Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 10 समय:

We have given detailed NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 10 समय: Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 10 समय:

अभ्यासः

प्रश्न 1.
अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
द्वितलीयरेलवाहनं ___________ (10:15) वादने जयपुरं प्राप्नोति।
द्वितयीयरेलवाहनं सपाददशवादने जयपुरं प्राप्नोति।
(i) पुरुषोत्तम-एक्सप्रेस इति रेलयानं ___________ (9:30) वादने पुरीतः प्रस्थानं करोति।
(ii) चेतक-एक्सप्रेस इति रेलयानं ___________ (4:45) वादने दिल्लीम् आगच्छति।
(iii) हावड़ा-एक्सप्रेस ___________ (11:00) वादने हावडास्थानकं प्राप्नोति।
(iv) रेलयानमेकं ___________ (8:15) उत्तराञ्चलं प्रति गच्छति।
उत्तरम्:
(i) सार्धनव
(ii) पादोनपञ्च
(iii) एकादश
(iv) सपादाष्टवादने

प्रश्न 2.
अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
माता प्रातः ___________ (5.00) वादने उत्तिष्ठति।
माता प्रातः पञ्चवादने उत्तिठति।
(i) राहुलः प्रातभ्रमणाय ___________ (6:15) वादने उद्यानं गच्छति।
(ii) मल्लिका ___________ (7:30) वादने प्रातराशं करोति।
(iii) अनन्या ___________ (5:45) वादने क्रीडति।
(iv) सर्वे ___________ (10:00) वादने शयनं कुर्वन्ति।
उत्तरम्:
(i) सवादषड्
(ii) सार्धसप्त
(iii) पदोनषड्
(iv) दश

प्रश्न 3.
अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
प्रातः ___________ (7.00) वादनतः ___________ (7.45) वादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।
उत्तरम्:
सप्त, पादोनाष्ट
प्रातः सप्तवादनतः पादोनाष्टवादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।

(i) ___________ (8:15) वादनतः ___________ (9:00) वादनपर्यन्तं विज्ञानविषस्य कालांशः भवित।
(ii) वयं ___________ (9:00) वादनतः ___________ (9:45) वादनपर्यन्तं गणितविषयं पठामः।
(iii) ___________ (2:45) वादनतः ___________ (3:30) वादनपर्यन्तं हिन्दीभाषाकालांशः भवति।
(iv) सस्कृतशिक्षक: ___________ (10:15) वादने अध्यापयति।
उत्तरम्:
(i) सपादाष्ट, नव
(ii) नव, पादोन-दश
(iii) पादोन-त्रि, सार्धत्रि
(iv) सपाद-दश

प्रश्न 4.
अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
छात्रः ___________ (5.00) वादने उत्तिष्ठति ___________ (6.15) वादने व्यायाम करोति।
छात्रः पञ्चवादने उत्तिष्ठति सपादषड्वादने व्यायाम करोति।
(i) छात्रः ___________ (7:30) वादने प्रातरांश कृत्वा ___________ (9:45) वादने विद्यालयं गच्छति।
(ii) ___________ (4:00) वादने गृहमागत्य ___________ (4:30) वादनपर्यन्तं विश्रामं करोतिः।
(iii) ___________ (5:00) वादने भोजनं कृत्वा ___________ (9:30) वादनपर्यन्तं अध्ययनं करोति।
(iv) रात्रौः ___________ (9:45) वादनतः ___________ (5:00) वादनपर्यन्तं शयनं करोति।
उत्तरम्:
(i) सार्धसप्त, पादोन दश
(ii) चतुर्, सार्धचतुर्
(iii) पञ्च, सार्धनव
(iv) पादोन दश, पञ्च

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि

We have given detailed NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि

अभ्यासः

प्रश्न 1.
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

(i) एकदा तस्य माया पितृाहिं प्रति चलिता – अव्ययपदानि
(ii) भवान् कुतः भयात् पलायित् – _______________
(iii) तत्र गम्यताम्। – _______________
(iv) त्वं सत्वरं चल। – _______________
(v) तेन सदृशं न अस्ति। – _______________
(vi) गीता सुगीता च वदतः। – _______________
(vii) यदा सः पठति तदा एव शोभते। – _______________
(viii) तापसौ लवकुशौ ततः प्रविशतः। – _______________
(ix) अलम् अतिदाक्षिण्येन। – _______________
(x) अहम् अपि श्रावयामि। – _______________
उत्तरम्:
(i) एकदा, प्रति
(ii) कुतः
(iii) तत्र
(iv) सत्वरं
(v) सदृशं
(vi) च
(vii) चदा, चदा
(viii) ततः
(ix) अलग
(x) अपि

प्रश्न 2.
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि Q2
(i) मम गुरुः _______________ भगवान् वाल्मीकिः।
(ii) कः _______________ भणति?
(iii) कपिता सा _______________ वदति।
(iv) त्वं _______________ गच्छ।
(v) यूयं चापलं _______________ कुरुत।
(vi) कृषीवल: बहुवार प्रयत्नमकरोत् _______________ वृषः नोत्थितः।
(vii) कृषक: बलीव _______________ पीडयति।
(viii) बहूनि अपत्यानि मे सन्ति _______________ सत्यम्।
(ix) सर्वेषु अपत्येषु जननी तुल्यवत्सला _______________ जलोपप्लवः सञ्जातः।
उत्तरम्:
(i) ननु
(ii) उच्चैः
(iii) एवम्
(iv) तत्र
(v) मा
(vi) तथापि
(vii) बहुधा
(viii) इति
(ix) एव
(x) सर्वत्र

