CBSE Class 7 Sanskrit रचना अपठितांश-अवबोधनम्

We have given detailed NCERT Solutions for Class 7 Sanskrit रचना अपठितांश-अवबोधनम् Questions and Answers come in handy for quickly completing your homework.

CBSE Class 7 Sanskrit रचना अपठितांश-अवबोधनम्

अधोदत्तं प्रत्येकं अनुच्छेदं पठित्वा तदाधारिताम् प्रश्नान् उत्तरत।

1. भारते षड् ऋतवः भवन्ति- वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः, शिशिरः च। ग्रीष्मकालस्य पश्चात् वर्षाऋतुः आगच्छति। वर्षाकाले, ग्रीष्मस्य तापेन शुष्काः, पादपाः पुनः हरिताः। आकाशः कृष्णैः, मेघैः आच्छादितः भवति। नद्यः जलवेगेन प्रवहन्ति। कुत्रचित् अत्यधिका वृष्टिः भवति कुत्रचित् च अनावृष्टिः। वृष्टेः अभावात् कृषकाः महत् कष्टम् अनुभवन्ति। ते वर्षांदेवं प्रार्थयन्ति। वर्षाजलेन धरा शस्य-श्यामला भवति। एतत् दृष्ट्वा कृषकाणां चित्तं प्रफुल्लितम् भवति।

I. एकपदेन उत्तरत-

प्रश्न 1.
भारते कति ऋतवः भवन्ति?
उत्तरम्-
षड्

प्रश्न 2.
ग्रीष्मस्य पश्चात् कः ऋतुः आगच्छति?
उत्तरम्-
वर्षा

प्रश्न 3.
नद्यः कथं प्रवहन्ति?
उत्तरम्-
जलवेगेन

प्रश्न 4.
वृष्टेः अभावात् के महत् कष्टम् अनुभवन्ति?
उत्तरम्-
कृषकाः

II. पूर्णवाक्येन उत्तरत-

प्रश्न 1.
भारते षड् ऋतवः के सन्ति?
उत्तरम्-
भारते षड् ऋतवः सन्ति-वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः, शिशिरः च।

प्रश्न 2.
किं दृष्ट्वा कृषकाणां चित्तं प्रफुल्लितम् भवति?
उत्तरम्-
वर्षाजलेन धरा शस्यश्यामला इति दृष्ट्वा कृषकाणां चित्तं प्रफुल्लितम् भवति।

III. भाषिक कार्यम्-

प्रश्न 1.
‘वर्षाकाले ग्रीष्मस्य तापेन शुष्काः पादपाः पुनः हरिताः भवन्ति।’ इति वाक्ये-
(i) ‘भवन्ति’ क्रियापदस्य कर्ता कः? (तापेन, हरिताः, पादपाः)
(ii) ‘पादपाः’ इति पदस्य किं किं विशेषणम् अत्र प्रयुक्तम्? _______ ________
(iii) ‘तापेन’ अत्र किं विभक्तिः वचनम् च? _______ ________
उत्तरम्-
(i) पादपाः
(ii) शुष्काः, हरिताः
(iii) तृतीया एकवचनम् च

प्रश्न 2.
विपर्ययम् लिखत- वृष्टिः ________
उत्तरम्-
अनावृष्टिः

प्रश्न 3.
‘अनुभवन्ति’ अत्र कः उपसर्गः कः च धातुः? ________ ________
उत्तरम्-
अनु, भू

प्रश्न 4.
पदानां लिङ्गम् निर्दिशत।
(i) धरा ________
(ii) चित्तम् ________
(iii) पादपाः ________
उत्तरम्-
(i) स्त्रीलिङ्गम्
(ii) नपुंसकलिङ्गम्
(iii) पुंल्लिङ्गम्।

2. भारतवर्षः अस्माकं जन्मभूमिः। वयं भारतीयाः स्मः। भारते रम्याः देवालयाः, चित्र-विचित्र-उत्सवाः, विविधाः, वेशभूषाः। अत्र अनेकानि दर्शनीयानि स्थानानि। वैदेशिकाः अत्र पर्यटनाय आगच्छन्ति। देशस्य च विविधतां दृष्ट्वा विस्मिताः भवन्ति। यदि पर्यटकानां निवासाय भ्रमणाय च सुव्यवस्था भवेत् तर्हि अधिकाधिकाः वैदेशिकाः पर्यटकाः आगमिष्यन्ति। भारत-सर्वकारस्य पर्यटन-विभागः लाभान्वितः भविष्यति। देशः च समृद्धः भविष्यति। ‘अतिथिदेवो भव’ इति शास्त्रवचनम्।

I. एकपदेन उत्तरत-

प्रश्न 1.
अस्माकं जन्मभूमिः कः?
उत्तरम्-
भारतवर्षः

प्रश्न 2.
वयम् के स्म?
उत्तरम्-
भारतीयाः

प्रश्न 3.
के अत्र पर्यटनाय आगच्छन्ति?
उत्तरम्-
वैदेशिकाः

प्रश्न 4.
कः देवो भवेत्?
उत्तरम्-
अतिथिः।

II. पूर्णवाक्येन उत्तरत-

प्रश्न 1.
सर्वकारस्य पर्यटनविभागः कथं लाभान्वितः भवेत् भवन्ति?
उत्तरम्-
यदि पर्यटकानां निवासाय भ्रमणाय च सुव्यवस्था भवेत् तर्हि अधिकाधिकाः वैदेशिकाः पर्यटकाः आगमिष्यन्ति, एतेन भारतसर्वकारस्य पर्यटन-विभागः लाभान्वितः भविष्यति।

प्रश्न 2.
वैदेशिकाः पर्यटकाः कथं विस्मिताः भवन्ति।?
उत्तरम्-
भारतदेशस्य विविधतां दृष्ट्वा वैदेशिकाः पर्यटकाः विस्मिताः भवन्ति।

III. भाषिक कार्यम्-

प्रश्न 1.
‘देशः च समृद्धः भविष्यति’- इति वाक्ये-
(i) ‘भविष्यति’ क्रियापदस्य कर्ता कः? (देशः, समृद्धः) _______
(ii) ‘भविष्यति’ अत्र कः धातुः? __________ कः च लकार:? _______
(iii) अत्र किम् अव्ययम्? _________
(iv) एतत् वाक्यं बहुवचने परिवर्तयत? __________
उत्तरम्-
(i) देशः
(ii) भू, लृट्
(iii) च
(iv) देशाः च समृद्धाः भविष्यन्ति।

