Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 5 रचनानुवादः (वाक्यरचनाकौशलम्)

We have given detailed NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 5 रचनानुवादः (वाक्यरचनाकौशलम्) Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 5 रचनानुवादः (वाक्यरचनाकौशलम्)

अभ्यासः

1. अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

प्रश्न 1.
छात्रों को ध्यान से कार्य करना चाहिए।
उत्तरम्:
छात्रान् ध्यानेन कार्य कर्त्तव्यम्/कुर्मुः।

प्रश्न 2.
वृक्ष पर पक्षी चहचहाते हैं।
उत्तरम्:
वृक्षे खगाः कूजन्ति।

प्रश्न 3.
हम सब मिलकर गाएँगे।
उत्तरम्:
वयम् मिलित्वा गास्यामः।

प्रश्न 4.
खिलाड़ी फुटबॉल से खेल रहे हैं।
उत्तरम्:
क्रीडकाः पादकन्दुकेन खेलन्ति क्रीडन्ति।

प्रश्न 5.
अध्यापक ने कहा-“सदाचार का पालन करो।
उत्तरम्:
अध्यापक: अकथयत्-सदाचारं पालय।

प्रश्न 6.
कृषक गाँव की ओर गए।
उत्तरम्:
कृषक: ग्रामम् प्रति अगच्छत्

प्रश्न 7.
तुम दोनो खीर खाओ।
उत्तरम्:
युवाम् क्षीर अखादतम्।

प्रश्न 8.
विद्यालय के दोनो ओर वृक्ष हैं।
उत्तरम्:
विद्यालय अभितः वृक्षाणि/वृक्षा:सन्ति।

प्रश्न 9.
माता बालक को दूध देती हैं।
उत्तरम्:
अम्बा बालकाय दुग्धं दाच्छति।

प्रश्न 10.
हमें स्वास्थ्य के नियमों का पालन करना चाहिए।
उत्तरम्:
वयम् स्वास्थ्यस्य नियमानि पालनीया।

प्रश्न 11.
कल राघव कहाँ था?
उत्तरम्:
ह्यः राघवः कुत्र आसीत्?

प्रश्न 12.
मेरे पिता भोजन पकाते हैं।
उत्तरम्:
मम जनकः भोजन पचति।

प्रश्न 13.
मेरे पास आकर बैठो।
उत्तरम्:
मम समीपे आगत्य उपविश।

प्रश्न 14.
उन सबको दीवाली उत्सव अच्छा लगता है।
उत्तरम्:
तान् दीपोत्सवः रोचन्ते।

प्रश्न 15.
ईश्वर को नमस्कार।
उत्तरम्:
ईश्वराय नमः।

प्रश्न 16.
घर के बाहर कौन है?
उत्तरम्:
गृहात् बहिः कः अस्ति?

प्रश्न 17.
भवन के ऊपर कौए बैठे हैं।
उत्तरम्:
भवनस्य उपरि काकाः उपविशन्ति।

प्रश्न 18.
मैंने ऐसा नहीं कहाँ।
उत्तरम्:
अहम् एतत् न अकथयम्।

प्रश्न 19.
कक्षा में कितने छात्र हैं?
उत्तरम्:
कथायाम् कति छात्राः सन्ति?

प्रश्न 20.
तुम बाज़ार से दही लाओ।
उत्तरम्:
त्वम् आपणात् दधिं आनय।

2. प्रत्ययाधारिता वाक्य-संरचना

गुरु सेवमानेन छात्रेण या विद्या अर्जिता सा पूर्णजीवने तस्य सहायिका भूतवती।
जीवने ज्ञानमेव सर्वथा प्राप्तव्यम् यतः ज्ञानं विना न कोऽपि पूजनीयः।
अत्र स्थूलाक्षरपदानि प्रत्यय-युक्तानि सन्ति।
वाक्येषु प्रत्यय-प्रयोगार्थम् एते बिन्दवः ध्यातव्याः।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 5 रचनानुवादः (वाक्यरचनाकौशलम्) Q2
एतानि वाक्यानि पठत-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 5 रचनानुवादः (वाक्यरचनाकौशलम्) Q2.1

3. एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

प्रश्न 1.
उसने पत्र लिखा।
उत्तरम्:
सः पत्रम् अलिखत्।

प्रश्न 2.
खाते हुए नहीं बोलना चाहिए।
उत्तरम्:
खादन् न वदितव्यम्।

प्रश्न 3.
उस कन्या ने पुस्तक पढ़ी।
उत्तरम्:
सा कन्या पुस्तक अपठत्।

प्रश्न 4.
तुम्हें भी पुस्तक पढ़नी चाहिए।
उत्तरम्:
त्वम् अपि पुस्तकम् पठितव्यम्।

प्रश्न 5.
वह फल लेकर घर आई।
उत्तरम्:
सा फलं नीत्वा गृहं आगच्छत्।

प्रश्न 6.
तुमने ऐसा नहीं सोचा।
उत्तरम्:
त्वम् एतत् न अचिन्त्यः।

प्रश्न 7.
पुस्तक पाता हुआ छात्र प्रसन्न होता है।
उत्तरम्:
पुस्तकं प्राप्य छात्रः प्रसन्नं भवति।

प्रश्न 8.
जाते हुए बालक को देखो।
उत्तरम्:
गच्छन् बालकं पश्य।

प्रश्न 9.
शिमला नगर देखने योग्य है।
उत्तरम्:
शिमला नगरः दर्शनीयः अस्ति।

प्रश्न 10.
खाने योग्य भोजन ही खाना चाहिए।
उत्तरम्:
खादनीयः भोजनं एवं खादितव्यम्।

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 5 रचनानुवादः (वाक्यरचनाकौशलम्) Q3

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम्

We have given detailed NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम्

यहाँ ध्यातव्य है कि प्रत्येक चित्र के साथ दी गई मञ्जूषा में प्रदत्त पद छात्रों की सहायता के लिए हैं, किंतु उनका प्रयोग अनिवार्य नहीं है। छात्र स्वेच्छा से भी वाक्य-संरचना कर सकते हैं।

1. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q1
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q1.1
वाक्यानि
(i) अत्र रक्षाबन्धनपर्वणः आयोजनं भवति।
(ii) भगिनी अग्रजस्य मणिबन्धे रक्षासूत्रस्य बन्धनं करोति।
(iii) तस्याः अनुजः अपि स्वक्रमस्य प्रतीक्षा करोति।
(iv) अग्रजस्य रक्षाबन्धनं कृत्वा भगिनी अनुजस्य मणिबन्धे अपि रक्षाबन्धनं करिष्यति।
(v) मातापितरौ रक्षाबन्धनं दृष्ट्वा मोदेते।

2. अधोलिखित चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q2
वाक्यानि
(i) इदम् चित्रम् जलौघस्य अस्ति।
(ii) ग्रामस्य क्षेत्राणि गृहाणि च जलमग्नानि सन्ति।
(iii) विमानानि जलौघपीडितेभ्यः भोजनपुतकानि क्षिपन्ति/पातयन्ति।
(iv) सैनिक: वृद्धस्य सहायताम् कृत्वा तम् नौकायाम् आरोहयति।
(v) जनाः सहायतार्थं आवाह्नकुर्वन्ति/आवाह्यन्ति।

3. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q3
वाक्यानि
(i) इदं चित्र अन्तराष्ट्रियसीमाक्षेत्रस्य अस्ति।
(ii) अत्र देशरक्षकम्यः अनेक सनिकाः सन्ति।
(ii) ते पलायितौ आतङ्कवादिनौ धृत्वा देशं रक्षन्ति।
(iv) अत्र प्रहरिणः भुक्षुण्डिं गृहीत्वा निशिवासरः देशस्य रक्षां कुर्वन्ति।
(v) देशरक्षकेभ्यः नमः।

4. अधोलिखितं चित्रं दृष्ट्वा मजूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q4
वाक्यानि
(i) अस्मिन् चित्रे रेलयानस्य दुर्घटनायाः वर्णनम् अस्ति।
(ii) पतितानि जनाः उत्थाय इतस्यतः धावन्ति।
(iii) विपत्तौ धैर्यस्य आवश्यकता लवति।
(iv) चिकित्सा परिचारिकाः च वणितम् जनाः चिकित्सां कुर्वन्ति।
(v) अद्यत्वे रेलयानम् एक महत्वपूर्ण परिवहनं वर्तते।

5. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q5
वाक्यानि
(i) अस्मिन् चित्रे एकं व्यस्तं मार्ग दृश्यते।
(ii) मार्गे वृक्षाः गृहाणि च अवि दृश्यते।
(iii) तत्र एकः आरक्षक: यातायातस्य सुरक्षायै तिष्ठति।
(iv) यदा चालक: आत्मरक्षायै यातायातस्य नियमान् पालयति तदा यातायात् निर्बाधम् भवितुं शक्नोति।
(v) अतः सर्वैः जनाः यातायातस्य नियमान् पालनीया।

6. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q6
वाक्यानि
(i) इदम् चित्रम् श्रावणमासस्य वर्षायाः अस्ति।
(ii) आकाशे इन्द्रधनुषम् अस्ति।
(iii) मयूरः प्रसन्नं भूत्वा नृत्यति।
(iv) मण्डूकाः टर्र-टर्र इति शब्द कुर्वन्ति।
(v) वर्षायां वृक्षेषु पुष्पाणि पत्राणि च स्वच्छनि दृश्यन्ते।

7. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q7
वाक्यानि
(i) इदम् कारयानयोः, दुर्घटनायाः चित्रम् अस्ति।
(ii) अत्र द्वौ नरौ कुद्धौ स्तः।
(iii) एकस्य कारयानस्य क्षतिग्रस्ते अभवत्।
(iv) सः नरः आक्रोशपूर्वकम् दोषारोपणम् करोति।
(v) अन्यत् नरः स्वदोष मन्यते। अत्र क्षमाभावस्य धैर्यस्य च आवश्यकता अस्ति।

8. अधोलिखित चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q8
वाक्यानि
(i) इदं चित्रं फल आपणस्य अस्ति।
(ii) अत्र आपणे अनेकानि फलानि सन्ति। यथा-कदलीफलानि, अमृतफलम्, नारिकेलानि च।
(iii) जनाः अत्र फलानि क्रेतुम् आगतानि सन्ति।
(iv) फलविक्रेता ग्राहकाय फलानि तोलयति।
(v) फलभक्षणम् स्वास्थ्यवर्धनम् भवति।