प्रश्न 3.
विपर्ययाव्ययपदैः सह योजयत-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि Q3
उत्तरम्:
तत्र, तथा, तथैव, तदा, तदैव, तावत्, तत्र, तर्हि

प्रश्न 4.
उचितार्थैः सह मेलनं कुरुत-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि Q4
उत्तरम्:
(i) – प्राचीनकाल में
(ii) – ज़ोर से
(iii) – निश्चय
(iv) – इस प्रकार से
(v) – सब प्रकार से
(vi) – इस प्रकार
(vii) – ही
(viii) – परंतु
(ix) – हमेशा
(x) – नहीं / मत।

प्रश्न 5.
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि Q5
(i) _________ लवः _________ कुशः।
(ii) _________ अहं कृष्णवर्णः _________ त्वं किं गौराङ्गः!
(iii) _________ गुरुः वदति _________ शिष्यः करोति।
(iv) _________ वृक्षाः _________ खगाः।
(v) _________ लता आगच्छति _________ त्वं तिष्ठ।
उत्तरम्:
(i) यथा, तथा
(ii) यदि, तर्हि
(iii) यथैव, तथैव
(iv) यत्र तत्र
(v) यावत्, तावत्

प्रश्न 6.
उदाहरणानुसारं लिखत-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि Q6
उत्तरम्:
(i) अद्य रविवासरः।
(ii) परश्वः सोमवासरः अद्य शनिवासरः।
(iii) अधुना शुष्कता श्वः जलवर्षा भविष्यति।
(iv) तयः शनिवासरः अद्य रविवासरः।
(iv) अद्य मंगलवासरः हयः सोमवासरः।

प्रश्न 7.
पर्यायाव्ययपदानि लिखत-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि Q7
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि Q7.1
उत्तरम्:
1. नूनम्
2. खलु
3. अधुना
4. इदानीम्

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया:

We have given detailed NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया: Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया:

1. अधोलिखितानि वाक्यानि पठत-

(i) बालकः पठितुं विद्यालयं गच्छति।
(ii) पठित्वा गुरुं प्रणम्य सः गृहमागच्छति।
(iii) ततः सः तर्तुम् तरणतालं गच्छति।
(iv) तस्य मित्रं व्यायामं कर्तुं व्यायामशालां गच्छति।
(v) ततः आगत्य तौ पाठान् स्मरतः।

उपरिलिखितानि रेखाङ्कितपदानि प्रत्यययुक्तानि सन्ति। भवन्तः नवकक्षायां एतान् प्रत्ययान् पठितवन्तः, अधुना तेषां पुनरभ्यासं कृत्वा एतानि अतिरिच्य कतिपयान् प्रत्ययान् पठिष्यामः।
(क) शब्दस्य धातोः वा अन्ते ये शब्दांशाः प्रयुज्यन्ते ते प्रत्ययाः भवन्ति।
(ख) प्रत्ययानां योगेन शब्दस्य अर्थः परिवर्तते।
(ग) प्रत्ययाः त्रिविधाः भवन्ति।

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 1

ध्यातव्यम् तथ्यम्-
(क) क्त्वा-तुमुन्-प्रत्यययुक्तानि पदानि अव्ययानि भवन्ति।
(ख) धातुना विशेषणं निर्मातुं, “कर्तुं योग्यम्” इत्यर्थे तव्यत्, अनीयर्, यत् प्रत्ययाः युज्यन्ते।
(ग) धातुना (क्रियया) विशेषणं निर्मातुं शतृशानचौ प्रत्ययौ प्रयुज्यते।
(घ) भूतकालिकक्रियाणां प्रयोगाय क्त-क्तवतू प्रत्ययौ प्रयुज्यते।
(ङ) अनेन गुणेन युक्त इत्यर्थे मतुप/वतुप्, ठक्, णिनि च प्रत्ययाः प्रयुज्यन्ते।
(च) भाववाचकसंज्ञा विज्ञापयितुं त्व, तल् च प्रत्ययौ प्रयुज्यते।

शत-प्रत्यय

2. अधोलिखितानि वाक्यानि ध्यानेन पठन्तु-

(i) ध्यायतः विषयान् पुंसः तेषु सङ्गः उपजायते।
(ii) गच्छन्तः यात्रिणः जल्पन्ति।
(iii) खादन् नरः न वदति।
(iv) चिन्तयन् लवः लिखति।
(v) गायन्ती बालिका प्रशंसा प्राप्नोति।
(vi) पतत् फलं त्रुट्यति (विभक्तं भवति)

उपरिलिखितेषु वाक्येषु रेखाङ्कितपदानि शतृ-प्रत्ययुक्तानि सन्ति। शतृप्रत्यययुक्तानि पदानि विशेषणानि भवन्ति। एतेषां रूपम् एवं भवति-
पठ् + शतृ – पठत्
क्रीड् + शतृ – क्रीडत्
लिख् + शतृ – लिखत्
ब्रू + शतृ – वदत्
धाव् + शतृ – धावत्
श्रु + शतृ – शृण्वित्
गम् + शतृ – गच्छत्
कृ + शतृ – कुर्वत्
भू + शतृ – भवत्
पा/पिब् + शतृ – पिबत्
नी + शतृ – नयत्