प्रश्न 2.
विपर्ययम् चित्वा लिखत – देशीयाः
उत्तरम्-
वैदेशिकाः

प्रश्न 3.
दृष्ट्वा- अत्र कः धातुः कः च प्रत्ययः?
उत्तरम्-
दृश्, क्त्वा।

3. गङ्गा देशस्य प्रमुखा नदी। गङ्गायाः अपरं नाम भागीरथी। एषा नदी हिमालयात् निर्गच्छति। एतस्याः नद्याः तीरे बहवः तीर्थाः मुनीनाम् आश्रमाः च सन्ति। हरिद्वारनगरम् प्रसिद्ध तीर्थस्थानम् गंगानद्याः तटम् अलंकरोति। अत्र अनेके देवालयाः सन्ति। सायंकालस्य दृश्यम् तु अत्र अनुपमम् एव। भक्ताः गंगादेवीं श्रद्धया पूजयन्ति, प्रज्वलितान् दीपान् च नद्याः जले प्रवाहयन्ति। यदा प्रज्वलिता: दीपा: जलेषु तरन्ति, तदा एवं प्रतीयते यत् ताराणां समूह : आकाशात् अवतीर्य पृथिव्याम् आगतः। गंगानदी परमपावना नदी मन्यते।

I. एकपदेन उत्तरत-

प्रश्न 1.
देशस्य प्रमुखा नदी का?
उत्तरम्-
गङ्गा

प्रश्न 2.
एषा नदी कस्मात् पर्वतात् निर्गच्छति?
उत्तरम्-
हिमालयात्

प्रश्न 3.
भक्ताः गंगादेवीं कथम् पूजयन्ति?
उत्तरम्-
श्रद्धया

प्रश्न 4.
भक्ताः कान् नद्याः जले प्रवाहयन्ति?
उत्तरम्-
दीपान्।

II. पूर्णवाक्येन उत्तरत-

प्रश्न 1.
गंगायाः तीरे के सन्ति?
उत्तरम्-
गङ्गायाः तीरे बहवः तीर्थाः मुनीनाम् च आश्रमाः सन्ति।

प्रश्न 2.
यदा प्रज्वलिताः दीपाः नद्याम् तरन्ति तदा किं प्रतीयते?
उत्तरम्-
यदा प्रज्वलिताः दीपा: नद्याम् तरन्ति तदा एवं प्रतीयते यत् ताराणाम् समूह : आकाशात् अवतीर्य पृथिव्याम् आगतः।

III. भाषिक कार्यम्-

प्रश्न 1.
‘यदा प्रज्वलिताः दीपाः जलेषु तरन्ति’ इति वाक्ये-
(i) ‘तरन्ति’ क्रियापदस्य कर्ता क:? (प्रज्वलिताः, दीपाः, जलेषु)
(ii) अत्र किम् अव्ययपदम्?
(iii) ‘जलेषु’ अत्र किं विभक्तिः वचनम् च?
(iv) ‘तरन्ति’ अत्र धातुः कः?
उत्तरम्-
(i) दीपाः
(ii) यदा
(ii) सप्तमी, बहुवचनम्
(iv) तृ

प्रश्न 2.
गंगा देशस्य प्रमुखा नदी। इति वाक्ये-
(i) ‘नदी’ शब्दस्य विशेषणपदम् किम्?
(ii) रिक्तस्थानपूर्ति कुरुत– देशस्य _______ (द्वि०व०) _______ (ब०व०)
उत्तरम्-
(i) प्रमुखा
(ii) देशयोः, देशानाम्

प्रश्न 3.
पदपरिचयं यच्छत।
(i) नद्याः _______ मूल शब्दाः _______ विभक्तिः _______ वचनम्
(ii) श्रद्धया _______ मूलशब्दः _______ विभक्तिः _______ वचनम्
उत्तरम्-
(i) नदी, षष्ठी, एकवचनम्
(ii) श्रद्धा, तृतीया, एकवचनम्

4. लोकमान्यः बालगंगाधरतिलक : महान् देशभक्तः आसीत्। बाल्यकालात् एव एतस्य देशभक्तस्य रुचिः राजनीतौ आसीत्। अत एव सः विधिशास्त्रस्य अध्ययनम् अकरोत्। एषः राजद्रोही इति दोषारोपणं कृत्वा ब्रिटिश-सर्वकारः तम् कारागारे अक्षिपत्। सः कारावास-काले अपि प्रयत्नशीलः आसीत्। सः गीतायाः अध्ययनं कृत्वा ‘गीता-रहस्यम्’ नाम महाग्रन्थम् अरचयत्। राष्ट्रे नवचेतना जागरयितुं सः आजीवनं प्रयत्नम् कृतवान्। एषः राष्ट्रवादी ‘स्वराज्यम् अस्माकं जन्मसिद्धः अधिकारः’ इति अघोषयत्।

I. एकपदेन उत्तरत-

प्रश्न 1.
देशभक्तस्य तिलकस्य रुचिः कस्याम् आसीत्?
उत्तरम्-
राजनीतौ

प्रश्न 2.
सः कस्य शास्त्रस्य अध्ययनम् अकरोत्?
उत्तरम्-
विधिशास्त्रस्य

प्रश्न 3.
सः कम् ग्रन्थम् अरचयत्?
उत्तरम्-
गीता-रहस्यम्

प्रश्न 4.
महान् देशभक्तः कः आसीत्?
उत्तरम्-
बालगंगाधरतिलक:।

II. पूर्णवाक्येन उत्तरत-

प्रश्न 1.
एषः राष्ट्रवादी किम् अघोषयत्?
उत्तरम्-
एषः राष्ट्रवादी अघोषयत्- ‘स्वराज्यम् अस्माकं जन्मसिद्धः अधिकारः’ इति।

प्रश्न 2.
सः आजीवनं किं अकरोत्?
उत्तरम्-
स: आजीवनं राष्ट्र नवचेतना जागरयितुं प्रयत्नम् अकरोत्।

III. भाषिककार्यत-
यथानिर्देशम् उत्तरत-

प्रश्न 1.
राजनीतौ __________ मूल शब्दः __________ विभक्तिः __________ वचनम्
उत्तरम्-
राजनीति, सप्तमी, एकवचनम्

प्रश्न 2.
अकरोत __________ धातः __________ लकार: __________ पुरुषः __________ वचनम
उत्तरम्-
कृ, लङ, प्रथम एक