9. अधोलिखित चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q9
वाक्यानि
(i) इदम् चित्रम् क्रीडाङ्गणस्य अस्ति।
(ii) अत्र एकः रेफ्री/प्रशिक्षकः सप्त बालिकाः च दृश्यते।
(iii) अत्र एका धावन-प्रतियोगिता भवति।
(iv) तत्र एक: विजेतृमञ्चम् अस्ति। तस्य उपरि प्रथम, द्वितीय तृतीय स्थाने च लिखिताः आसन्।
(v) प्रशिक्षक: सीटिकारवं कर्तुं तत्परः अस्ति।

10. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q10
वाक्यानि
(i) अस्मिन् चित्रे एकस्य क्षेत्रस्य दृश्यम् अस्ति।
(ii) कृषक: हलम् कर्षतः वृषभौ चालयति।
(iii) जलः अभावात् सः मेघानाम् प्रतीक्षा करोति।
(iv) सूर्यातपे परिश्रम कारणात् तस्य शरीरम् स्वेदपूर्णम् भवति।
(v) अन्नोत्पादने योगदानम् अस्मात् कारणात् कृषकम् अन्नदाता अपि कथ्यते।

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 3 अनुच्छेदलेखमन्

We have given detailed NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 3 अनुच्छेदलेखमन् Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 3 अनुच्छेदलेखमन्

श्रवण – भाषण – कौशल – विकासार्थम्

1. जन्तुशाला
जन्तूनां शाला जन्तुशाला इति कथ्यते। जन्तुशालायाम् अनेके पशवः पक्षिणः च भवन्ति। जनाः इमान् पक्षिणः पशून् च द्रष्टुम् दूरतः आगच्छन्ति। जन्तुशालायाः सर्वाः व्यवस्थाः प्रशासनेन क्रियते। बालकाः जन्तुशाला गत्वा प्रसन्नाः भवन्ति।

2. स्वच्छता स्वच्छता जीवने आवश्यकी भवति। सामान्यतया जनाः स्वगृहं स्वच्छीकुर्वन्ति, परं मार्गस्य प्रतिवेशस्य च स्वच्छतायाः विषये अवधानं न यच्छन्ति। अस्माकं प्रधानमंत्री नरेन्द्रमोदी राष्ट्रपितुः गान्धिनः जन्मदिवसे स्वच्छताभियानस्य आरम्भं कृतवान्। अधुना बालकाः अपि स्वच्छताविषये जागरूकाः सन्ति। ते स्वगृह विद्यालयं च यथाशक्ति स्वच्छं कर्तुं प्रयन्ते।

3. वृक्षो रक्षति रक्षितः
वृक्षाः जीवनस्य आधाराः भवन्ति। वृक्षैः, नदीभिः, पर्वतैः च सुशोभिता इयं प्रकृतिः मानवानां कृते उपयोगिनी भवति। परं स्वार्थरताः मानवाः विकास प्रति अन्धधावनशीलाः निर्ममभावेन वृक्षान् कृन्तन्ति। अस्माभिः सर्वैः तथ्यमिदं ध्यातव्यं यत् यदा वयं वृक्षाणां रक्षणं करिष्यामः तदा वृक्षाः अस्माकं रक्षा करिष्यन्ति। वृक्षाणाम् अवदानविषये श्लोकोऽयं दर्शनीयः अपि-

पत्रपुष्पफलच्छायामूलवल्कलदारुभिः।
गन्धनिर्यासभस्मास्थिततोक्यैः कामान् वितन्वते।।

4. हीमादासः
हीमादासः असमराज्यस्य एकस्मिन् अतिनिर्धने कृषकपरिवारे जन्म अलभत्। अस्याः जन्म जनवरीमासस्य नवम्यां तिथौ द्विसहस्रतमे (2000) वर्षे अभवत्। दारिद्र्यात् सुविधानाम् अभावे सा नियमित प्रशिक्षणमपि न प्राप्नोत् तथापि सा हतोत्साहिता नाभवत्। आई.ए.ए.एफ विंशतिवर्षेभ्यः निम्नवर्गे या धावनप्रतियोगिता अभवत् तस्यां सा स्वर्णपदकं प्राप्य भारतवर्ष गौरवान्वितम् अकरोत्। वस्तुतः आदर्शरूपा प्रेरणास्वरूपा च सा सर्वस्मै युववर्गाय।

5. सहिष्णुता
वयं प्रतिदिनं समाचारेषु यातायातमार्गेषु वर्धमानां हिंसाम् अधिकृत्य सामाचारान् शृणुमः। अतीव दुःखदायिनी एषा स्थितिः यतः अद्यत्वे जनेषु सहिष्णुतायाः अभावः जातः। वस्तुतः सहिष्णुतायाः अभावे मानवस्य दुर्गतिः एव भवति। समाजस्य विघटनस्य कारणमपि धार्मिक-सहिष्णुतायाः अभावः एवास्ति। यदि अस्माकं मनसि ‘वयं सर्वे सदृशाः स्मः’ इति भावना भवेत् तदा प्रकृत्या एव वयं सहनशीलाः भविष्यामः। क्रोधं संयम्य उचितानुचितं विचार्य एव कोऽपि निर्णयः कर्तव्यः।

6. संस्कृतशिक्षणम्
प्राचीनकाले संस्कृतं व्यवहारस्य भाषासीत् परम् अधुना एषा तथा न दृश्यते मन्यते। संस्कृतभाषा जनभाषा भवेद् एतदर्थ ‘संस्कृतभारती’ नामक संस्थानं संस्कृतभाषायाः प्रचाराय प्रसाराय च प्रयतते। अत्र अनेकाः परियोजनाः प्रचाल्यन्ते यासु बालानां कृते वयस्कानां कृते च संस्कृतसम्भाषण-शिक्षणस्य रुचिकरी व्यवस्था क्रियते। ‘वदतु संस्कृतम्’, ‘संस्कृतव्यवहार-साहस्री’, ‘भाषाप्रवेशः’, ‘गीतसंस्कृतम्’ शिशुसंस्कृतम् इत्यादीनि अनेकानि बालोपयोगीनि पुस्तकानि अपि अनेन संस्थानेन प्रकाशितानि। सान्द्रमुद्रिकाः ध्वनिमुद्रिकाः अपि इतः प्राप्तुं शक्यन्ते। एवं संस्कृतभाषाधिग्रहणाय सर्वथा उपयुक्तमेतत् स्थानम्।

7. मम धर्मः
अहं मानवः अस्मि। मानवता मम गुणः धर्म: च। धर्मस्य दृष्ट्या अहं केवलं भारतीयः एव अस्मि। विस्तरेण यदि कथयामि तर्हि भारतीय-परम्परानुसारं धर्मः जीवनव्यवहारः भवति। एवं भ्रातृत्वं, पितृत्वं, शिक्षकत्वं, छात्रत्वं सहयोगित्वं मित्रत्वञ्चादयः मे अनेके धर्माः। एतैः सर्वैः धमैंः उपेतः अहम् एकः भारतीयः एतदेव सत्यम्। भारतस्य उन्नत्यर्थं प्रयतिष्ये भारतीयां संस्कृतिम् च उन्नेष्यामि एष मम सङ्कल्पः।

8. पुस्तकम्
पुस्तकानि मानवस्य सर्वोत्तममित्राणि। कुपितं मित्रम् अस्माभिः सह कपटं कर्तुं शक्नोति परं पुस्तकानि सदैव अस्मांक कल्याणाय सज्जानि भवन्ति, अतः अस्माभिः एतादृशं हितकरं मित्रं कदापि न त्याज्यम्। प्रत्यक्षम् अप्रत्यक्षं सर्वविधं ज्ञानं पुस्तकैः प्राप्तुं शक्यते। अत एव कथितमति–’सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः।’ अतः पुस्तकमेलकानि अपि भवन्ति यत्र वयं विविधविषयाणां पुस्तकानि एकस्मिन्नेव स्थाने प्राप्तुं क्षमाः, अतः अस्माभिः सदैव स्वाध्यायपरैः भवितव्यम्।

9. स्वाध्यायः
विद्यालये पठितस्य पाठस्य यदा गृहे वयं पुनः अध्ययनं कुर्मः तद्विषये चिन्तनं कुर्मः अभ्यास वा कुर्मः तत्कर्म ‘स्वाध्याय’ इति कथ्यते। अद्यत्वे छात्राणां मूलसमस्या स्वाध्यायस्य अभावः अस्ति। विद्यालये पञ्च-षट्-होरापर्यन्तम् अध्यापकैः विविधविषयानवगत्य छात्र: गृहं प्राप्नोति तदा च अन्यशिक्षकेभ्यः व्यक्तिगतरूपेणापि पाठनस्य प्रबन्धं पितरौ कुरुतः। एवं छात्रेभ्योऽपि इदमेव प्रतीयते यद वयं प्रात:कालात आरभ्य सायं यावत् पठामः एव, अतः अधुना मनोरञ्जनाय अन्यत् किमपि कर्तव्यम्। एवं स्वाध्यायस्य अभावे विषयवस्तु हृदयङ्गमः एव न भवति अपितु परीक्षाचिन्ताकारणं सिध्यति अतः
आवश्यकता तु इयमस्ति यत् पठितं विषयं प्रतिदिनं स्वाध्यायेन हदयङ्गम करणीयम्।

10. मयूरः
मयूरः अस्माकं राष्ट्रियपक्षी अस्ति। एषः मूलतः वन्यपक्षी अस्ति। बहुरङ्गः मयूरः अतिसुन्दरः प्रतिभाति। वर्षाकालं वसन्तर्तुं च प्राप्य एष: सुन्दरम् आकर्षकञ्च नृत्यं करोति। एतस्य नृत्यं दृष्ट्वा केकारवञ्च श्रुत्वा जनाः मुदिताः भवन्ति। भारतवत् म्याँमारस्य, श्रीलङ्कायाश्चापि राष्ट्रियपक्षी मयूरः अस्ति। देवानां सेनापते: कार्तिकेयस्य वाहनम् अपि मयूरः एवास्ति। मयूरपिच्छं विना श्रीकृष्णस्य शृङ्गारः अपूर्ण: मन्यते। अस्माभिः मयूरप्रजाति: रक्षणीया।