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 2
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 3

शानच्-प्रत्ययः

3. शानच्-प्रत्यययुक्तपदानि अपि विशेषणानि भवन्ति।

परस्मैपदी-धातुभिः सह शतृप्रत्ययः प्रयुज्यते। आत्मनेपदीधातुभिः सह शानच् प्रत्ययः अपि प्रयुज्यते-
सेव् + शानच – सेवमानः
मुद् + शानच – मोदमानः
रुच् + शानच् – रोचमानः
वृध् + शानच् – वर्धमानः
सह् + शानच् – सहमानः
लभ् + शानच् – लभमानः

एतेषां प्रयोगान् अधः पश्यामः
सेवमानः बालकः – सेवमानौ बालको – सेवमाना: बालकाः

एतस्य रूपाणि पुल्लिने बालकवत् भवन्ति।
सेवमाना बालिका – सेवमाने बालिके – सेवमानाः बालिकाः

एतस्य रूपं स्त्रीलिङ्गे लतावत् चलति।
लभमानं धनम् – लभमाने धने – लभमानानि धनानि
सेवमानं मित्रम् – सेवमाने मित्रे – सेवमानानि धनानि

नपुंसकलिङ्गे एतस्य रूपं फलवत् भवति।

अभ्यासः

1. शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-

(i) _______ धावकाः यशः प्राप्नुवन्ति। (धाव् + शतृ)
(ii) वस्त्राणि _______ रजकः श्रान्तः भवति। (नी + शतृ)
(iii) जलं _______ तृषार्ती सन्तुष्टौ स्तः। (पिब् + शतृ)
(iv) कथां _______ महिला शिशुं शाययति। (श्रु + शत)
(v) कार्य _______ स्रियः गीतं गायन्ति। (कृ + शत)
उत्तरम्:
(i) धावन्तः
(ii) नयन्
(iii) पिबन्तौ
(iv) शृण्वन्ती
(v) कुर्वन्त्यः

2. शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-

(i) गुरुं सेव् + शानच् ____________ छात्राः सफलतां लभन्ते।
(ii) कष्टं सह + शानच् ____________ जनाः दु:खिनः भवन्ति।
(iii) सत्यं ब्रू + शानच् ____________ नराः सम्मान प्राप्नुवन्ति।
(iv) तस्य वध + शानच ____________ प्रगतिः पितरं हृष्यति।
(v) मुद् + शानच् ____________ बालिका नृत्यति।
उत्तरम्:
(i) सेवमानाः
(ii) सहमानाः
(iii) ब्रूवाणाः
(iv) वर्धमाना
(v) मोदमाना

3. अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-

(i) कथां श्रु + शतृ महिलाः ज्ञानं लभन्ते।
शृण्वन्
शृण्वन्ती
शृण्वन्त्यः

(ii) गम् + शतृ बालिके चिन्तयतः।
गच्छन्ती
गच्छन्त्यौ
गच्छन्तौ

(iii) वद् + शतृ बालकम् आकारय।
वदन्
वदन्तौ
वदन्तम्

(iv) धाव् + शतृ क्रीडकेन पथिकः आहतः।
धावन्
धावन्तम्
धावता

(v) श्रान्तः भू + शतृ अरुणः स्वपिति।
भवन्
भवन्तौ
भवन्तः
उत्तरम्:
(i) शृण्वन्ती
(ii) गच्छन्ती
(iii) वदन्
(iv) धावन्
(v) भवन्

तव्यत्-प्रत्ययः

अधोलिखितानि वाक्यानि पठत-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 4
अत्र भवन्तः किं पश्यन्ति?
एतानि सर्वाणि वाक्यानि ‘तव्यत्’ प्रत्यययुक्तानि सन्ति।

विशेष:

  • तव्यत्-प्रत्ययस्य प्रयोगः ‘विधिलिङ्लकारस्य’ अर्थे भवति।
  • अस्य अर्थः भवति सम्भावना, अनुमतिः इत्यादयः।
  • तव्यत्-प्रत्ययस्य ‘त्’ वर्णस्य लोपः भवति ‘तव्य’ धातोः पश्चात् प्रयुज्यते।
    यथा- पठ् + तव्यत् = पठितव्य
  • प्रत्ययस्य पश्चात् अस्य रूपाणि
    Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 6
  • ‘तव्यत्’ प्रत्ययस्य प्रयोगः कर्मवाच्ये भवति-

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 5

अभ्यासः

1. रिक्तस्थानानि पूरयत-

(i) रमेण पाठः ____________। (लिख् + तव्यत्)
(ii) लतया पुष्पाणि न ____________। (त्रुट् + तव्यत्)
(iii) त्वया जलं वृथा न ____________। (कृ + तव्यत्)
(iv) त्वया उच्चैः न ____________। (वद् + तव्यत्)
(v) अस्माभिः बहिः ____________। (भ्रम् + तव्यत्)
(vi) सर्वैः सत्यं ____________। (वद् + तव्यत्)
(vii) युष्माभिः सन्तुलितभोजनम् एव ____________। (खाद् + तव्यत्)
(viii) अमितेन अवश्यमेव तत्र ____________। (गम् + तव्यत्)
(ix) नकुलेन पाठाः ____________। (पठ् + तव्यत्)
(x) तैः धर्मः ____________। (पाल् + तव्यत्)
उत्तरम्:
(i) लेखितव्यः
(ii) त्रोटितव्यानि
(iii) कर्तव्म्
(iv) वक्तव्यम्
(v) भ्रमितव्यम्
(vi) वक्तव्यम्
(vii) खादितव्यम्
(viii) गन्तव्यम्
(ix) पठितव्याः
(x) पालयितव्यः

2. कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

(i) ____________ एतत् कार्यं कर्त्तव्यम्। (अस्मद्)
(ii) ____________ खगाः रक्षणीयाः। (युष्मद्)
(iii) ____________ पाठाः पठितव्याः। (नमित)
(iv) ____________ अनुशासनं पालयितव्यम्। (सर्व)
(v) ____________ देशरक्षा कर्त्तव्या। (सैनिक)
(vi) ____________ मधुरं वक्तव्यम्। (जन)
(vii) ____________ परिश्रमः कर्त्तव्यः। (श्रमिक)
(viii) ____________ नियमाः पालयितव्याः। (अध्यापक)
(ix) ____________ मनसा पाठयितव्यम्। (शिक्षक)
(x) ____________ लेखौ लिखितव्यौ। (तत्)
उत्तरम्:
(i) मचा / अस्माभिः
(ii) त्वया / युष्माभिः
(iii) नमितेन
(iv) सर्वैः
(v) सेनिकेन / सैनिकैः
(vi) जनेन / जनैः
(vii) श्रमिकेण / श्रमिकैः
(viii) अध्यापकेन
(ix) शिक्षकेण
(x) तेन / ताभ्याम्

3. कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

(i) न्यायाधीशेन ____________ कर्त्तव्यः। (न्याय)
(ii) त्वया ____________ खादितव्यम्। (पौष्टिक भोजन)
(ii) सर्वैः प्रातः ____________ कर्त्तव्यम्। (भ्रमण)
(iv) तेन ____________ पठितव्याः। (कथा)
(v) अस्माभिः ____________ स्मर्तव्याः। (पाठ)
(vi) युष्माभिः ____________ एव सवितव्यानि। (सुचरित)
(vii) जनैः ____________ एव कर्तव्यानि। (सुकार्य)
(viii) छात्रैः ____________ प्रष्टव्याः। (प्रश्न)
(ix) बालैः ____________ न दूषयितव्यम्। (जल)
(x) यष्माभिः ____________ न त्रोटयितव्यानि। (पुष्प)
उत्तरम्:
(i) न्यायः
(ii) पौष्टिकभोजनं
(iii) भ्रमणं
(i) कथा:
(v) पाठा:
(vi) सुचरितानि
(vii) सुकार्याणि
(vii) प्रश्नाः
(ix) जलम्
(x) पुष्पाणि

अनीयर्-प्रत्ययः

1. अधोलिखितानि वाक्यानि पठत-

(i) बालैः वृद्धाः सदैव पूजनीयाः।
(ii) छात्रैः अध्यापकाः सम्माननीयाः।
(iii) अस्माभिः पितरौ पूजनीयौ।
(iv) युष्माभिः गुरूणां आज्ञा पालनीया।
(v) सर्वैः जलं रक्षणीयम्।
(vi) जनैः धरा रक्षणीया।
(vii) सर्वैः वृक्षाः आरोपणीयाः।
(viii) अस्माभिः पुष्पाणि न त्रोटनीयानि।
(ix) सर्वैः अनुशासनं पालनीयम्।
(x) सुमितेन सुचरितानि सेवितव्यानि।

उपरि यानि रेखाङ्कितानि पदानि सन्ति तानि ‘अनीयर्’ प्रत्यययुक्तानि सन्ति।

  • ‘अनीयर’ प्रत्ययस्य प्रयोगः योग्यार्थे भवति।
  • ‘अनीयर्’ प्रत्ययस्य ‘र’ वर्णस्य लोपः भवति, केवलम् ‘अनीय’ धातोः पश्चात् प्रयुज्यते।
    यथा- पठ् + अनीयर् = पठनीय।
  • धातोः पश्चात् यदा ‘अनीयर’ प्रत्ययस्य प्रयोगः भवति तदा अस्य रूपाणि-
    Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 16

‘अनीयर्’ प्रत्ययस्य प्रयोगः कर्मवाच्ये भवति।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 7

1. अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 8
उत्तरम्:
(i) आचरणीयः
(ii) करणीयः
(iii) करणीयाः
(iv) पालनीयाः
(v) पठनीयः
(vi) प्रश्न में ‘अनीयर्’ प्रत्यययुक्त पद नहीं है।
(vii) वदनीयम्
(viii) करणीयम्
(ix) पानीयम्
(x) खादनीयम्

2. अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

(i) मनसा सततं स्मरणीयम्।
(ii) वचसा सततं वदनीयम्।
(iii) लोकहितं मम करणीयम्।
(iv) न भोगभवने रमणीयम्।
(v) न सुखशयने शनीयम्।
(vi) अहर्निशं जागरणीयम्।
(vii) लोकहितं मम करणीयम्।
(viii) न जातु दु:खं गणनीयम्।
(ix) न च निजसौख्यं मननीयम्।
(x) कार्यक्षेत्रे त्वरणीयम्।
(xi) लोकहितं मम करणीयम्।
(xii) दु:खसागरे तरणीयम्।
(xiii) कष्टपर्वते चरणीयम्।
(xiv) विपत्तिविपिने भ्रमणीयम्।
(xv) लोकहितं मम करणीयम्।
(xvi) सदा मया सञ्चरणीयम्।
(xvii) लोकहितं मम करणीयम्।
उत्तरम्:
(i) स्मरणीयम्
(ii) वदनीयम्
(iii) करणीयम्
(iv) रमणीयम्
(v) शयनीयम्
(vi) जागरणीयम्
(vii) करणीयम्
(viii) गणनीयम्
(ix) मननीयम्
(x) त्वरणीयम्
(xi) करणीयम्
(xii) तरणीयम्
(xiii) चरणीयम्
(xiv) भ्रमणीयम्
(xv) करणीयम्
(xvi) सञ्चरणीयम्
(xvii) करणीयम्

3. कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

(i) युष्माभिः प्रातः उत्थाय ____________। (पठ् + अनीयर्)
(ii) जनैः सर्वदा सर्वेषां कल्याणं ____________। (कृ + अनीयर्)
(iii) अस्माभिः सुकार्याणि ____________। (कृ + अनीयर्)
(iv) सर्वैः ईशवन्दना ____________। (स्मृ + अनीयर)
(v) त्वया मधुराणि वचनानि ____________। (वद् + अनीयर)
(vi) सैनिकैः दु:खं न ____________। (गण् + अनीयर्)
(vii) अस्माभिः धर्मः ____________। (आ + चर् + अनीयर्)
(viii) त्वया वृथा न ____________। (वच् + अनीयर्)
(ix) जनैः प्रातः ____________। (जागृ + अनीयर)
उत्तरम्:
(i) पठनीयम्
(ii) करणीयम्
(iii) करणीयानि
(iv) स्मरणीया
(v) वदनीयानि
(vi) गणनीयम्
(vii) आचरणीयः
(viii) वचनीयम्
(ix) जागरणीयम्

4. उदाहरणानुसारं लिखत-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 9
उत्तरम्:
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 10

तद्धित-प्रत्ययाः
शिक्षकः- अधोलिखितवाक्यानि ध्यानेन पठत-
(i) बुद्धिमान् सदैव सफलः भवति।
(ii) कीर्तिमान् सर्वत्र यशः प्राप्नोति।
(iii) धनवान् निर्धनस्य साहाय्यं करोति।
(iv) शक्तिमान् जनः भारं वोढुं समर्थः भवति।
(v) बलवान् जनः निर्बलं न उपहरेत्।

एतेषु वाक्येषु कर्तृपदेषु वयं बुद्धिकीर्तिधनशक्तिबलम् इत्यादिषु किं योजितवन्तः येन अर्थः बुद्ध्या युक्तः, कीर्त्या युक्तः, शक्त्या युक्तः, बलयुक्तः च भवति।
छात्रः – महोदय! बुद्धिकीर्तिशक्तयः इत्यादिशब्देषु ‘मान्’ इति योजितः धन-बलशब्दाभ्यां वान् इति योजितः।
शिक्षकः – सुष्ठु! सम्यगभिज्ञातम्
1. मान् वान् एवं मतुप्, वतुप् प्रत्यययोः प्रयोगः युक्ततायाः अर्थे भवति।
2. मतुप् प्रत्ययस्य मत्, वतुप् प्रत्ययस्य च वत् शब्देषु संयोज्यते पुनः हलन्तशब्दानुसारं रूपनिर्माणं भवति।
3. अकारान्तशब्देषु वतुप् प्रत्ययः अ-भिन्नस्वरान्तशब्देषु च मतुप्-प्रतययस्य प्रयोगः भवति।
4. स्त्रीलिङ्गे बुद्धिमती, धनवती इत्यादिप्रकारेण नदीशब्दवत् रूपनिर्माणं भवति। अधुना अनयोः प्रयोगस्य अभ्यासं कुर्मः।
यथा-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 11
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 12
अन्यासु विभक्तिषु पुँल्लिङ्गवद् रूपाणि भवन्ति।
इन् प्रत्यययुक्तपदानां रूपाण्यपि हलन्तशब्दवद् भवन्ति। तेभ्यः स्त्रीलिङ्गावबोधाय स्त्रीप्रत्ययस्य प्रयोगं कृत्वा स्त्रीलिङ्गपदनिर्माणम् अपि भवति यथा-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 13
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 14

अभ्यासः

1. अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

(i) (बल + इन्) _______ जनाः निर्बलेषु बलप्रयोग न कुर्युः।
(ii) रथिनम् (_______ + _______) जनम् वार्तायां मग्नं न कर्तव्यम्।
(iii) शिल्पिन्यः (_______ + _______) बालिकाः कुत्र गताः?
(iv) दण्डिनि (_______ + _______) जने न विश्वसिहि।
(v) (कर + इन्) ____________ वने वसति।
(vi) धनिनः (_______ + _______) गर्विताः न भवेयः।
(vii) सीता अवदत्-अहम् (_______ + _______) (कुशल + इन्) अस्मि।
(viii) बलिनौ (_______ + _______) अपमान न सेहेते।
(ix) (_______ + _______) गुणिना जनेन एतत् कार्य सुष्ठु कृतम्।
(x) दण्डिनः (_______ + _______) दण्डं धारयन्ति।
उत्तरम्:
(i) बलिनः
(ii) रथ + इन्
(iii) शिल्प + इन्
(iv) दण्ड + इन्
(v) करी
(vi) धन + इन्
(vii) कुशलिनी
(viii) बल + इन्
(ix) गुण + इन्
(x) दण्ड + इन