प्रश्न 3.
कृत्वा __________ धातः __________ प्रत्ययः
उत्तरम्-
कृ, क्त्वा

प्रश्न 4.
‘एतस्य देशभक्तस्य’-अत्र किं विशेषणपदम्? __________
उत्तरम्-
एतस्य

प्रश्न 5.
समानार्थकं लिखत-
(i) अलिखत् __________
(ii) जीवन-पर्यन्तम् __________
उत्तरम्-
(i) अरचयत्
(ii) आजीवनम्

प्रश्न 6.
लिङ्गम् निर्दिशत-
(i) गीतायाः __________
(ii) एतस्य __________
उत्तरम्-
(i) स्त्रीलिङ्गम्
(ii) पुंल्लिङ्गम्

5. समाचारपत्रम् जीवनस्य अनिवार्यम् अङ्गम् जातम्। प्रातः भवति सति दैनिकं समाचारपत्रम् गृहे गृहे आगच्छति। गृहस्य सदस्याः समाचार-पत्रस्य प्रतीक्षां कुर्वन्ति। जनक: समाचारं पठितुम् इच्छति, पुत्रः खेल-समाचारम् ज्ञातुम् उत्सुक:। समाचार-पत्रे न केवलं देश-विदेश-वार्ताः राजनीति-अर्थनीति-समाचाराः परं लेखाः कथाः कार्टून-चित्राणि अपि सन्ति। समाचारपत्र-पठनेन ज्ञानवृद्धिः अपि भवति। बाला: युवकाः, वृद्धाः, गृहिण्यः सर्वे किञ्चित् रुचिकरम् अत्र लभन्ते। समाचार-पत्राणि विविधासु भाषासु प्रकाश्यन्ते।

I. एकपदेन उत्तरत-

प्रश्न 1.
किम् जीवनस्य अनिवार्यम् अङ्गम् जातम्?
उत्तरम्-
समाचारपत्रम्

प्रश्न 2.
कः खेलसमाचारान् ज्ञातुम् उत्सुक:?
उत्तरम्-
पुत्रः

प्रश्न 3.
कानि विविधासु भाषासु प्रकाश्यन्ते?
उत्तरम्-
समाचारपत्राणि

प्रश्न 4.
समाचारपत्र-पठनेन किं भवति?
उत्तरम्-
ज्ञानवृद्धिः।

II. पूर्णवाक्येन उत्तरत-

प्रश्न 1.
समाचारपत्रे किं किं भवति?
उत्तरम्-
समाचारपत्रे देशविदेश-वार्ताः राजनीति-अर्थनीति-समाचाराः लेखाः, कथाः कार्टूनचित्राणि च अपि भवन्ति-

प्रश्न 2.
के समाचारपत्रे किंचित् रुचिकरम् लभन्ते?
उत्तरम्-
बालाः, युवकाः, वृद्धाः, गृहिण्यः च अपि समाचारपत्रे किंचिद् रुचिकरं लभन्ते।

III. भाषिककार्यम्-
यथानिर्देशम् उत्तरत-
‘प्रातः भवति, दैनिकं समाचारपत्रं गृहे गृहे आगच्छति’। इति वाक्ये

प्रश्न 1.
‘आगच्छति’ क्रियापदस्य कर्ता कः? (प्रातः, दैनिकं, समाचारपत्रम्)
उत्तरम्-
समाचारपत्रम्

प्रश्न 2.
अत्र किम् अव्ययपदम् प्रयुक्तम्?
उत्तरम्-
प्रातः

प्रश्न 3.
गृहे गृहे- अत्र किं विभक्तिवचनम्? (द्वितीया-द्विवचनम्, प्रथमा-द्विवचनम्, सप्तमी-एकवचनम्)
उत्तरम्-
सप्तमी-एकवचनम्

प्रश्न 4.
‘आगच्छति’ अत्र कः धातुः कः च उपसर्ग:? _______ _______
उत्तरम्-
गम्, आ

प्रश्न 5.
रिक्तस्थानानि पूरयत।
समाचारपत्रम् _______ (द्विवचन) _______ (बहुवचन)
आगच्छति _______ (द्विवचन) _______ (बहुवचन)
उत्तरम्-
समाचारपत्रे, समाचारपत्राणि; आगच्छतः, आगच्छन्ति।

प्रश्न 6.
दैनिक समाचारपत्रम्- अत्र किं विशेषणम्?
उत्तरम्-
दैनिकं

प्रश्न 7.
विलोमपदम् चित्वा लिखत। सायम् _______
उत्तरम्-
प्रातः

सुभाषितानि Summary Notes Class 7 Sanskrit Chapter 1

By going through these CBSE Class 7 Sanskrit Notes Chapter 1 सुभाषितानि Summary, Notes, word meanings, translation in Hindi, students can recall all the concepts quickly.

Class 7 Sanskrit Chapter 1 सुभाषितानि Summary Notes

सुभाषितानि पाठ का परिचय

प्रस्तुत पाठ में विद्वानों के सुभाषित श्लोक हैं। श्लोकों के द्वारा शिक्षा दी गई है कि जीवन में क्या-क्या उपयोगी हैं और सफलता के लिए मनुष्य के व्यवहार और विचार कैसे होने चाहिए।

सुभाषितानि Summary

यहाँ संस्कृत के सुन्दर वचनों का संकलन है। प्रथम श्लोक में सुभाषितों का महत्त्व बताया गया है। इस संसार में जल, अन्न और सुभाषित-ये तीन ही रत्न बताए गए हैं। हीरा, पन्ना आदि पत्थर के टुकड़ों को रत्न कहना व्यर्थ है।

दूसरे श्लोक में सत्य की महिमा बताई गई है। इस संसार में पृथ्वी, सत्य पर टिकी है। सूर्य, सत्य के आश्रय से तपता है। सारा विश्व सत्य पर टिका हुआ है। . तीसरे श्लोक में कहा है कि इस पृथ्वी पर अनेक रत्न हैं। यथा-दान, तप, शौर्य, विनय इत्यादि। ये सभी रत्न परमात्मा प्रदत्त हैं।

चौथे श्लोक में सज्जन की महिमा कही है। हमें सज्जनों के साथ बैठना चाहिए। सज्जनों का साथ करना चाहिए और उनके साथ ही मित्रता करनी चाहिए। पाँचवें श्लोक में कहा है कि व्यक्ति को ज्ञान के संग्रह में, आहार तथा व्यवहार के विषय में संकोच नहीं करना चाहिए। छठे श्लोक में क्षमा का महत्त्व बताया गया है। जिस व्यक्ति के पास क्षमा रूपी हथियार है, उसका दुष्ट व्यक्ति कुछ बिगाड़ नहीं सकता है।

सुभाषितानि Word Meanings Translation in Hindi

(क) पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्।
मूढः पाषाणखण्डेषु रत्नसंज्ञा विधीयते॥1॥

शब्दार्थाः (Word Meanings) :
पृथिव्यां-धरती पर (on earth)
सुभाषितम्-सुन्दर वचन (good sayings)
मू?:-मूों के द्वारा (by the fools)
पाषाणखण्डेषु-पत्थर के टुकड़ों में (in stones)
रत्नसंज्ञा-रत्न का नाम (names of precious stones)
विधीयते-किया जाता है/दिया जाता है (is given).