11. आतङ्कवादः
हिंसात्मकक्रियाभिः स्वकीय-वर्चस्वस्थापनाय भयोत्पादनम् अथवा भस्य वातावरण निर्माणम् एव आतङ्कवाद: उच्यते। एषः केनापि एकेन जनेन समूहेन वा भवितुं शक्यते। अयम् असामाजिकतत्त्वैः असंवैधानिक-क्रियाभिः स्वकीयेच्छां पूरयितुं विभिन्नस्तरेषु सञ्चाल्यमानः भवति। अनेन समान्यजीवनं सङ्कटापन्नं भवति। आतङ्कवादेन गृहे, समाजे, देशे, विदेशेषु च असुरक्षायाः भावः भयञ्च उत्पद्यते। जनसम्म यत्र कुत्रपि, कदापि, किमपि भवितुं क्यते। आतङ्कवादिसङ्घटनानां मुख्य लक्ष्यं भयोत्पादनमेव। आतङ्कवादस्य समूलनाशाय सर्वेषां राष्ट्राणां सहयोगः परमावश्यकः अस्ति।

1. अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
(i) भूकम्पविभीषिका
(ii) पर्वतारोहणम्
(iii) पर्यावरणसंरक्षणम्
(iv) गृहाकार्य कियत् उपयोगी?
(v) मम जीवनलक्ष्यम्
(vi) हास्योपचारः
(vii) ग्राम्यजीवनम्
(viii) जलसंरक्षणस्य उपायाः
(ix) विद्यालयस्य उन्नत्यै छात्राणां सहयोगः
(x) क्रीडाप्रतियोगिता।
उत्तरम्:
(i) भूकम्पविभीषिका
भूमेः विभिन्नकारणेभ्यः सम्पन्नः कम्पन्नम् इत्यादि वैपरीत्यम् एव भूकम्पः। भूकम्पः यदा सम्भवति तदा तरङ्गाणा: संख्या भूमिः कम्पिता भवति। भूकम्पस्य केन्द्र परितः एते तरङ्गाः प्रसरन्ति। भूकम्पस्य परिणामतः भूमि एकनिमेषतः अपि अधिकं कालं यावत् कम्पते। भूकम्पात् जायमानस्य नष्टस्य कारणं भूकम्पस्य तीव्रता एव। सेस्मोग्राफ उपेकरेणन भूकम्पत: उत्पन्न शक्तिः मापयितुं शक्यते। एतान् मानचित्रम् बृहत् भूकम्पवलयं दर्शयति। प्रगतशतमानस्य विपत्कारिणं भूकम्पाः प्रत्येकं भूकम्पः रेक्टर उपकरणे आश्रमस्थानं अतिक्रान्तः

(ii) पर्वतारोहणम्
पर्वतयात्रा लोकेभ्यः अतीव आनन्ददायिनी भवति। ये जनाः पर्वतेषु न वसयिन्त तेभ्यः पर्वतयात्रा अत्यधिक-रम्या रुचिकरी च अस्ति। गत सप्ताह अहम् अपि स्वमित्रैः सह शिमलायात्रार्थं गृहात् निर्गतः। तत्र प्राप्त वयम् विषम-मार्गम् आरोढुं तत्परा: आस्म। अयं मार्गः प्रतिपदं पाद-स्खलनोन्मुखः आसीत्। अयम् उत्तरोत्तरं आरोहम् एव याति स्म। मध्ये कुत्रापि अवरोहः नासीत्। पादक्षेपे एकस्य अपि पलाशस्य असावधानता पादभङ्ग जयनेत्। अवपतनात् नासाभंग, दन्तभंगः, मस्तकभंगो वा भवेत्। वयम् अतिसावधानतया दीर्घ निःश्वसन्तः शनैः शनैः ऊर्ध्वं गच्छामः स्म। प्रदोषकाले पर्वतम् अधस्तात् प्रकाश वर्त्तकाः द्राद् दूरं दीपमालेव अदृश्यन्त। अधुना अपि स्मर्यमाणाः पर्वताः माम् आह्वयन्तः इव प्रतीयन्ते।

(iii) पर्यावरणसंरक्षणम्
अस्मान् परितः यानि पञ्यमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवहीयते। इत्युक्ते मनुष्यः यत्र निवसति, यत् खादति, यत् वस्त्र धारयति, यज्जलं पिबति, यस्य पवनस्य सेवनं करोति, तत्सर्व पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवल भारतस्य, अपितु, समस्तविश्वस्य समस्या वर्तते। निरंतरं वर्धमानं प्रदूषणं सर्वेषाम् चिन्तियाः विषयः जनः। यतः प्रदूषण अधिकाः मनुष्याः रूग्णाः भवन्ति। अनेन प्रकृत्याः हानिः भवति, जीवनामपि हानिः भवति। पर्यावरणस्य रक्षा अस्माभिः सर्वेः करणीया। स्थाने-स्थाने विविधाः वृक्षाः रोपणीयाः। तेषां च संवर्धनमपि अवश्य कर्त्तव्यम्। वृक्षारोपणं सर्वेषां नैतिकं कर्तव्यम् अस्ति। जल प्रदूषण निवारणार्थं जलशुद्धिः करणीया। अवकरः मार्ग न क्षेपणीयः। यदि सर्वे नागरिकाः पर्यावरण विषये कृतसंकल्पाः भवन्ति तर्हि किमपि दुष्करं नास्ति।

(iv) गृहकार्य कियत् उपयोगी?
विद्यालये शिक्षकः स्वविषयं पूर्वतः एव सम्यक् पाठित्वा कक्षायाम् आयाति। कठिनम् अपि विषयम् उदाहरणैः सह सरलीकृत्य उपस्थापयति। अध्यापन समये शिक्षकः पुनः पुनः प्रश्नान् करोति, तेन सर्वेऽपि छात्राः सावधानाः तिष्ठन्ति। छात्राः अपि प्रश्नान् पृच्छन्ति। सः तान् सम्यक् समादयतो। शिक्षकः प्रतिदिनं छात्राय गृहकार्यम् अपि ददाति। परस्मिन् दिने छात्राणां गृहकार्य पश्यति। यत्र यत्र प्रमादः वर्तते तंत्र तेन निराकरणं क्रियते। छात्राणां पुनः पुनः प्रमादं दृष्ट्वा तस्य मनः खेदं न वहति। यः छात्रः प्रमादं करोति, शिक्षकः तं पुनः पुन: बोधयति। समये कृते, कार्येण सफलता प्राप्नोति, जानं वर्धते। अतः सर्वेः, छात्राणाम् कर्तव्या सन्ति यत् तान छात्रान् गृहकार्यस्य उपयोगिता बोधयित्वा परिश्रमपूर्वकेन कार्य कर्तव्यम् इत्यम् ते जीवने सफलतां प्राप्नुवन्ति। अतएव छात्रेम्यः गृहकार्य अति उपयोगी वर्तते।

(v) मम जीवनलक्ष्यम्
मानव मात्रस्य कोऽपि महान अभिलाषे वर्तते। केचित् जनाः धनोपार्जनम् एवं जीवनस्य लक्ष्यं मन्यन्ते। ते सततं तस्मिन् एव दत्तमानसः जायन्ते। केचित् विद्याम् एव पूजायाः करणं मन्यमानाः तत्रैव यतन्ते। केचित् जगति येन केन प्रकारेण प्रसिद्धिम् अधिगन्तुम् इच्छन्ति। केचित् राजनीतिक्षेत्रे ख्याति प्राप्तुम् आकांक्षन्ति। केचित् लक्ष्यविहीनाः एव जीवनं यापयन्ति। मया ‘पुष्पस्य अभिलाषः’ इति कस्यचित् कवेः कविता पठित्वा स्वलक्ष्य निर्धारितम्। एतस्यां कवितायां पुष्पं निजाभिलाषं वर्णयत् कथयति। यत् हे मालाकारः त्वं माम् उत्पाट्य तस्मिन् मार्गे प्रक्षिप यत्र अनकेवीराः मातृभूमे सम्मान-रक्षणार्थ प्राणान् करतलेषु निधाय गच्छन्ति। अधुना मम जीवनस्य लक्ष्य मातृभूसेवा अस्ति। राष्ट्रियचरित्र्यस्य अभाव दूरीकर्तुम् अहम् अहोरात्रं प्रयतितुं कामये।

(vi) हास्योपचारः
शरीरस्य नीरोगतायाः अनेकानि साधनानि सन्ति। तेषु साधनेषु हास्योपचारः महत्त्वपूर्ण स्थानम् अस्ति। हास्योपचारेण रुधिरस्य सम्यक् अनिरुद्धश्चय सञ्चारो जायते। तेन च सर्वाणि इन्द्रियाणी स्वस्थानि तिष्ठन्ति। कार्ये कुशलता जायते। बुद्धिः अप्रतिहता तिष्ठति। उरसि शक्तिः स्फीतता च जायते। शरीरं पुष्टम सशक्तं च भवति। मस्तिष्कम् उर्वरम् तिष्ठति। आस्मिन् लोके स्वहितम् इच्छता मनुष्येण निज सामर्थ्यानुसारं वयोऽनुसार हास्योपचारः करणीयः। शरीरं बिना तु धर्मरक्षा अपि न सम्भवेत्।

(vii) ग्राम्यजीवनम्
भारते नगराणाम् अपेक्षया ग्रामाणां संख्या अधिका वर्तते। तस्मात् ग्रामजीवनम् अत्र प्रमुखतां वहति। अस्मिन् देशे ग्राम्यजीवनम् नगरजीवनात् पर्याप्तं भिन्नम् अस्ति। ग्राम्यजीवने कृषिः एव प्रमुखो व्यवसाय:। ग्रामेषु कृषकाणां समीपं जीवन निर्वाहात् अधिका भूमिः न वर्तते। ते अतिकठिनतया निर्वाहं कुर्वन्ति। श्रमिकवर्गस्तु अत्यर्थं दारिद्रयं गतः तिष्ठति। सः दिने द्विकृत्व: न उदरपूरं भुङक्तो ग्रामीणाः दैनिकावश्यकतानां पूर्ति तु ग्रामदेव कुर्वन्ति। चणकान्, तण्डुलान् शर्करां, शाकान् वस्त्राणि च ग्रामादेव लभन्ते। उत्पादितम् अधिकम् अन्नं विक्रेतुं समीपस्यां मण्डी नयन्ति। ग्रामीणाः प्रायेण भाग्यं परम् मन्यमानाः सन्ताषेण कालं यापयन्ति। अधुना सुबद्धमार्ग प्रसारात्; विद्युत्प्रयोगात्, शिक्षाप्रचारात् च ग्रामवासिनाम् अपि बहुधिसमृद्धिः, न अतिदूरा तिष्ठति।

