sparrows do?
ये दोनों विहार करती हैं। – These two roam around.
वे दोनों कौन हैं? – Who are those two?
वे चालिकाएँ हैं। – They are lady drivers.
वे दोनों क्या करती हैं? – What do they both do?
वे दोनों गाड़ी चलाती हैं। – They both drive vehicles.

ध्यातव्यम्-इन वाक्यों में द्विवचन का प्रयोग आया है।

एताः काः?
एताः स्थालिकाः।
किम् एताः गोलाकारा:?
आम्, एताः गोलाकाराः एव।

ताः काः?
ताः अजाः।
ताः किं कुर्वन्ति?
ताः चरन्ति।

शब्दार्थाः (Word Meanings) : एताः (स्त्री०)-ये सब (these), काः (स्त्री०)-कौन/क्या (whol what), स्थालिकाः-थालियाँ (plates), गोलाकाराः-गोल आकार वाली (round shaped), आम्-हाँ (yes), एव-ही (only), अजा:-बकरियाँ (goats), कुर्वन्ति-करते/ करती हैं (बहुवचन) (do), चरन्ति-चरते/चरती हैं (graze).

सरलार्थ : English Translation:
ये सब क्या हैं? – What are all these?
ये सब थालियाँ हैं। – All these are plates.
क्या ये आकार में गोल हैं? – Are these round in shape?
हाँ, ये सब गोल आकार वाली हैं। – Yes, all these are roundshaped.
वे सब कौन हैं? – Who are these?
वे बकरियाँ हैं। – These are goats.
वे सब क्या कर रही हैं? – What are they doing?
वे सब चर रही हैं। – They are grazing?

ध्यातव्यम्-इन वाक्यों में बहुवचन का प्रयोग आया है।

हमने सीखा
अवधेयम्- संज्ञा (स्त्री०), सर्वनाम (स्त्री०) तथा क्रिया पद का रूप व प्रयोग तीनों वचनों में। यथा

शब्द परिचयः 2 Summary Notes Class 6 Sanskrit Chapter 2

ध्यातव्यम्
(क) संज्ञा व सर्वनाम शब्द का रूप उसके लिंग व वचन पर निर्भर करता है।
(ख) क्रियापद के रूप में वचन के कारण रूपान्तर आता है किंतु कर्तापद के लिंग का क्रियापद पर कोई प्रभाव नहीं होता। यथा- ‘सः लिखति’ तथा ‘सा लिखति’ वाक्यों में कर्ता में लिंग भेद के कारण क्रियापद में कोई अंतर नहीं आया।