सरलार्थ :
पृथ्वी पर जल, अन्न और सुवचन ये तीन ही रत्न हैं परंतु मूों के द्वारा पत्थर के टुकड़ों को रत्न का नाम दिया जाता है।

English Translation:
The three precious stones (jewels) on earth are water, food and good sayings. But the pieces of stones are called jewels by the fools.

(ख) सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम्॥2॥

शब्दार्थाः (Word Meanings) :
सत्येन-सत्य से (by truth)
धार्यते-धारण की जाती है (is held)
तपते-जलता है (shines/glows)
वाति-बहता है/बहती है (flows)
वायुश्च-और वायु (and air)
प्रतिष्ठितम्-स्थित है (exists).

सरलार्थ :
सत्य से पृथ्वी धारण की जाती है। सत्य से सूरज तपता है और सत्य से ही वायु प्रवाहित होती है। सब कुछ सत्य में समाहित (स्थित) है।

English Translation :
The earth is held by the truth. The sun shines by the truth. The wind blows by the truth. Everything is founded in Truth.

(ग) दाने तपसि शौर्ये च विज्ञाने विनये नये।
विस्मयो न हि कर्त्तव्यो बहुरत्ना वसुन्धरा ॥3॥

शब्दार्थाः (Word Meanings) :
तपसि-तपस्या में (in devotion)
शौर्ये-बल में (in strength)
विज्ञाने-विशेष ज्ञान में (in wisdom)
नये-नीति में (in morality)
विस्मयो-आश्चर्य (surprise)
बहुरना-अनेक रत्नों वाली (with various jewels)
कर्त्तव्यो-करना चाहिए (should do)
वसुन्धरा पृथ्वी (earth).

सरलार्थ :
दान में, तपस्या में, बल में, विशेष ज्ञान में, विनम्रता में और नीति में निश्चय ही आश्चर्य नहीं करना चाहिए। पृथ्वी बहुत रत्नों वाली है। अर्थात् पृथ्वी में बहुत से ऐसे रत्न भरे हुए हैं।

English Translation :
One must not feel surprised in charity, devotion, strength, wisdom, humility and morality. The earth is full of such jewels.

(घ) सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम्।
सद्भिर्विवादं मैत्री च नासद्भिः किञ्चिदाचरेत् ॥4॥

शब्दार्थाः (Word Meanings) :
सद्भिरेव (सद्भिः +एव)-सज्जनों के साथ ही (only with good persons)
सहासीत ( सह+आसीत)-साथ बैठना चाहिए (should sit with)
कुर्वीत-करना चाहिए (should do)
सद्भिर्विवादम् (सद्भिः +विवादम्)-सज्जनों के साथ विवाद (झगड़ा) (argument/ debate with good persons)
नासद्भिः (न+असद्भिः )-असज्जन लोगों के साथ नहीं (not with evil-minded persons)
मैत्री-मित्रता (friendship).

सरलार्थ :
सज्जनों के साथ ही बैठना चाहिए। सज्जनों के साथ संगति (रहन-सहन) करनी चाहिए। सज्जनों के साथ विवाद (तर्क-वितर्क) और मित्रता करनी चाहिए।असज्जनों (दुष्टों) के साथ कुछ भी व्यवहार नहीं करना चाहिए।

English Translation :
One must sit with the good persons. One must keep the company of good people. One must engage in debate with good people and befriend them. One must not interact with bad people.

(ङ) धनधान्यप्रयोगेषु विद्यायाः संग्रहेषु च।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्॥5॥

शब्दार्थाः (Word Meanings) :
धनधान्यप्रयोगेषु-धनधान्य के प्रयोग में/व्यवहार में (in the use of wealth)
संग्रहेषु-एकत्र करने (इकट्ठा करने) में (in collections)
त्यक्तलज्जः -संकोच को छोड़नेवाला (to give up hesitation)
भवेत्-हो (होता है) (to become).

सरलार्थ :
धन धान्य के प्रयोग में और विद्या के संचय में, आहार और व्यवहार में संकोच को छोड़नेवाला अर्थात् उदार प्रवृत्ति वाला व्यक्ति सुखी (होता है)।

English Translation :
One who does not hesitate i.e is generous (liberal) in the use of wealth, in gaining knowledge, in taking proper diet and in good behaviour remains happy.

(च) क्षमावशीकृतिर्लोके क्षमया किं न साध्यते।
शान्तिखड्गः करे यस्य किं करिष्यति दुर्जनः॥6॥

शब्दार्थाः (Word Meanings) :

क्षमावशीकृतिर्लोके (क्षमावशीकृति: लोके)-संसार में क्षमा (सबसे बड़ा)
वशीकरण है (forgiveness is the greatest virtue in the world by which one can win over people)
क्षमया-क्षमा से (by forgiveness)
साध्यते-साधा जाता है (is achieved, accomplished)
करे-हाथ में (in hand)
दुर्जन:-बुरे लोग (bad people).

सरलार्थ :
क्षमा संसार में (सबसे बड़ा) वशीकरण है। क्षमा से क्या (कार्य) पूर्ण नहीं होता है ? जिसके हाथ में क्षमारूपी तलवार है, उसका दुष्ट व्यक्ति क्या कर सकता है (क्या बुरा कर सकता है)?

English Translation :
Forgiveness is the greatest virtue in the world. What can not be achieved by forgiveness? What (harm) can a wicked person do to a person who has the sword of forgiveness in his hand?

CBSE Class 7 Sanskrit रचना पत्रलेखनम्

We have given detailed NCERT Solutions for Class 7 Sanskrit रचना पत्रलेखनम् Questions and Answers come in handy for quickly completing your homework.

CBSE Class 7 Sanskrit रचना पत्रलेखनम्

मञ्जूषातः उचितं पदं चित्वा पत्रं पूरयत-
(मञ्जूषा से उचित पद चुनकर पत्र पूरा कीजिए- Pick out the appropriate word form the box and complete letter.)