(viii) जलसंरक्षणस्य उपाया:
‘जलम् एव हि जीवनम्’ अस्मिन् संसारे जलेन एव जीवनां जीवनं सम्भवति। वयं शुद्ध जलं वषार्याः एव विन्दामः। एतत् जलम् नदीषु, तडागेषु, सरोवरेषु च एकत्रितं भवति। एतत् एव जलम् अस्माकं क्षेत्राणि उद्यानानि च सिञ्चति। नदीनाम् जलं पवित्रम् आरोग्यवर्धकं-शान्तिप्रदं च भवति। परन्तु अद्यन्ते वयम् अस्य अमूल्य जलस्य सम्मानं न कुर्मः। जनाः जलेषु अवकरं क्षिपन्ति, वस्त्राणि प्रक्षालयन्ति पात्राणि च स्वच्छं कुर्वन्ति, येत्र जलं दूषितं भवति। यदि वयं जलं प्रदूषितं करिष्यामि तर्हि अस्माकं जीवनम् अपि नाशं भविष्यति। दूषितेन जलेन क्षेत्राणि शुष्यन्ति, अन्नानि फलानि च न भविष्यन्ति, क्षुधापीडिताः जीवाः जनाः च नष्टाः भविष्यन्ति। अतएव अस्माकं कर्तव्यम् अस्ति यत् जलस्य संरक्षणं संवर्धनं भवेत्।

(ix) विद्यालयस्य उन्नत्यै छात्राणां सहयोगः
विद्यालस्य परिसरः शान्तिपूर्णः प्रकृत्यामनोहरः भवन्ति। अत्र अध्ययने छात्रा: गौरवम् अनुभवन्ति। क्रीडाक्षेत्रे क्रीडित्वा अभ्यासं च कृत्वा ते प्रतियोगितासु प्रवेशं प्राप्नुवन्ति। विद्यालये विज्ञान प्रयोगशालायाम् प्रयोगेण विज्ञान सिद्धान्तान् अवगच्छन्ति। पुस्तकालये पुस्तकानि समाचार-पत्राणि पठित्वा ते स्वज्ञाने वृद्धिं कुर्वन्ति, विशेष योग्यतां लाब्धवा उत्तीर्णाः भवन्ति। बहवः छात्राः छात्रवृत्तिं लब्धवा प्रतियोगी परीक्षासु प्रवेशं च अपि प्राप्नुवन्ति। पारितोषिकान् प्राप्य विद्यालयस्य उन्नत्यै सहयोगं गच्छान्ति। अत्र सुपठनस्य प्रबन्धो वर्तते च सदाचरण शिक्षायाः व्यवस्था विद्यते। इत्थम् छात्र सर्वविधं उन्नतिं प्राप्य विद्यालयस्य उन्नत्यै सहयोगं गच्छति।

(x) क्रीडाप्रतियोगिता
अक्तूबरमासे प्रतिवर्ष विद्यालयस्य क्रीडा-दिवसः भवति। तदा विविधानां क्रीडाप्रतियोगितानाम् आयोजनम् भवति। गतवर्षे मानितः क्रीडादिवसः अतीव स्मरणीयः आसीत्। तत्र छात्रैः अपूर्वेण उत्साहेन भागो गृहीतः। प्रधावन-प्रतियोगितासु त्रिशत मीटर-प्रधावन-प्रतियोगिता अद्वितीया आसीत्। शाटपुट-प्रतियोगिषु सुरेशः लौहगोलम् अतिदूरं प्रक्षिप्य नवीन क्षेपमानम् अस्थापयत्। भारोतोलन-प्रतियोगितायां न केनापि उत्साहः प्रदर्शितः किन्तु मन्दचालप्रतियोगितायां छात्रैः अपूर्वस्य धैर्यस्य प्रदर्शन कृतम्। द्विचक्रिका प्रतियोगितायां तु एका छात्रा मार्गे एव पतिता मूर्च्छिता च। छात्राभिः रज्जु-कर्षण-प्रतियोगितायाम् अपि अपूर्वः उत्साहः प्रदर्शिता। प्रतियोगिता-परिसमाप्तौ अध्यक्षमहाभागैः परितोषिकानि प्रहतानि। इत्थम् अयं प्रतियोगिता-समारोहः सर्वेषाम् हर्षातिरेकम् अजनयत्।

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 2 पत्रलेखनम्

We have given detailed NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 2 पत्रलेखनम् Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 2 पत्रलेखनम्

(क) अनौपचारिकम् पत्रम्

1. चौरितस्य स्यूतस्य प्राथमिक-सूचनार्थम् आरक्ष्यधिकारिणं प्रति पत्र लिखत।

आरक्ष्यधिकारि – महादेय!
लाजपतनगर – क्षेत्रम्
नवदेहली
विषयः – चौरितस्य स्यूतस्य प्राथमिक-सूचना
श्रीमन्,
अनेन पत्रेण अहं भवते एतत् सूचयामि यत् ह्यः प्रातः एकादश-वादने रेलमैट्रोयानेन विश्वविद्यालयात् अहं लाजपतनगरम् अगच्छम्। मार्गे मम स्यूतं चोरितम् अभवत्। यस्मिन् द्विसहस्रं रूप्यकाणि, कार्यालयस्य परिचय-पत्रं, मैट्रो चिटिकापत्रं मम आधार-परिचयपत्रं चासन्। स्यूतस्य वर्णः कृष्णः आसीत्। अहं प्रार्थये यत् यथाशीघ्रं मम स्यूतम् अन्वेष्य मां कृतार्थं करोतु भवान्।
सधन्यवाद:
निवेदकः
अजयः
निवासस्थानम् – ___________
दूरभाष-संख्या – ___________
दिनाङ्कः – ___________

2. चोरितायाः घटिकायाः प्राथमिक-सूचनार्थम् आरक्ष्यधिकारिणं प्रति पत्र लिखत।

आरक्ष्यधिकारि-महोदय
पटेलनगर-क्षेत्रम्
नवदेहली
विषयः – चोरितायाः घटिकायाः प्राथमिक-सूचना।
श्रीमन्/महोदये
सविनयं निवेदनम् वर्तते यत् अहं भवतः क्षेत्रस्य निवासी अस्मि। अनेन पत्रेण अहम् लवते एतत् सूचयामिम यत् ह्यः अहम् प्रातः पञ्चवादने स्वगृहे प्रविष्टः तदा अहम् अपश्यम् मम गृहे चोरितम् अभवत्। अहम् हतप्रभः अस्मि यत् अस्माकं क्षेत्रे चौर्यकार्य प्रवर्धितम् अस्ति। चौराः दिवानिशम् कदाचिदपि जनानां गृहेषु प्रविश्य चौर्यम् कुर्वन्ति। ते कदाचित् तु जनान् हनन्ति अपि। मम गृहात् द्विलक्ष रुप्यकाणि परिचय-पत्र, आधारपरिचयपत्रादि च चोरितः। अहं प्रार्थये यत् यथाशीघ्र चोरितायाः घटिकायाः प्राथमिक सूचना लिखत। भवान क्षेत्रस्य निवासिषु सुरक्षा प्रति समुचितं प्रयासं करोतु। यथाशीघ्रं मम् स्यूतम् अन्वेष्य च। अहं भवताम् आभारी भविष्यामि।
सधन्यवाद:
निवेदकः
विकास
निवासस्थानम् – _____________
दूरभाष-संख्या – _____________
दिनाङ्क: – _____________

(ख) औपचारिकम् पत्रम्

1. विज्ञानविषयं प्राप्तुं प्राधानाचार्य प्रति आवेदनपत्रम्।

सेवायाम्
प्रधानाचार्यमहोदय!
मीमांसाविद्यालयः, नवदेहली
विषयः – एकादशकक्षायां विज्ञानविषयग्रहणार्थ विशेषानुमतये निवेदनम्।
महोदय,
सविनयं निवेद्यते यदहमस्मिन् विद्यालये प्रथमकक्षातः पठामि। प्रतिवर्षमहम् उत्तमान् अङ्कान् प्राप्य कक्षायां प्रथमस्थानमेव अधिगच्छामि स्म। परमस्मिन् वर्षे परीक्षामध्ये एवाहम् अकस्मात् ज्वरग्रस्तः अभवम्। विज्ञानविषयस्य तु परीक्षाऽपि मया चिकित्सालयात् एव परीक्षाकेन्द्र प्राप्य प्रदत्ता। फलतः मया आशानुकूलः परीक्षापरिणामः न प्राप्तः। विद्यालयनियमानुसार विज्ञानविषय ग्रहणाय प्रतिशतं केवलम् एकस्य एव अङ्कस्य न्यूनता अस्ति।

महोदय! शैशवादेव मम हार्दिकी इच्छा जीवविज्ञाने शोधं कृत्वा वैज्ञानिकः भवितुमासीत्। परं यदि अहं विज्ञानविषये प्रवेशमेव प्राप्तुमसमर्थः भविष्यामि तदा कथमहं स्वकीयं स्वप्नं सार्थकं करिष्यामि। अतः मम करबद्धः अनुरोधः अस्ति। यन्मह्यं विज्ञानविषयं पठितुम् भवान् अनुमतिं प्रयच्छतु। एतदर्थम् अहं पुनः परीक्षणाय अपि सज्जः अस्मि।
आशासे यत् भवान् मम स्थितिमवगत्य मम विशेषानुरोधं स्वीकरिष्यति।
कृपाकाङ्क्षी
भवदाज्ञाकारी शिष्यः

2. अध्ययन प्रति मातरं समाश्वासयितुं पुत्र्या लिखितं पत्रं मञ्जूषायां प्रदत्तपदैः पूरयित्वा पुनः लिखत।

कुशलम्, प्रतियोगिताः, कुशलिनी, परिणामः, चिन्तिता, मतिम्, आनन्देन, करणीया, खेलप्रतियोगितासु, काल:

परीक्षाभवनतः
दिनाङ्कः ________

पूज्यमातृचरणा:,
प्रणतीनां शतम्।
अत्र अहं (i) ___________। आशासे भवती पितृमहादेयः च (ii) ___________ स्तः। मात:! अहं जानामि यद् भवती मम अर्धवार्षिक परीक्षापरिणामकारणात् (iii) ___________ अस्ति। अत्र चिन्ता न (iv) ___________ प्रथमसत्रे तु अहं (v) ___________ रता आसम्। पठनाय तु (vi) ___________ एव न आसीत् परम् अधुना तु सर्वाः (vii) ___________ समाप्ताः। अद्यारभ्य अहं केवल पठने एव (viii) ___________ विधास्यामि। आशासे वार्षिकपरीक्षायां मम (ix) ___________ भवताम् आशानुकूलः भविष्यति। शेषं सर्व (x) ___________ त्याः चरणयोः प्रणामाः
भवत्याः पुत्री
सुकन्या
उत्तरम्:
(i) आनन्देन
(ii) कुशलिनी
(iii) चिन्तिता
(iv) करणीया
(v) खेलप्रतियोगितासु
(vi) कालः
(vii) प्रतियोगिताः
(viii) मतिम्
(ix) परिणामः
(x) कुशलम्

3. जलसंरक्षणस्य महत्त्वं वर्णयतः मित्रस्य मित्रं प्रति लिखितं पत्रं मञ्जूषायां पदत्तपदैः पूरयित्वा पुनः लिखत-

देशस्य, प्रयतमानाः, अपव्ययम्, विचारयति, जागरूकता, प्रयासः, जानीमः, जीवनम्, सह, अस्तु

छात्रावासतः
दिनाङ्कः _________

प्रिय मित्र!
स्रपेम नमोनमः,
अत्र कुशलं तत्र (i) ________। भवतः पत्रं पठित्वा अतीव प्रसन्नताम् अनुभवामि यत् भवान् मित्रः (ii) ________ जनसंरक्षणप्रचारकार्ये रतोऽस्ति। एषः तु उत्तमः (iii) ________ अस्ति। वयं सर्वे एव (iv) ________ यत् जीवने जलस्य महत्त्वं तु अतुलनीयम्। जलम् एव (v) ________ इति वयं सर्वे जानीमः परं पुनरपि वयम् अस्य (vi) ________ कुर्मः। अनेन आगामिकाले कियान् भीषणजलसङ्कटः भवेत् इति कोऽपि न (vii) ________ संरक्षणार्थं (viii) ________ अनिवार्या एव। यदि जनाः अत्र ध्यान न दास्यन्ति तदा अस्माकं (ix) ________ स्थितिरपि अफ्रीकादेशवत् भविष्यति। यथा ते जलबिन्दुप्राप्त्यर्थं (x) ________ सन्ति तथा एव अस्मांक देशस्य अपि स्थितिः भविष्यति। अत: जलसंरक्षणार्थं जागरूकता अनिवार्या। शेषं सर्वं कुशलम्। पितृभ्यां चरणयोः चरणवन्दना।
भवतः मित्रम्
उमेशः

उत्तरम्
(i) अस्तु
(ii) सह
(iii) प्रयासः
(iv) जानीमः
(v) जीवनम्
(vi) अपव्ययम्
(vii) विचारयति
(viii) जागरूकता
(ix) देशस्य
(x) प्रयतमाना:

4. स्वस्थभोजनस्य महत्त्वं वर्णयन्त्याः अग्रजायाः अनुजं प्रति पत्रम्।

प्रिय अमित!
सप्रेम नमोनमः।
माता लिखित पत्र प्राप्तम्। तेन पत्रेण मया ज्ञातम् यत् भवान् सन्तुलितभोजनं न सेवते, प्रतिदिनं च ‘चाऊमीन-बर्गर’ इति खादति। ईदृशं भोजनं स्वास्थयाय सम्यक् न अस्ति। कदाचित् तु अस्य सेवनं कर्तुं शक्यते परं प्रतिदिनं त्वरितभोजनस्य सेवनं स्वास्थ्याय हानिकरम्।
स्वास्थ्याय तु सन्तुलितभोजन ग्रहीतव्यम् एव यतः ‘स्वस्थशरीरे एव स्वस्थमनसः वासः’ भवति अतः भवान् त्वरितभोजनस्य सेवनं मा करोतु। स्वास्थ्यवर्धकभोजनमेव खादतु। अनेन भवान् कदापि रुग्णः न भविष्यति। भवान् स्वस्वास्थ्यविषये जागरूकः तिष्ठतु इति मे अनुरोधः।
भवतः अग्रजा
अमिता

5. सन्तुलितभोजनमेव सेवनीयम् इति वर्णयतः अग्रजस्य अनुजां प्रति पत्रम् लिखत-

परीक्षाभवनतः
दिनाङ्क: 02.10.20xx

प्रिय अनुजा
शुभाशीषो लसन्तु
पिता लिखित पत्र प्राप्तम्। तेन मया ज्ञातम् यत् भवान् सन्तुलित भोजन व खादतिः प्रतिदिनं च इडली वडा, चाऊमीन, बर्गर इति खादति। ईदशं भोजनम् स्वास्थ्याय सम्यक् न अस्ति। स्वास्थ्यस्य रक्षायै वयम् प्रतिदिनं सन्तुलित भोजन मेव वसवेनीयम्। सेवनं कुर्याम। स्वास्थ्य-वर्धकानि खाद्यानि एव खादेयुः मुहर्मुहुः न खादेयुः। भोजने फलानि, हरितानि शाकानि च खादितव्यम्। सन्तुलितभोजनात् शरीरं स्वस्थम् भवति। अस्थीति दृढ़तरा भवन्ति मनोजः सम्यक् रक्त, सञ्चारं भवति। चित्तं च प्रसन्नम् आगता अतएव वयम् सन्तुलित भोजनेय खादितव्यम्। शेषसर्वे कुशलम्। पितृक्योः चरणयोः चरणवन्दना।

6. प्रतियोगिपरीक्षायाः सन्नद्धीकरणाय आरम्भतः एव सामान्यज्ञानस्य अभ्यासः करणीयः इति उपादिशता पित्रा पुत्र प्रति पत्रम्।

जयपुरतः
दिनाङ्क: 15.04.20xx

प्रिय पुत्र अविनाश!
शुभाशिषो लसन्तु
आशासे त्वं सकुशलः स्वाध्याये रतः असि। पुत्र! अहं जानामि परीक्षायां तव प्रस्तुतिः शोभना भवति। त्वं प्रतिवर्ष कक्षायां प्रथम स्थान प्राप्नोषि इति अहं जानामि। ग्रीष्मावकाशे त्वं कथितवान् यत् तव लक्ष्य प्रतियोगिपरीक्षामुत्तीर्य सङ्घलोकसेवा आयोगक्षेत्रे सेवाप्रदानम् अस्ति। पुत्र! एतल्लक्ष्य प्राप्तुं बाल्यकालादेव सामान्यज्ञानस्य अध्ययनं करणीयम्। अत एव विषयस्य अभ्यासेन समम् एकहोरापर्यन्तं सामान्यज्ञानं वर्धयितुं प्रतिदिनं समाचारपत्रं पठ यदि अधुनातः एतल्लक्ष्य प्राप्तुं नियमितम् अध्ययनं करिष्यसि नूनमेव साफल्यं लप्स्यसे। यदि काऽपि सहायता अपेक्षिता तर्हि अहम् करिष्यामि।
तव जनकः
आशीष कुमारः

7. जीवने सफलता लब्धं परिश्रमस्य महत्त्वं वर्णयन्त्याः मातुः पुत्रीं प्रति पत्रम् पूरयत-

कानपुरतः
दिनाङ्क: 05.09.20xx

प्रिय पुत्रि!
शुभाशीषोलसन्तु
अत्र सर्वं कुशलम् तत्रास्तु। तव प्रधानाचार्यायाः पत्रेण ज्ञातम् यत् त्वं नवमी-कक्षायां विद्यालयेषु प्रथम स्थानं लाब्धवान्। इदं समाचारं ज्ञात्वा अहम् अतिगद्गद अस्मि। भवान् परिश्रमस्य फल प्राप्तवान् आलस्यं त्यक्त्वा यथा भवान् परिश्रम कृतं तदा तु सफलता प्राप्तवान्। अस्माकं जीवन परिश्रमस्व अत्यधिक महत्त्वम् वर्तते। विना परिश्रमेण अस्माकं जीवनं निष्फलाः भवन्ति। अतएव त्वं निश्चयं कुर्याः यत् अग्रिमकक्षायाम् अधिक अंकम्प्राप्तुम् परिश्रमम् करिष्यति। यदि अधुनातः एतत्लक्षयं प्राप्तुम नियमित अध्ययनं करिष्यसि नूनम् एव साफल्यं लपस्यसे। यदि काऽपि सहायता अपेक्षिता तर्हि अहम् करिष्यामि। शेष कुशलम् अस्ति।

8. स्वदेशस्य संस्कृति वर्णयन्त्याः सख्याः विदेशिनी सखीं प्रति पत्र लिखत-

परीक्षाभवनत:
दिनाङ्क: 02.03.20xx

प्रिय सखी
सप्रेम नमोनमः
अत्र कुशलम् तत्रास्तु। अस्मिन् पत्रे अहं त्वाम् स्वदेशस्य संस्कृति विषये वर्णितुम् इच्छामि। अस्माकं संस्कृतिः प्राचीनतमा अस्ति। संस्कृतस्य साहित्यमपि संसारे सर्वेषाम् साहित्यानां प्राचीनतमम् अस्ति। संस्कृते लिखिता: वेदाः उपनिषदाः पुराणानि च हिन्दूनाम अनेके धार्मिकाः ग्रन्थाः सन्ति। संस्कृते एव वाल्मीके रामायणम् वेदव्यासस्य महाभारतं चापि परयामः भारते अनेके कवयः अभवन् ये नाटकानि काव्यानि च संस्कृत भाषायां अलिखन्। आशासे त्वम् अपि स्वदेशस्य संस्कृति विषये किञ्चित् लेखिष्यासि।
भवतः मित्रम्
निरंजन

9. ‘पुत्रीं रक्ष पुत्री पाठय’ इति अभियानं कथं सार्थक भविष्यतीति स्वविचारं प्रकटयन् मित्रं प्रति पत्रं लिखत-