2. प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

(i) बुद्धिमती (_______ + _______) नारी प्रशस्यते।
(ii) एतौ छात्रौ (शक्ति + मतुप्) ______________ स्तः।
(iii) ताः कन्याः गुणवत्यः (_______ + _______) सन्ति।
(iv) लक्ष्मीवान् (_______ + _______) लक्ष्म्याः आदरं कुर्यात्।
(v) __________ (धन + वतुप्) जनाः दरिद्राणां सहायता कुर्वन्तु।
(vi) सत्यवत्यै (_______ + _______) नार्य पुस्तकं यच्छ।
(vii) (सत्य + वतुप्) ____________ जनैः सदा सत्यभाषणं क्रियते।
(viii) बलवता (_______ + _______) जनेन निर्बलेषु बलं न प्रयोक्तव्यम्।
(ix) (शक्ति + मतुप्) ____________ नार्मा इदं कार्यं कृतम्।
(x) गुणवद्भिः (_______ + _______) छात्रैः ध्यानेन पठ्यते।
उत्तरम्:
(i) बुद्धि + मतुप्
(ii) शक्तिमन्तौ
(iii) गुण + वतुप्
(iv) लक्ष्मी + मतुप्
(v) धनवन्तः
(vi) सत्य + वतुप्
(vii) सत्यवद्भिः
(viii) बल + वतुप्
(ix) शक्तिमत्या
(x) गुण + वतुप्

इन् (णिनि) प्रत्ययः

अकारान्तशब्दैः सह ‘युक्त’ इत्यर्थे णिनि (इन्) प्रत्ययस्य प्रयोगः अपि भवति यथा-
गुण + णिनि (इन्) – गुणिन् – गुणैः युक्तः
दण्ड + इन् – दण्डिन् – दण्डने युक्तः
शिल्प + इन् – शिल्पिन् – शिल्पकलया युक्तः
कर + इन् – करिन् (गजः) – करेण (शुण्डेन) युक्तः
बल + इन् – बलिन् – बलेन युक्तः
एतेषां प्रयोगः अपि वाक्येषु शब्दरूपनिर्माणाय क्रियते।

त्व-तल्-प्रत्ययौ
शिक्षकः – एतं श्लोकं पठत
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन।
स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते।।
अत्र ‘विद्वत्त्वम्, नृपत्वम्’ इति पदयोः कस्य प्रत्ययस्य प्रयोगः?
छात्राः – गुरुवर! न जानीमः वयम्। कृपया बोधयतु।
शिक्षकः – अत्र भाववाचकस्य ‘त्व’ इति प्रत्ययस्य प्रयोगः।
विद्वस + त्व = विद्वत्त्वम्
नृप + त्व = नृपत्वम्
‘त्व’ प्रत्ययस्य प्रयोगः इत्येवं क्रियते

अस्य प्रत्ययस्य प्रयोगेण शब्दः नपुसंकलिङ्गे भवति। अतः शब्दरूपं ‘फलम्’ इति शब्दवत् निर्मीयते।
उमेशः – यथा दीर्घत्वम्।
शिक्षकः – आम् शोभनम्। एवमेव अन्यशब्दानपि निर्माय वदन्तु।
महेशः – लघुत्वम्, महत्त्वम्
शिक्षकः – अतिशोभनम् अधुना एतां पङ्क्तिं पठत-
का जडता? पाठतोऽप्यनभ्यासः।
अर्थात् यदि पठितस्य अभ्यासः न क्रियते तर्हि जडता आयाति। अत्र भाववाच्ये एव तल् प्रत्ययः प्रयुक्तः।
रहीमः – किं त्व, तल् च द्वावेव भाववाचकौ प्रत्ययौ?
शिक्षकः – आम् सम्यगवगतम्।
रमेशः – तर्हि किमन्तरं द्वयोः मध्ये?
शिक्षकः – अन्तरं केवलं लिङ्गप्रयोगस्य एव।
छात्राः – कथमिव?
शिक्षकः – तल् प्रत्ययस्य प्रयोगेण शब्दः स्त्रीलिङ्गेः भवति। यथा जडता, दीर्घता, लघुता, महत्ता इत्यादिप्रकारेण तल् प्रत्यययुतस्य शब्दस्य रूपाणि ‘बालिका’ शब्दवत् भवन्ति।
इदानीमस्याः तालिकायाः माध्यमेन अवगच्छामः
लघु – लघुता – लघुत्वम्
महत् – महत्ता – महत्त्वम्
दीर्घ – दीर्घता – दीर्घत्वम्
गुरु – गुरुता – गुरुत्वम्
पवित्र – पवित्रता – पवित्रत्वम्
छात्राः – तालिकां पूरयन्ति।
शिक्षकः – अधुना वाक्येषु एतयोः अभ्यासं कुर्मः।

अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
(i) कृष्णसुदाम्नोः मित्रता (_______ + _______) विश्वप्रसिद्धा।
(ii) विद्वत्वम् (_______ + _______) च नृपत्वम् (_______ + _______) च नैव तुल्यम्।
(iii) कार्येषु दीर्घसूत्रता (_______ + _______) कदापि न कर्तव्या।
(iv) आकारस्य (लघु + त्व) ____________ कार्यबाधकः न भवेत्।
(v) पशवः स्वपशुत्वम् (_______ + _______) तु दर्शयन्ति एव।
(vi) वेदानां (महत् + त्व) _____________ को न जानाति।
(vii) गङ्गायाः पवित्रता (_______ + _______) जगत्प्रसिद्धा।
(viii) मूर्खः स्वमूर्खतां (_______ + _______) सभायां न प्रदर्शयेत्।
(ix) नदीनां (दीर्घ + तल्) _____________ चिन्तनात् परः विषयः।
(x) मित्रेण सह मित्रत्वम् (_______ + _______) कदापि न त्याज्यम्।
उत्तरम्:
(i) मित्र + तल्
(ii) विद्वस + त्व, नृप + त्व
(iii) दीर्घसूत्र + तल्
(iv) लघुत्वं
(v) स्वपशु + त्व
(vi) महत्त्वं
(vii) पवित्र + तल्
(viii) स्वमूर्ख + तल्
(ix) दीर्घता
(x) मित्र + त्व

ठक्-प्रत्ययः
अधोलिखितानि वाक्यानि पठत-

  • स एकः श्रेष्ठः नागरिकः अस्ति।
  • एतद् आध्यात्मिकं कार्यम् अस्ति।
  • एषः धार्मिकः ग्रन्थेऽस्ति।
  • अद्य विद्यालये सांस्कृतिकः कार्यक्रमोऽस्ति।
  • देशस्य सेवा अस्माकं नैतिकं कर्त्तव्यम् अस्ति।
  • एतत् अस्माकं दैनिक कार्यम् अस्ति।
  • अद्य अस्मांक वार्षिकी परीक्षा अस्ति।
  • एषः कार्मिकः परिश्रमी अस्ति।
  • एषा मासिकी पत्रिका अस्ति।
  • दिल्लीप्रदेशे अनेकानि ऐतिहासिकानि स्थानानि सन्ति।

उपरि यानि रेखाङ्कितानि पदानि सन्ति तानि सर्वाणि ‘ठक’ प्रत्यय-युक्तानि सन्ति।

  • ‘ठक्’ प्रत्ययः भावार्थे प्रयुज्यते।
  • ‘ठक्’ प्रत्ययः ‘इक’ रूपेण परिवर्तितः भवति।
  • ‘ठक्’ प्रत्ययः आदिस्वरे वृद्धिः भवति।

यथा – धर्म + ठक् = धार्मिक

  • ‘ठक्’ प्रत्ययस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति।

यथा-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 15
‘ठक्’ प्रत्ययस्य प्रयोगः विशेषरूपेण भवति।

अभ्यासः

1. अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

(i) __________ (धर्म + ठक्) जनाः धर्मम् एव आचरन्ति।
(ii) अद्य __________ (वर्ष + ठक्) परीक्षापरिणामः प्राप्स्यते।
(iii) अद्य वयं __________ (इतिहास + ठक्) स्थलानि द्रष्टुं गच्छामः।
(iv) __________ (प्रथम + ठक्) शिक्षा बाल्यतः एव भवति।
(v) __________ (सेना + ठक्) देशं रक्षन्ति।
(vi) अधना __________ (अध्यात्म + ठक्) शिक्षा अनिवार्या।
(vii) __________ (नगर + ठक्) एव देशम् उन्नयन्ति।
(viii) एताः __________ (विज्ञान + ठक्) चिन्तायां मग्नाः सन्ति।
उत्तरम्:
(i) धार्मिकाः
(ii) वार्षिक:
(iii) ऐतिहासिकानि
(iv) प्राथमिकी
(v) सैनिकाः
(vi) आध्यात्मिकी
(vii) नागरिकाः
(vii) वैज्ञानिकाः / वैज्ञानिक्यः

2. ‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

(i) भौतिकी उन्नतिरिपि अनिवार्या।
(ii) अधुना वार्षिकं कार्यं सम्पन्नम्।
(iii) सैनिकाः देशम् उन्नयन्ति।
(iv) दैविकी विपदा कष्टकारी भवति।
(v) एषः सार्वभौमिकः सिद्धान्तोऽस्ति।
(vi) सार्वकालिकाः उपदेशाः एते।
(vii) सामाजिक कार्यम् एव एतत्।
(viii) वैज्ञानिकाः अन्वेषणे रताः भवन्ति।
(ix) भारतस्य भौगौलिकी स्थितिः सुन्दरा अस्ति।
(x) एषा कवेः मौलिकी कृतिः।
उत्तरम्:
(i) भौतिकी
(ii) वार्षिक
(iii) सैनिकाः
(iv) दैविकी
(v) सार्वभौमिकः
(vi) सार्वकालिकाः
(vii) सामाजिकं
(viii) वैज्ञानिकाः
(ix) भौगोलिकी
(x) मौलिकी