प्रश्न 1.
मित्रम् प्रति निमन्त्रणम् (मित्र के प्रति निमन्त्रण)

पश्चिम-विहारः
दिल्लीनगरम्
दिनाङ्क: X-X-12

प्रियमित्र अनुराग
सप्रेम ___________

अत्रकुशलम्, तत्र अपि ___________ भवेत्।
अग्रिमे सप्ताहे गुरुवासरे सप्तम्यां तारिकायां मम ___________ अस्ति। सायंकाले षड्वादने गृहे ___________ आयोजितः। सर्वे बन्ध-बान्धवाः उत्सवार्थम ___________। आशा अस्ति त्वमपि ___________ सह समारोहाय आगमिष्यसि। एतस्मिन् अवसरे वयम् सर्वे ___________ गास्यामः, नर्तिष्यामः उत्सवस्य च आनन्दम् ___________।
अहम् तव आगमनस्य ___________ करिष्यामि।
पितृभ्याम् मम प्रणामाः।

तव ___________
अर्णवः

मञ्जूषा – आगमिष्यन्ति, अनुभविष्यामः, प्रतीक्षाम्, मिलित्वा, नमस्ते, प्रियमित्रम्, परिवारेण, कुशलम्, प्रीतिभोजः, जन्मदिनम्।

उत्तरम्-
नमस्ते, कुशलम्, जन्मदिनम्, प्रीतिभोजः, आगमिष्यन्ति, परिवारेण, मिलित्वा, अनुभविष्यामः, प्रतीक्षाम्, प्रियमित्रम्।

प्रश्न 2.
मित्रं प्रति वर्धापनपत्रम् (मित्र के प्रति बधाई पत्र)

826, मॉडल टाउन
नागपुरम्
दिनांङ्क X-X-12

___________ राकेश
सप्रेम नमस्ते
अत्र सर्वविधम् कुशलम् अस्ति।
अद्य एव तव ___________ प्राप्तम्। इदं ___________ मम चित्तं प्रसन्नम् अभवत् यत् त्वं ___________ प्रथम स्थाने आगतः। त्वं सततं परिश्रमं करोषि। एतत् तस्य एव ___________ अस्ति। गृहस्य सर्व सदस्याः तुभ्यम् ___________ यच्छन्ति। त्वं सदैव ___________ कुरु इति शुभकामनाः।
मातृपितृचरणेषु मम सादरं ___________।

तव ___________
राजेशः

मञ्जूषा – प्रियमित्रम्, कक्षायाम्, उन्नतिम्, सुफलम्, प्रणामाः, पठित्वा, वर्धापनानि, प्रियमित्र, पत्रम्।

उत्तरम्-
प्रियमित्र, पत्रम्, पठित्वा, कक्षायाम्, सुफलम्, वर्धापनानि, उन्नतिम्, प्रणामाः, प्रियमित्रम्।

प्रश्न 3.
ज्येष्ठभ्रातरं प्रति अनुजस्य पत्रम् (बड़े भाई के प्रति छोटे भाई का पत्र)

छात्रावासः
कानपुरम्
दिनांङ्क X-X-12

पूज्यभ्रातः
___________ नमस्कारम्
अहं सानन्दः अस्मि।
भवान् मम दिनचर्याविषये ___________। अतः निवेदयामि। अहम् प्रातः ___________ उत्तिष्ठामि। सप्तवादनपर्यंत ___________ करोमि। तत्पश्चात् ___________ सज्जः भवामि। विद्यालयात् आगत्य अहं गणितस्य ___________ करोमि। अतः अधुना ___________ मम काठिन्यं दूरीभूतम्। संस्कृतविषये मम ___________ अति शोभनाः। स्वास्थ्य-रक्षणाय अपि अहं ___________ अस्मि। चिन्ता मा अस्तु।
गृहे सर्वेभ्यः मम प्रणामाः। अन्यत् सर्वं कुशलम्।

___________
अनुजः

मञ्जूषा – गणितविषये, सादरम्, प्रयत्नशीलः, पञ्चवादने, विद्यालयाय, अपृच्छत्, स्वाध्यायम्, भवदीयः, प्राप्ताङ्काः अभ्यासम्।

उत्तरम्-
सादरम्, अपृच्छत्, पञ्चवादने, स्वाध्यायम्, विद्यालयाय, अभ्यासम्, गणितविषये, प्राप्ताङ्काः प्रयत्नशीलः, भवदीयः।

प्रश्न 4.
पितरम् प्रति पुत्रस्य पत्रम् (पिता को पुत्र का पत्र)

छात्रावासः
नवदिल्ली
दिनांङ्क: X-X-12

पूज्य-पितृचरणाः
___________ प्रणामाः
भवतः आशीर्वादेन अहं ___________ अस्मि। मम ___________ सुष्टुः चलति। मम अर्धवार्षिकी ___________ समाप्ता। अहम् साम्प्रतम् कानिचित् ___________ क्रेतुम् इच्छामि। एतदर्थं कृपया शतद्वयम् ___________ प्रेषयतु।
मातृचरणेषु मम ___________। अनुजायै स्नेहराशिः।

___________
पीयूषः

मञ्जूषा – परीक्षा, प्रणतिः, सादरम्, सकुशलः, पुस्तकानि, भवदीयः पुत्रः, अध्ययनम्, रूप्यकाणि।

उत्तरम्-
सादरम्, सकुशलः, अध्ययनम्, परीक्षा, पुस्तकानि, रूप्यकाणि, प्रणतिः, भवदीयः पुत्रः।

CBSE Class 7 Sanskrit रचना चित्रवर्णनम्

We have given detailed NCERT Solutions for Class 7 Sanskrit रचना चित्रवर्णनम् Questions and Answers come in handy for quickly completing your homework.