परीक्षाभवनतः
दिनाङ्कः 28.03.20xx

प्रिय मित्र
सप्रेम नमोनमः
अत्र कुशल तत्र अस्तु। भवतं पत्रं पठित्वा अतीव प्रसन्नताम् अनुभवामि, यत् भवान् मित्रैः ‘पुत्रीं रक्ष पुत्री पाठय’ प्रचार कार्ये रतोऽस्ति। एषः तु उत्तमः प्रयासः अस्ति। सम्माननीय प्रधानमन्त्रिणा श्रीमोदी सञ्चालितम् एतत् अभियानं कन्याना संरक्षणार्थे सम्पूर्ण देशे प्रचलाति इदम् अभियानं देशाय अति लाभकरं वर्तते। अनने देशे कन्यानाम् संख्याम् वृद्धिः अभवत्। अनेन अभियानेन नारी प्रति सम्मानम् वधिष्यति। शेषं सर्वं कुशलम्। पितृभ्यां चरणयोः चरणवन्दना।
भवतः मित्रम्
सोमेशः

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 1 अपठितावबोधनम्

We have given detailed NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 1 अपठितावबोधनम् Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 1 अपठितावबोधनम्

अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-

1. धात्रीफलं सर्वेषु ऋतुषु लाभदायकं भवति। धात्रीफलम् ‘आमलकम्’ इत्यपि कथ्यते। शरीरस्य स्वास्थ्यरक्षणाय फलस्यास्य प्रयोगः अवश्यमेव कर्त्तव्यः। इंद फल नेत्रयोः ज्योतिवर्धनाय, केशानां सौन्दर्यवृद्धये, त्वचः कान्तिवर्धनाय च बहूपयोगि भवति। सामान्यतया अस्य प्रयोगः अवलेहरूपेण, उपदंशरूपेण च भवति। इदं रक्तकोशिकानिर्माणे अपि सहायकं भवति। अस्य सेवनेन शरीरे रक्ताल्पता न भवति। ग्रीष्मर्ती फलमिदं शरीरस्य तापम् अपनयति। अस्य नियमितसेवनेने स्मरणशक्तिरपि वर्धते। प्राचीनकाले कार्तिकमासस्य नवम्यां तिथौ छात्रीवृक्षस्य अधः सहभोजस्य अपि परम्परा आसीत्। केषुचित् स्थलेषु अधुना अपि एषा परम्परा परिपाल्यते। वृक्षस्य अधः भोजनं पच्यते चेत् भोजनं सुस्वादु स्वास्थ्यवर्धकं च भवतीति अस्माकं पूर्वजानां चिन्तनमासीत्। एतदतिरिच्य सहभोजनेन प्रेम्णः भावोऽपि जागर्ति वर्धते च इत्यपि जनाः आमनन्ति। सर्वतोऽधिकं परम्परेयं धात्रीफलस्य महिमानं प्रकटीकरोति।

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरत-

(क) धात्रीफलं कदा लाभदायकं भवति?
उत्तरम्:
सर्वऋतुषु

(ख) धात्रीफलस्य अपरं नाम किम्?
उत्तरम्:
आमलकम्

(ग) धात्रीफलं कस्मिन् सहायकं भवति?
उत्तरम्:
रक्तकोशिकानिर्माणे

(घ) सहभोजनेन कीदृशः भावः जागर्ति?
उत्तरम्:
प्रेम्णः

प्रश्न 2.
पूर्णवाक्येन उत्तरत-

(क) धात्रीफलं कथं बहूपयोगि अस्ति?
उत्तरम्:
धात्रीफलं नेत्रयो: ज्योतिवर्धनाय, केशानां सौन्दर्यवृद्धये, त्वचः कान्तिवर्धनाय च बहूपयोगि भवति।

(ख) प्राचीनकाले कीदृशी परम्परा आसीत्?
उत्तरम्:
प्राचीनकाले कार्तिकमासस्य नवम्यां तिथौ धात्रीवृक्षस्य अधः सहभोजस्य अपि परम्परा आसीत्।

प्रश्न 3.
यथानिर्देशं प्रश्नान् उत्तरत-

(क) ‘सर्वेषु ऋतुषु’ इत्यनयोः पदयोः किं विशेषणपदम्?
उत्तरम्:
सर्वेषु

(ख) ‘क्षीयते’ इति क्रियापदस्य विलामपदं गद्यांशात् चित्वा लिखत।
उत्तरम्:
वर्धते

(ग) ‘स्नेहस्य’ इति पदस्य कृते गद्यांशे किं पदं प्रयुक्तम्?
उत्तरम्:
प्रेम्णः

(घ) ‘अस्य सेवनेन शरीरे रक्ताल्पता न भवति’ इत्यस्मिन् वाक्ये ‘अस्य’ इति सर्वनामपद कस्मै प्रयुक्तम्?
उत्तरम्:
धात्रीफलम्

प्रश्न 4.
अनुच्छेदस्यास्य कृते समुचितं शीर्षकं लिखत।
उत्तरम्:
धात्रीफलम् महिमा

2. महान् स्वतन्त्रतासेनानी स्वतन्त्रभारतस्य प्रथमः उपप्रधानमंत्री गृहमन्त्री च लौहपुरुषः सरदार-वल्लभभाईपटेलमहोदयः 1875 तमे वर्षे अक्तूबरमासस्य एकत्रिंशत् तारिकाया जन्म अलभत्। प्रान्तानाम् एकीकरणे केन्द्रीयां भूमिका निर्वहन पटेलमहोदयः अद्यापि सर्वेषां भारतवासिना श्रद्धाभाजनः। पटेलमहोदयं प्रति कृतज्ञता प्रकटयितुं गुजरातप्रान्तस्य तत्कालीनः मुख्यमंत्री नरेन्द्रमोदीमहोदयः 2013 तमे वर्षे अक्तूबरमासस्य एकत्रिंशत् तारिकायां तस्य मूर्तेः शिलान्यासं कृतवान्। अस्याः विशालकायायाः मूर्तेः निर्माणे पञ्च वर्षाणां कालः उपयुक्तः। तस्यैव जन्मदिवसे अक्तूबरमासस्य एकत्रिंशत् दिनाङ्क एव भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदीमहोदयेन मूर्तिरियं राष्ट्राय समर्पिता। इयं प्रतिमा एकतायाः मूर्तिः (स्टैच्यू ऑफ़ युनिटी) इति नाम्ना ख्याता अस्ति। इदं स्मारकं सरदारसरोवरबन्धतः प्रायशः त्रिकिलोमीटरमितं दूरे साधूबेरनामके उपद्वीपे स्थितमस्ति। अस्याः प्रतिमायाः उच्चता द्वयशीत्यधिकशमीटरमितम् (182 मी./597 फीट) अस्ति। इयं विश्वस्य उच्चतमा मूर्तिः अस्ति। मूर्तिः उच्चता पटेलमहोदयस्य व्यक्तित्वस्य कृतित्वस्य च उच्चतायाः सूचिका वर्तते।

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरत-

(क) भारतस्य प्रथमः उपप्रधानमन्त्री गृहमन्त्री च कः आसीत्?
उत्तरम्:
सरदार-वल्लभभाईपटेलमहोदयः

(ख) पटेलमहोदयः कस्मिन् केन्द्रीयां भूमिका निर्वाहितवान्?
उत्तरम्:
प्रान्तानाम् एकीकरणे

(ग) नरेन्द्रमोदीमहोदयेन मूर्तिः कस्मै समर्पिता?
उत्तरम्:
राष्ट्राय

(घ) पटेलमहोदयस्य प्रतिमा केन नाम्ना ख्याता?
उत्तरम्:
एकतायाः मूर्तिः

प्रश्न 2.
पूर्णवाक्येन उत्तरत-

(क) कः सर्वेषां भारतीयानां श्रद्धाभाजन:?
उत्तरम्:
सरदार-वल्लभभाई पटेलमहोदयः प्रान्तानाम् एकीकरणे केन्द्रीयां भूमिका निर्वहनं सर्वेषां भारतीयानां भारतवासिना श्रद्धाभाजनः।

(ख) मूर्तेः उच्चता किं सूचयति?
उत्तरम्:
मूर्ते: उच्चता पटेलमहोदयस्य व्यक्तित्वस्य कृतित्वस्य च उच्चतायाः सूचयाति।

प्रश्न 3.
यथानिर्देशं प्रश्नान् उत्तरत-

(क) ‘केन्द्रीयां भूमिकाम्’ इत्यनयोः पदयोः किं विशेष्यपदम्?
उत्तरम्:
भूमिकाम्

(ख) ‘तस्यैव जन्मदिवसे ………… समर्पिता’? इत्यस्मिन् वाक्ये तस्य इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तरम्:
पटेलमहोदयाय

(ग) ‘समीपे’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।
उत्तरम्:
दूरे

(घ) ‘महान् स्वतन्त्रतासेनानी जन्म अलभत’ इत्यस्मिन् वाक्ये किं क्रियापदम्?
उत्तरम्:
अलभत

प्रश्न 4.
अनुच्छेदस्यास्य कृते समुचितं शीर्षक लिखत।
उत्तरम्:
लौहपुरुषः सरदार-वल्लभभाईपटेलमहोदयः

3. जयदेवः वेदशास्त्रज्ञः सदाचारी वयोवृद्धः च आसीत्। तस्य पुत्रः धनेशः अस्ति। धनेशस्य सर्वाणि कार्याणि परिश्रमेण एव सिध्यन्ति। सफलता परिश्रमिणः पुरुषस्य चरणौ चम्बति। विद्यार्थी परिश्रमेण ज्ञानं लभते, धनार्थी चापि परिश्रमेण एव धनं प्राप्नोति। शक्तेः प्राप्तये अपि परिश्रमः आवश्यकः। ‘उद्योगिनं पुरुष सिंहमुपैति लक्ष्मीः’ इति उक्तिः स्पष्ट व्यनक्ति यत् धनस्य देवी लक्ष्मीः उद्योगिनं पुरुषं प्रति गच्छति। अत एव साफल्यं लब्धं परिश्रमम् अवश्यं करणीयम्। अत्यधिकः मेधावी अपि यदि सततं पठनाभ्यास न करोति तदा असफलः भवति, परं सामान्यमेधासम्पन्नः अपि अध्ययनशीलः छात्रः सफलतायाः उच्चशिखरं प्राप्नोति-“उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः’ इति प्राचीनोक्तिः सदैव स्मारयति-कर्मसहचरी इच्छा एव साकाररूपताम् एति। श्रीमद्भगवद्गीता अपि कर्मणः महत्त्वं स्मारयति। अत एव छात्राः सर्वदा परिश्रमस्य अवलम्बनं कुर्वन्तु, भागयस्यशरणं मा गच्छन्तु।