CBSE Class 7 Sanskrit रचना चित्रवर्णनम्

प्रश्न 1.
अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते चतुर्युवाक्येषु वर्णनं कुरुत। सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।
(नीचे दिए गए चित्र को देखकर संस्कृत के चार वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं। Describe the given picture in four sentences in Sanskrit. You can use the words given in the box below.)
CBSE Class 7 Sanskrit रचना चित्रवर्णनम् Q1

मञ्जूषा – आपणे, फलानि, शाकानि, पुरुषः, महिला, कान्दविकः, अनेकानि, विपणानि, दृश्यम्, विपणन-केन्द्रम्।

उत्तरम्-
1. एतत् दृश्यम् एकस्य विपणन-केन्द्रस्य अस्ति।
2. अत्र अनेकानि विपणानि सन्ति।
3. एकतः फलानाम् आपणम्, अपरतः शाकानाम् आपणम् अस्ति।
4. एकः पुरुषः, एका महिला च शाकानि क्रीणन्ति।
5. एकः बालक : कान्दविकस्य आपणे आगच्छति।

प्रश्न 2.
अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते चतुर्युवाक्येषु वर्णनम् कुरुत।सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।
(नीचे दिए गए चित्र को देखकर संस्कृत के चार वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं। Write four sentences in Sanskrit describing the picture given below. You can take help of the words given in the box.)
CBSE Class 7 Sanskrit रचना चित्रवर्णनम् Q2

मञ्जूषा – कुटीरः, रजकः, वस्त्राणि, जले, सहायतां, समीपे, भार्या, पुत्री, क्षालयति शिलायाम्।

उत्तरम्-
1. एकः रजकः नद्याः जले वस्त्राणि क्षालयति।
2. सः शिलायाम् वस्त्राणि क्षिपति।
3. तस्य भार्या पुत्री च सहायतां कुरुतः।
4. नद्याः समीपे एकः कुटीरः अस्ति।
5. कुटीरस्य पृष्ठतः एकः वृक्षः अस्ति।

प्रश्न 3.
अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते पञ्चवाक्येषु वर्णनम् कुरुत।सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।
(नीचे दिए गए चित्र को देखकर संस्कृत के पाँच वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं। Describe the given picture in five sentences in Sanskrit. You can use the words given in the box below.)
CBSE Class 7 Sanskrit रचना चित्रवर्णनम् Q3

मञ्जूषा – द्वे कुटीरे, द्वौ पशू, तृणानि, उदयं गच्छति, कृषकौ, आनयति, सूर्यः, समीपे, ग्रामस्य, क्षेत्रं प्रति।

उत्तरम्-
1. एतत् ग्रामस्य चित्रम् अस्ति।
2. सूर्यः उदयं गच्छति कृषकौ च क्षेत्रं प्रति गच्छतः।
3. चित्रे द्वे कुटीरे स्तः।
4. कुटीरस्य समीपे द्वौ पशू तिष्ठतः।
5. एकः बालकः तृणानि आनयति।

प्रश्न 4.
अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते पञ्चवाक्येषु वर्णनम् कुरुत। सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।
(नीचे दिए गए चित्र को देखकर संस्कृत के पाँच वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं। Describe the given picture in five sentences in Sanskrit. You can use the words given in the box below.)
CBSE Class 7 Sanskrit रचना चित्रवर्णनम् Q4

मञ्जूषा – शयनकक्षः, शयनाय, काष्ठफलम्, पार्वे, पर्यङ्कः, घटिका, बालकः, एतस्मिन् चित्रे, शयनकक्षस्य।

उत्तरम्-
1. एतत् शयनकक्षस्य चित्रम् अस्ति।
2. एतस्मिन् चित्रे एकः पर्यङ्कः अस्ति।
3. पर्यङ्कस्य पार्श्वे एकम् काष्ठफलकम् अस्ति।
4. काष्ठफलके एका घटिका अस्ति।
5. एकः बालकः शयनाय गच्छति।

प्रश्न 5.
चित्रम् आधृत्य पञ्चवाक्यानि लिखत। सहायतायै पदसूची अधः दत्ता।
(चित्र के आधार पर पाँच वाक्य लिखिए। सहायता के लिए पद-सूची नीचे दी गई है। Write five sentences on the basis of the picture. A list of words is given below for help.)
CBSE Class 7 Sanskrit रचना चित्रवर्णनम् Q5

मञ्जूषा – भ्रमन्ति, पुष्पाणि, उद्यानस्य, बालाः, जनाः, विकसन्ति, भ्रमन्ति, क्रीडन्ति, केदारेषु, वृक्षाः, शोभाम्, पश्यन्ति, आनन्देन, हृष्यन्ति।

उत्तरम्-
1. एतत् एकस्य उद्यानस्य चित्रम् अस्ति।
2. अत्र बालाः आनन्देन क्रीडन्ति।
3. उद्याने वृक्षाः सन्ति, केदारेषु च पुष्पाणि विकसन्ति।
4. जनाः अत्र भ्रमन्ति, उद्यानस्य च शोभा पश्यन्ति।
5. उद्यानस्य वातावरणे सर्वे हृष्यन्ति।
नोट – चित्रवर्णन के ये वाक्य उदाहरण के रूप में दिए गए हैं। छात्र इसी प्रकार अन्य वाक्य स्वयं बना सकते हैं।

प्रश्न 6.
अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते पञ्चवाक्येषु वर्णनम् कुरुत।सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।
(नीचे दिए गए चित्र को देखकर संस्कृत के पाँच वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं। Describe the given picture in five sentences in Sanskrit. You can use the words given in the box below.)
CBSE Class 7 Sanskrit रचना चित्रवर्णनम् Q6

मञ्जूषा – युद्धाय, रथेन, गच्छति, श्रीकृष्णः, सारथिः, ध्वजा, उपरि, अश्वाः, तीव्रम्।

उत्तरम्-
1. एतस्मिन् चित्रे अर्जुनः युद्धाय गच्छति।
2. सः श्रीकृष्णेन सह रथेन गच्छति।
3. श्रीकृष्णः रथस्य सारथिः अस्ति।
4. रथस्य उपरि ध्वजा अस्ति।
5. रथस्य अश्वाः तीव्रम् धावन्ति।

प्रश्न 7.
अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते पञ्चवाक्येषु वर्णनम् कुरुत। सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।
(नीचे दिए गए चित्र को देखकर संस्कृत के पाँच वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं। Describe the given picture in five sentences in Sanskrit. You can use the words given in the box below.)
CBSE Class 7 Sanskrit रचना चित्रवर्णनम् Q7

मञ्जूषा – पिकः, कृष्णः, तिष्ठति, मधुरम्, पिकस्य, कूजति, आम्रवृक्षे, वसन्तकाले।

उत्तरम्-
1. एतत् चित्रम् पिकस्य अस्ति।
2. पिकः उद्याने आम्रवृक्षे तिष्ठति।
3. पिकस्य वर्णः कृष्णः भवति।
4. वसन्तकाले पिकः कूजति।
5. सः मधुरम् कूजति।

प्रश्न 8.
अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते पञ्चवाक्येषु वर्णनम् कुरुत।सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।
(नीचे दिए गए चित्र को देखकर संस्कृत के पाँच वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं। Describe the given picture in five sentences in Sanskrit. You can use the words given in the box below.)
CBSE Class 7 Sanskrit रचना चित्रवर्णनम् Q8

मञ्जूषा – वर्षाकालस्य, बालिका, आकाशे, मेघाः, मार्गे, छत्रम्, वर्षा, नयति, प्रसन्ना।

उत्तरम्-
1. एतत् वर्षाकालस्य चित्रम् अस्ति।
2. वर्षाकाले एका बालिका मार्गे गच्छति।
3. आकाशे मेघाः सन्ति।
4. अधुना वर्षा भवति।
5. बालिका छत्रम् नयति प्रसन्ना च अस्ति।

अभ्यासः

प्रश्न 1.
मञ्जूषायाः सहायतया चित्रम् आधृत्य पञ्चवाक्यानि संस्कृतेन लिखत-
(मञ्जूषा की सहायता से चित्र के आधार पर संस्कृत में पाँच वाक्य लिखिए– Write five sentences in Sanskrit based on the picture. Take help from the box.)
CBSE Class 7 Sanskrit रचना चित्रवर्णनम् Q9

मञ्जूषा – सूर्यस्नानम्, हरिताः, समुद्र-तटे, जनाः, नौका, सुखेन, वृक्षाः, समुद्रतटस्य, तरन्ति, कुर्वन्ति।

1. ____________________
2. ____________________
3. ____________________
4. ____________________
5. ____________________
उतरम्-
1. एतत् समुद्रतटस्य दृश्यम् अस्ति।
2. अत्र जनाः सुखेन सूर्यस्नानं कुर्वन्ति।
3. समुद्रतटे बालाः आनन्देन क्रीडन्ति।
4. समुद्रे नौकाः तरन्ति।
5. हरिताः वृक्षाः तटम् अलंकुर्वन्ति।

प्रश्न 2.
मञ्जूषायाः सहायतया चित्रम् आधृत्य पञ्चवाक्यानि संस्कृतेन लिखत-
(मञ्जूषा की सहायता से चित्र के आधार पर संस्कृत में पाँच वाक्य लिखिए- Write five sentences in Sanskrit based on the picture. Take help from the box.)
CBSE Class 7 Sanskrit रचना चित्रवर्णनम् Q10

मञ्जूषा – बालकाः, कन्दुकेन, पुष्पाणि, उद्यानस्य, वृक्षाः, खगाः, वृक्षस्य, प्रसन्नाः, अधः, उत्पतन्ति, वातावरणम्, दृश्यम्।

1. ____________________
2. ____________________
3. ____________________
4. ____________________
5. ____________________
उतरम्-
1. एतत् एकस्य उद्यानस्य चित्रम् अस्ति।
2. अत्र बालकाः कन्दुकेन क्रीडन्ति प्रसन्नाः च भवन्ति।
3. उद्याने वृक्षाः सन्ति पुष्पाणि च विकसन्ति।
4. एकस्य वृक्षस्य अधः एक : बालकः तिष्ठति।
5. उद्यानस्य वातावरणम् आनन्दप्रदम् अस्ति।

Class 7 Sanskrit Grammar Book Solutions व्यावहारिकः शब्दकोशः

We have given detailed NCERT Solutions for Class 7 Sanskrit Grammar Book व्यावहारिकः शब्दकोशः Questions and Answers come in handy for quickly completing your homework.

Sanskrit Vyakaran Class 7 Solutions व्यावहारिकः शब्दकोशः

पशुओं के नाम (Name of Animals)

संस्कृत – हिन्दी – अंग्रेज़ी

1. धेनुः/गौः – गाय – Cow
2. महिषी – भैंस – Buffalo
3. वृषभः – बैल – Ox
4. अजा – बकरी – Goat
5. गजः – हाथी – Elephant
6. उष्ट्रः – ऊँट – Camel
7. अश्वः / घोटक: – घोड़ा – Horse
8. कुक्कुरः / सारमेयः – कुत्ता – Dog
9. सिंहः – शेर – Lion
10. वानरः / कपिः – बन्दर – Monkey
11. विडाल: / मार्जारः – बिलाव / बिल्ली – Cat
12. कूर्मः / कच्छपः – कछुआ – Tortoise
13. मृगः – हिरण – Deer
14. वृकः – भेडिया – Wolf
15. गर्दभः – गधा – Donkey
16. शृगालः – गीदड़ – Jackal
17. नकुलः – नेवला – Mongoose
18. मूषकः – चूहा – Mouse
19. शशकः – खरगोश – Rabbit
20. मण्डूकः / दर्दुरः – मेढक – Frog
21. भल्लूकः – भालू – Bear
22. व्याघ्रः – बाघ – Tiger

पक्षियों के नाम (Name of Birds)

संस्कृत – हिन्दी – अंग्रेज़ी

1. कपोतः – कबूतर – Pigeon
2. कुक्कुटः – मुर्गा – Cock
3. मयूरः – मोर – Peacock
4. शुकः – तोता – Parrot
5. काकः – कौआ – Crow
6. पिकः – कोयल – Koyal/Indian cuckoo
7. चटका – चिड़िया – Sparrow
8. उलूकः – उल्लू – Owl
9. हंसः – हंस – Swan
10. गृध्रः – गिद्ध – Eagle
11. श्येनः – बाज़ – Hawk
12. भ्रमरः – भौंरा – Beetle
13. चित्रपतङ्गः / तित्तिरी – तितली – Butterfly
14. मक्षिका – मक्खी – Housefly
15. मधुमक्षिका – मधुमक्खी – Honeybee
16. वर्तिका – बतख – Duck
17. बकः – बगुला – Crane

शरीर के अंग एवं अवयव (Parts and Organs of body)