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरत-

(क) साफल्यं लब्धं किं करणीयम्?
उत्तरम्:
परिश्रमम्

(ख) सर्वाणि कार्याणि केन सिध्यन्ति?
उत्तरम्:
परिश्रमेण

(ग) कः असफलः भवति?
उत्तरम्:
आलसी

(घ) अध्ययनशीलः छात्रः किं प्राप्नोति?
उत्तरम्:
सफलता

प्रश्न 2.
पूर्णवाक्येन उत्तरत-

(क) ‘उद्यमेनैव ………………. मनोरथैः’ इति उक्तिः किं स्मारयति?
उत्तरम्:
कर्मसहचरी इच्छा एव साकाररूपताम् एति।

(ख) धनस्य देवी के प्रति गच्छति?
उत्तरम्:
धनस्य देवी उद्योगिनं पुरुषं प्रति गच्छति।

प्रश्न 3.
यथानिर्देशं प्रश्नान् उत्तरत-

(क) ‘परिश्रमस्य अवलम्बनं कुर्वन्तु’ इति वाक्ये किं क्रियापदम्?
उत्तरम्:
कुर्वन्तु

(ख) ‘कुशाग्रबुद्धिः’ इत्यस्य समानार्थकपदं गद्यांशात् चित्वा लिखत।
उत्तरम्:
मेधावी

(ग) ‘कर्मसहचरी इच्छा’ इत्यनयोः पदयोः किं विशेषणपदम्।
उत्तरम्:
कर्मसहचरी

(घ) विद्यार्थी परिश्रमेण ज्ञानं लभते इत्यस्मिन् वाक्ये किं कर्तृपदम्?
उत्तरम्:
विद्यार्थी

प्रश्न 4.
अस्य गद्यांशस्य कृते समुचितं शीर्षकं लिखत।
उत्तरम्:
परिश्रमस्य महत्त्वम्

4. जीवनस्य मूल्यम् अर्थात् ते मानवीयगुणाः ये मानवजीवनम् उत्कर्षं प्राप्यन्ति। तेषु प्रमुखाः दया-सत्य-अहिंसा-अस्तेय-अक्रोधादयः सन्ति। मानवजीवनस्य उत्थानाय एतेषां महती आवश्यकता भवति। मनुष्यः वास्तवः मनुष्यः तदैव भवति यदा सः एतैः गुणैः सुशोभितः भवति। सर्वाङ्गीणविकासाय पुस्तकीयज्ञानेन समं नैतिकमूल्यान्यपि छात्रैः गृहीतव्यानि। बाल्यावस्थायां मूल्याना शिक्षा प्रदीयते चेत् व्यक्तित्वस्य सर्वाङ्गीणः विकासः भवति। मानवः स्वकीयं पुरुषार्थं करोति जीवनलच्यं च प्राप्नोति। भारतीयसंस्कृती आदिकालतः एव जीवनमूल्यानां प्राधान्यमस्ति। प्राचीनकालादेव भारतीयसंस्कृतेः मूल्यपरकगुणानां स्तुतिः भवति। एतैः गुणरेव भारतं विश्वगुरुपदं प्राप्नोत्। सम्प्रत्यपि पुनः तत्पदं प्राप्तुं छात्रेषु बाल्यादेव एते संस्काराः स्थापनीयाः। विद्यालयेषु अध्ययनेन सह जीवनमूल्यशिक्षायाः आवश्यकता वर्तते। प्रार्थनासभायामपि एषा शिक्षा स्वीकर्तुं शक्यते।

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरत-

(क) मानवः स्वीकार्य पुरुषार्थं कृत्वा किं प्राप्नोति?
उत्तरम्:
जीवनलक्ष्यम्

(ख) कस्य उत्थानाय दयादिगुणानां महती आवश्यकता?
उत्तरम्:
मानवजीवनस्य

(ग) सर्वाङ्गीणविकासाय केन समं नैतिकमूल्यान्यपि गृहीतव्यानि?
उत्तरम्:
पुस्तकीयज्ञानेन

(घ) केषु बाल्यादेव एते संस्काराः स्थापनीयाः?
उत्तरम्:
छात्रेषु

प्रश्न 2.
पूर्णवाक्येन उत्तरत-

(क) मनुष्यः वास्तवः मनुष्य: कैगुणैः भवति?
उत्तरम्:
यदा सः दया-सत्य-अहिंसा-अस्तेय-अक्रोधादयः एतैः गुणैः सुशोभितः भवति।

(ख) प्राचीनकालादेव भारतं विश्वगुरुपदं कथं प्राप्नोत्?
उत्तरम्:
प्राचीनकालादेव भारतं विश्वगुरुपदं भारतीय संस्कृतेः मूल्यपरक गुणैः प्राप्नोत्।

प्रश्न 3.
यथानिर्देशं प्रश्नान् उत्तरत-

(क) ‘सर्वाङ्गीण विकास’ अत्र विशेषणपदं किम्?
उत्तरम्:
सर्वाङ्गीण।

(ख) ‘भारत विश्वगुरुपदं प्राप्नोत्’ अत्र प्राप्नोत् इति क्रियापदस्य कर्तृपदं किम्?
उत्तरम्:
भारतं

(ग) गद्यांशे ‘सज्जितः’ इति पदस्य कृते पर्यायपदं किं प्रयुक्तम्?
उत्तरम्:
सुशोभितः

(घ) ‘मानवजीवनस्य उत्थानाय एतेषां महती आवश्यकता भवति’ अत्र ‘एतेषां’ सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तरम्:
जीवनस्य मूल्यम् / मानवीयगुणाः

प्रश्न 4.
अस्य गद्यांशस्य उचितं शीर्षकं लिखत-
उत्तरम्:
जीवनमूल्यशिक्षायाः महत्वम्

5. एकस्मिन् विद्यालये नवमकक्षायाः छात्रेषु अकिञ्चनः इति नामा एकः छात्रः आसीत्। कक्षायाः सर्वे छात्राः सम्पन्नपरिवारेभ्यः आसन्, परन्तु अकिञ्चनस्य पिता एकस्मिन् कार्यालये चतुर्थ श्रेण्याः कर्मकरः आसीत्। इतरान् सम्पन्नान् छात्रान् दृष्ट्वा प्रायः अकिञ्चनस्य मनसि हीनभावना प्राविशत्। सः अचिन्तयत् एतेषां सहपाठिनां जीवन धन्यम् अस्ति। धिक् मम अभावपूर्ण जीवनम्। मम सहपाठिना जीवन पर्वतस्य इव उच्चम् मम च जीवन धूलिवत् निम्नम्। यदा सः एवं चिन्तयति स्म तदैव वैभवः तम् अवदत् भोः मित्र! अहं त्वत्तः गणितं पठितुम् इच्छामि। किं त्वम् अद्य सायङ्काले मम गृहम् आगन्तुं शक्नोषि। अकिञ्चनः वैभवस्य आमन्त्रणं स्वीकृत्य सायङ्काले यदा तस्य गृहम् अगच्छत् तदा सः अपश्यत् यत् वैभवस्य गृहे मातापितरौ अनुपस्थिती आस्ताम्। वैभवः तस्मै असूचयत् यत् रात्रौ विलम्बेन एव तौ गृहम् आगच्छतः। वैभवस्य विषादपूर्ण जीवनं दृष्ट्वा अकिञ्चनः अबोधयत् यत् तस्य गृहे मातापित्रोः अधिकसान्निध्येन तस्य एव जीवनं वरम् न तु वैभवस्य। सत्यमेवास्ति-दूरतः पर्वताः रम्याः। इति

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरत-
(क) अकिञ्चनस्य कक्षायाः अन्ये छात्राः कीदृश-परिवारेभ्यः आसन्?
उत्तरम्:
सम्पन्नपरिवारेभ्यः

(ख) अकिञ्चनस्य मनसि किम् प्राविशत्?
उत्तरम्:
हीनभावना

प्रश्न 2.
पूर्णवाक्येन उत्तरत-

(क) अकिञ्चनस्य पिता कः आसीत्?
उत्तरम्:
अकिञ्चनस्य पिता एकस्मिन् कार्यालये चतुर्थ श्रेण्याः कर्मकरः आसीत्।

(ख) अकिञ्चनः हीनभावनया किम् अचिन्तयत्?
उत्तरम्:
सः अचिन्तयत् एतेषां सहपाठिनां जीवन धन्यम् अस्ति। धिक् मम अभावपूर्ण जीवनम्।

प्रश्न 3.
यथानिर्देशं प्रश्नान् उत्तरत-

(क) ‘सम्पन्नान्’ इति पदस्य विशेष्यपदं किम् अस्ति?
उत्तरम्:
छात्रान्

(ख) ‘आस्ताम्’ इति पदस्य कर्तृपदं किम् अस्ति?
उत्तरम्:
मातापितरौ

(ग) ‘निकटतः’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
उत्तरम्:
दूरतः

(घ) ‘वैभवः तम् अवदत्’ इति वाक्यांशे ‘तम्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तरम्:
अकिञ्चनाय

प्रश्न 4.
गद्यांश पठित्वा यथोचित शीर्षकं लिखत-
उत्तरम्:
दूरतः पर्वताः रम्याः

6. विधात्रा निर्मिता इयं सृष्टिः अतीव सौन्दर्यमयी। प्रकृतेः शोभा वस्तुतः अतीव आह्वावकारी, परं निरन्तरं विकासशीलैः मानवैः विकासेन सह प्रदूषणमपि वर्धित येनास्माकमेव स्वास्थ्यहानिः भवति। वायुप्रदूषणम्, ध्वनिप्रदूषणम्, जलप्रदूणयम् एतत् त्रिविधं प्रदूषणमेव मुख्यतया सर्व वातावरणम् आकुलीकरोति। वायुप्रदूषणेन श्वासग्रहणे काहिन्यं वर्धते। एतत् सर्वेषां स्वास्थ्याय हानिकर सिध्यति। ध्वनिप्रदूषणं मार्गेषु वाहनाना ‘पों पों’ इति शृङ्गवादनेन, ध्वनिविस्तारकयन्त्रैश्चापि, भवति। अनेन श्रवणशक्तेः हानिर्भवति। प्रदूषितजलोपयोगः तु सर्वेषां व्याधीनां मूलभूतमेव।
तस्मादस्माकं सर्वेषामेव कर्तव्यमिदं यदत्रतत्रसर्वत्र अवकररहितस्य वातावरणस्य निर्माणं वयं कुर्याम, येन वायुप्रदूषणम् अस्माकं स्वास्थ्यं नाशयितुं सक्षम न भवेत्। तथैव ध्वनिप्रदूषण जलप्रदूषणञ्चापि रोद्धम् वयं सर्वे मिलित्वैव प्रयासं कृत्वा-सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः इति भावनां बलं प्राप्नुयाम्।