संस्कृत – हिन्दी – अंग्रेज़ी

1. शिरः – सिर – Head
2. केशः – बाल – Hair
3. ललाट: / मस्तक: – माथा – Forehead
4. कर्णः – कान – Ear
5. नेत्रम्/चक्षुः – आँख – Eye
6. नासिका – नाक – Nose
7. आननम् – मुँह / चेहरा – Face
8. मुखम् – मुँह – Mouth
9. ओष्ठ / अधरः – होंठ – Lips
10. जिह्वा – जीभ – Tongue
11. ग्रीवा – गर्दन – Neck
12. कण्ठः – गला – Throat
13. उदरम् – पेट – Stomach
14. वक्षस्थल – छाती – Chest
15. स्कन्धः – कन्धा – Shoulder
16. अंगुष्ठम् – अँगूठा – Thumb
17. अंगुलिः – अंगुली – Finger
18. दन्तः – दाँत – Teeth
19. पादः – पैर – Foot
20. नखः – नाखून – Nail
21. पृष्ठः – पीठ – Back
22. जंघा – जाँघ – Thigh
23. कपोल: – गाल – Cheek
24. जानु – घुटना – Knee
25. बाहुः – बाजू – Arm
26. हृदयम् – हृदय / दिल – Heart
27. भ्रूः – भौंह – Eyebrow
28. करतलः – हथेली – Palm
29. अस्थि – हड्डी – Bone
30. कंकालः – हड्डियों का ढाँचा – Skeleton
31. त्वच / चर्म – खाल / चमड़ी – Skin
32. रक्तम् / रुधिरम् – रक्त / खून – Blood
33. अश्रु – आँसू – Tears
34. चित्तम् / मनः – मन – Mind
35. कफोणिः – कोहनी – Elbow

फलों के नाम (Names of Fruits)

संस्कृत – हिन्दी – अंग्रेज़ी

1. नारिकेलम् – नारियल – Coconut
2. कदलीफलम् – केला – Banana
3. आम्रम् – आम – Mango
4. जम्बुफलम् – जामुन – Black plum
5. दाडिमम् – अनार – Pomegranate
6. अमृतफलम् – अमरूद – Guava
7. नारंगम् – सन्तरा – Orange
8. निम्बफलम् / जम्बीरम् – नींबू – Lemon
9. द्राक्षाफलम् – अंगूर – Grapes
10. अंजीरम् – अंजीर – Fig
11. कूष्माण्डम् – तरबूज – Watermelon
12. एरण्डम् – पपीता – Papaya
13. इक्षुः / रसालः – गन्ना – Sugarcane
14. सीताफलम् – शरीफा – Custard apple
15. सेबफलम् – सेब – Apple
16. खजूरम् – खजूर – Date

खाद्यपदार्थों के नाम (Names of eatables)

संस्कृत – हिन्दी – अंग्रेज़ी

1. करपट्टिका – रोटी – Bread
2. सूपः – दाल – Pulse
3. दधि – दही – Curd
4. गोधूमम् – गेहूं – Wheat
5. मिष्टान्नम् – मिठाई – Sweets
6. तण्डुलम् – चावल – Rice
7. ओदनम् – भात – Cooked rice
8. शाकः – सब्जी – Vegetable
9. दुग्धम् – दूध – Milk
10. चणकः – चना – Gram
11. तैलम् – तेल – Oil
12. घृतम् – घी – Ghee
13. नवनीतम् – मक्खन – Butter
14. यवः – जौ – Barley

सम्बन्ध वाचक शब्द (Words for relation)

संस्कृत – हिन्दी – अंग्रेज़ी

1. जनकः / पिता – पिता – Father
2. अम्बा / जननी – माता – Mother
3. भ्राता – भाई – Brother
4. भगिनी – बहन – Sister
5. अग्रजः – बड़ा भाई – Elder brother
6. अनुजः – छोटा भाई – Younger brother
7. अग्रजा – बड़ी बहन – Elder sister
8. अनुजा – छोटी बहन – Younger sister
9. पितामहः – दादा – Grand father (paternal)
10. पितामही – दादी – Grand mother (paternal)
11. मातामहः – नाना – Grandfather (maternal)
12. मातामही – नानी – Grandmother (maternal)
13. पितृव्यः – चाचा – Uncle (paternal)
14. पितृव्या – चाची – Aunt (paternal)
15. मातुलः – मामा – Uncle (maternal)
16. मातुलानी – मामी – Aunt (maternal)
17. भागिनेयः – भाञ्जा – Nephew (maternal)
18. श्वश्रुः श्वशुरः – ससुर – Father-in-law
19. पुत्रः – पुत्र / बेटा – Son
20. पुत्री – पुत्री / बेटी – Daughter
21. सखी – सहेली – Friend (female)
22. मित्रम् – मित्र / सखा – Friend (male)

अन्य उपयोगी शब्द (Some other useful words)

संस्कृत – हिन्दी – अंग्रेज़ी

1. शुल्कः – फ़ीस – Fee
2. सूचनापट्टः – सूचनापट्ट – Noticeboard
3. श्यामपट्टः – श्यामपट्ट – Blackboard
4. प्रकोष्ठः – कमरा – Room
5. भवनम् – इमारत / भवन – Building
6. लेखाधारः – मेज़ – Table
7. आसन्दिका – कुर्सी – Chair
8. कर्गलम् – कागज – Paper
9. कलमम् – कलम – Pen
10. मञ्जूषा – पेटी – Box
11. व्यजनम् – पंखा – Fan
12. विद्युत्दीपकम् – बल्ब – Bulb
13. कपाट: – किवाड़ – Door
14. गवाक्षः – झरोखा – Ventilator
15. वातायनम् – खिड़की – Window
16. भित्तिः – दीवार – Wall
17. दैनन्दिनी – डायरी – Diary
18. वाचनालयः – वाचनालय – Reading room
19. पुस्तकालयः – पुस्तकालय – Library
20. शाटिका – साड़ी – Saree
21. उणविकरम् – स्वेटर – Sweater
22. कारागारः – कारावास – Jail
23. भुशुण्डी – बन्दूक – Gun
24. अश्मपट्टिका – स्लेट – Slate
25. श्वेतवर्तिका – चांक – Chalk
26. तृणम् – घास – Grass
27. छत्रम् – छाता – Umbrella
28. नागदन्तः – खूटी – Hook
29. लवित्रम् / छुरिका – चाकू / छुरी – Knife
30. कर्तनी – कैंची – Scissors
31. पादत्राणम् – जूता – Shoe
32. दीपकम् – दीपक / दीया – Lamp
33. मुद्रिका – अंगूठी – Ring
34. रुप्यकम् – रुपया – Rupee
35. पणकः – पैसा – Coin
36. न्यायालयः – न्यायालय – Court
37. औषधालयः – चिकित्सालय – Hospital
38. देवालयः – मन्दिर – Temple
39. संगणकम् – कम्प्यूटर – Computer
40. प्रक्षेपकयन्त्रम् – प्रोजेक्टर – Projector
41. ध्वनिविस्तारकयन्त्रम् – माइक / लाउडस्पीकर – Microphone / Loudspeaker
42. मञ्चम् – स्टेज / मञ्ज – Stage