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरत-

(क) मुख्यतया प्रदूषणं कतिविधं भवति?
उत्तरम्:
त्रिविधं

(ख) ध्वनिप्रदूषणेन कस्याः हानिः भवति
उत्तरम्:
श्रावणशक्तेः

(ग) केन निर्मिता इयं सृष्टिः अतीव सौन्दर्यमयी?
उत्तरम्:
विधात्रा

(घ) सर्वैः मिलित्वा प्रदूषणावरोधाय किम् विधेयम्?
उत्तरम्:
प्रयासम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत-

(क) अद्यत्वे अस्माकं स्वास्थ्यहानिः कथं भवति?
उत्तरम्:
विकासशीलैः मानवैः विकासेन सह प्रदूषणमपि वर्धितं येन अस्माकम् एव स्वास्थ्य हानिः भवति।

(ख) वयं मिलित्वा का भावनां बलं प्राप्नुयाम्?
उत्तरम्:
वयं मिलित्वैव प्रयासं कृत्वा-सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः इति भावनां बलं प्राप्नुयाम।

प्रश्न 3.
यथानिर्देशं प्रश्नान् उत्तरत-

(क) सततम्/अनवरतम् इत्यर्थ किं पदम् अनुच्छेदं प्रयुक्तम्?
उत्तरम्:
निरन्तरं

(ख) ‘क्षीयते’ इति पदस्य विपरीतार्थकं पदम् अनुच्छेदात् चित्वा लिखत।
उत्तरम्:
वर्धते

(ग) ‘सौन्दर्यमयी सृष्टिः’ अत्र विशेष्यपदं किम्?
उत्तरम्:
सृष्टिः

(घ) ‘विकासेन सह प्रदूषणमपि वर्धितम् येन स्वास्थ्यहानिः भवति’ अत्र ‘भवति’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तरम्:
येनास्माकमेव / येन

प्रश्न 4.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
उत्तरम्:
प्रदूषणम्

7. अद्यत्वे यत्र तत्र सर्वत्र वयं पश्यामः यत् उष्णतायाः प्रभावः दिनानुदिनं वर्धते। जनप्सङ्ख्यावृद्धेः कारणात् भवनानां निर्माणस्य आवश्यकता वृद्धिमाप्नोति। एतस्मात् कारणात् वृक्षाः कर्त्यन्ते, वनानि क्षेत्राणि चाऽपि विनाश्यन्ते, अनेन पर्यावरणे असन्तुलनात् वैश्विकी उष्णता वर्धते। जीवाश्मेन्धनस्य ज्वालनेन विषाक्तवायूनाम् उत्सर्जने वृद्धिर्जायते। यतः सौरविकिरणं भूमेः वातावरणे निबद्ध इव तिष्ठति, तापमानं च निरन्तरं वर्धमानम् एवास्ति। एतादृश्याः स्थितेः निराकरणाय अनियन्त्रितम् औद्योगीकरण निवारणीयम्। एतदेव वस्तुत सम्पूर्ण विश्वस्य कृते समस्याम् उत्पादयति। अतः सर्वैः मिलित्वैव स्थितेः संशोधनाय प्रयासः करणीयः। एतदर्थम् नेत्रयोः ऊर्जार्थम् उपायान्वेषणं करणीयं, सामान्यविद्युदपेक्षया पवनोर्जसं, सौरोजसं प्रति च ध्यान दातव्यम्। वृक्षकर्तनमवरुध्य अधिकाधिकं वृक्षारोपणं कृत्वा वनसंरक्षणं प्रत्यपि ध्यानं दातव्यम्।

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरत-

(क) कस्य ज्वालनेन विषाक्तवायूनाम् उत्सर्जने वृद्धिर्जायते?
उत्तरम्:
जीवाश्मेन्धनस्य

(ख) कीदृशम् औद्योगीकरण निवारणीयम्?
उत्तरम्:
अनियन्त्रिम्

(ग) कस्मिन् असन्तुलनात् वैश्विकी उष्णता वर्धते?
उत्तरम्:
पर्यावरणअसन्तुलनात्

(घ) वृक्षारोपणं कृत्वा किं प्रत्यपि ध्यानं दातव्यम्?
उत्तरम्:
वनसंरक्षणं

प्रश्न 2.
पूर्णवाक्येन उत्तरत-

(क) वैश्विकी उष्णता कथं वर्धते?
उत्तरम्:
जनसंख्यावृद्धेः कारणात् भावनानां निर्माणाय वृक्षाः कर्त्यन्ते, वजनानि क्षेत्राणि चाऽपि विनाश्यन्ते। अनेन पर्यावरण असन्तुलनात् वैश्विकी उष्णता वर्धते।

(ख) वैश्विकोष्णतायाः स्थिते: संशोधनाय ऊर्जसं प्रति कथं ध्यानं दातव्यम्?
उत्तरम्:
वृक्षकर्तनमवरुध्य अधिकाधिकं वृक्षारोपणं कृत्वा वनसंरक्षणं प्रति ध्यानं दातव्यम्।

प्रश्न 3.
यथानिर्देशं प्रश्नान् उत्तरत-

(क) ‘दूरीकरणाय’ अस्य कृते किं पदम् अनुच्छेदे प्रयुक्तम्?
उत्तरप:
निराकरणाय

(ख) ‘वृक्षकर्तनम्’ इति पदस्य विपरीतार्थकपदम् अनुच्छेदात् चित्वा लिखत।
उत्तरम्:
वृक्षारोपणं

(ग) ‘उष्णतायाः प्रभावः दिनानुदिनं वर्धते’ अस्मिन् वाक्ये ‘वर्धते’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तरम्:
उष्णतायाः प्रभावः

(घ) ‘अनियन्त्रितम्’ औद्योगीकरणम्’ अत्र विशेषणपदं किम्?
उत्तरम्:
अनियन्त्रितम्

प्रश्न 4.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षक लिखत-
उत्तरम्:
उष्णतायाः प्रभाव:

8. मानवः विकासशीलः। वयं पश्यामः यत् अस्माकं देशस्य जनसङ्ख्या सुरसामुखमिव सततं प्रवर्धमाना अस्ति। अस्मात् कारणात् प्रचुरनिवास-स्थानानाम् आवश्यकता अनुभूयते। एतत्कृते सततविकासे रतः मानवः नवीनाविष्कारपरम्परायां लघुस्थाने बहुभूमिकाभवनानां निर्माणं कृतवान्। एतादृशेषु भवनेषु विविधानि तलानि भवन्ति येषु अधिकाधिकपरिवारेभ्यः निवासव्यस्था कतुं शक्यते। अत्र उन्नयनयन्त्रेण (लिफ़्ट इति अनेन) उपरिगमनम् अधः आगमनं च अतीव सकर भवति। अत एव जनाः एतादृशानि भवनानि प्रति आकृष्टाः भवन्ति। अद्यत्वे नगरेषु महानगररेषु च बहुभूमिकभवनानां प्रचलनमेव वर्तते। एतेषां भवनानां परिसरे एव देवालयः, तरणतालः, समाजसदन, ‘जिम’ इति व्यायामस्थानाम्, उद्यानम् इत्यादीनि उपयोगीनि सुविधाप्रदायकसाधनानि अपि भवन्ति। अतिशोभनमेतत् सर्व पर विकास प्रति अन्धधावनशीलः मानवः प्रकृतेः उपेक्षा करोति इति अनुचितं प्रतीयते। अस्माभिः प्रकृतिमातुः संरक्षणपूर्वकं विकासस्य दिशि प्रयतितव्यम्।

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरत-

(क) जनसङ्ख्या कथम् वर्धते?
उत्तरम्:
सुरसामुखमिव

(ख) बहुभूमिक-भवनेषु उपरिगमनम् अधः आगमनं केन सुकरं भवति?
उत्तरम्:
उन्नयनयन्त्रण

(ग) विकासं प्रति अन्धधावनशील: मानवः कस्याः उपेक्षां करोति?
उत्तरम्:
प्रकृतेः

(घ) नगरेषु महानगरेषु च केषां प्रचलनं वर्तते?
उत्तरम्:
बहुभूमिकभवनानां

प्रश्न 2.
पूर्णवाक्येन उत्तरत-

(क) प्रचुरनिवासस्थानस्य कृते मानवः किं कृतवान्?
उत्तरम्:
एतत्कृते मानव: नवीनाविष्कारपरम्परायां लघुस्थाने बहुभूमिकाभवनानां निर्माण कृतवान्।

(ख) बहुभूमिकभवनानां परिसरे कानि सुविधासाधनानि भवन्ति?
उत्तरम्:
एतादृशेषु भवनेषु विविधानि तलानि भवन्ति येषु अधिकाधिकपरिवारेभ्यः निवासव्यवस्था कर्तुम् शक्यते।

प्रश्न 3.
यथानिर्देशं प्रश्नान् उत्तरत-

(क) ‘मानवः बहुभूमिकभवानानां निर्माणं कृतवान्’-अत्र किं क्रियापदम्?
उत्तरम्:
कृतवान्

(ख) ‘एतादृशानि भवनानि’-अनयोः पदयोः किं विशेष्यपदम्?
उत्तरम्:
भवनानि

(ग) ‘अद्यत्वे बहुभूमिकभवनानां प्रचलनं वर्तते’- अत्र किम् अव्ययपदम्?
उत्तरम्:
अद्यत्वे

(घ) ‘उचितम्’-इति पदस्य किं विपरीतार्थकं पदम् अनुच्छेदे प्रयुक्तम्?
उत्तरम्:
अनुचितम्

प्रश्न 4.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
उत्तरम्:
प्रकृतेः संरक्षणम् / अस्माकं प्रकृतिः / प्रकृतिः