स्त्री-प्रत्ययाः
अधोलिखितवाक्यानि ध्यानेन पठन्तु-

  • इयं इका छात्रा अस्ति।
  • विद्योत्तमा विदुषी आसीत्।
  • अध्यापिका छात्रान् पाठयति।
  • अजा तृणं चरति।
  • आचार्या स्नेहेन पाठयति।
  • गायिका गीतं गायति।
  • सुता गृहस्य भूषणं भवति।
  • नदी मलिना न कर्त्तव्या।
  • गायिका अभिनयं करोति।

उपरि लिखितानि रेखाङ्कितपदानि स्त्रीलिङ्गे सन्ति। पुल्लिङ्गपदानां स्त्रीलिङ्गे परिवर्तनाय स्त्रीप्रत्ययाः प्रयुज्यन्ते। अत्र वयं टाप् ङीप् च प्रत्ययौ पठिष्यामः। टाप् प्रत्यये (आ) शिष्यते, ङीप् च प्रत्ययः (ई/आनी) शिष्यते।
नद + ङीप् – नदी
गोप + ङीप् – गोपी
महिष + ङीप् – महिषी
ब्राह्मण + ङीप् – ब्राह्मणी
वदन् + ङीप् – वदन्ती
श्रीमन् + ङीप् – श्रीमती
दातृ + ङीप् – दात्री
गुणिन् + ङीप् – गुणिनी
तपस्विन् + ङीप् – तपस्विनी

सर्वेषां रूपाणि नदीवत् भवन्ति यथा-गोपी गोप्यौ गोप्यः।
छात्र + टाप् – छात्रा
गायक + टाप् – गायिका
धावक + टाप् – धाविका
शिक्षक + टाप् – शिक्षिका
साधक + टाप् – साधिका
प्रथम + टाप् – प्रथमा
द्वितीय + टाप् – द्वितीया
सरल + टाप् – सरला
अज + टाप् – अजा
मूषक + टाप् – मूषिका
सुत + टाप् – सुता
बालक + टाप् – बालिका

सर्वेषां रूपाणि लतावत् भवन्ति यथा-गायिका गायिके गायिकाः

अभ्यासः

1. शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-

(i) इयं ___________ पठति। (छात्र: / छात्रा)
(ii) बालिकासु ___________ अध्ययनशीला अस्ति। (प्रथम: / प्रथमा)
(iii) शोभनानां भोजनानां ___________ भव। (दातृ / दात्री)
(iv) एषा ___________ हवनं करोति। (तपस्वी / तपस्विनी)
(v) गङ्गा एका ___________ अस्ति। (नद / नदी)
उत्तरम्:
(i) छात्रा
(ii) प्रथमा
(iii) दात्री
(iv) तपस्विनी
(v) नदी

2. कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

मञ्जूषा
श्रीमती, प्राध्यापिका, नदी, तपस्विन्या, नदीम्, प्रथमा, मातुलानी, बालिकाः, गच्छन्ती, मेधाविनी, छात्राः
(i) इयम् एका __________ अस्ति।
(ii) __________ परितः वृक्षाः सन्ति।
(iii) __________ सह तस्य पुत्रः अपि प्रवचनं करोति।
(iv) एताः __________ सन्ति।
(v) ताः सर्वाः __________ सन्ति।
(vi) __________ वाचाला अस्ति।
(vii) ग्रामं __________ श्रमिका श्रान्ता अस्ति।
(viii) एषा बालिका __________ अस्ति।
(ix) मम __________ विदेशं गच्छति।
(x) __________ रमा एका __________ अस्ति।
उत्तरम्:
(i) नदी
(ii) नदीम्
(iii) तपस्विन्या
(iv) छात्राः
(v) बालिकाः
(vi) प्रथमा
(vii) गच्छन्ती
(viii) मेधाविनी
(ix) मातुलानी
(x) श्रीमती, प्राध्यापिका

3. अधोलिखिते अनुच्छेद रेखाङ्कितपदानि स्त्रीलिङ्गे परिवर्त्य अनुच्छेदं पुनः लिखत-

एक: बालकः ग्रामे वसति। सः विद्यालयं गच्छति। तेन सह तस्य भ्राता अपि गच्छति। तस्य शिक्षकः तं प्रेम्णा पाठयति। विद्यालये अनेके छात्राः सन्ति। तेषु एकः अत्यधिक: मेधावी अस्ति।
उत्तरम्:
एका बालिका ग्रामे वसति। सा विद्यालयं गच्छति। तया सह तस्याः भ्राता अपि गच्छति। तस्याः शिक्षिका तां प्रेम्णा पाठयति। विद्यालये अनेकाः छात्राः सन्ति। तासु एका अत्यधिकी मेधाविनी अस्ति।

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा:

We have given detailed NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा: Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा:

श्रुतिः – अहं दिनम् दिनम् विद्यायाः आलयम् समयम् अनतिक्रम्य गच्छामि।
अनुकृतिः – अहम् अपि प्रतिदिनं विद्यालयं यथासमयं गच्छामि।
श्रुतिः – किं त्वं जानासि यद् वसुदेवस्य सुतः कः आसीत्?
अनुकृतिः – जानामि। वसुदेवसुतः श्रीकृष्णः आसीत्।
श्रुतिः – मां पीतः वर्णः रोचते। सः अपि पीतम् अम्बरं धारयति स्म।
अनुकृतिः – सत्यं वदसि। सः पीताम्बरं धारयति स्म अतः सः ‘पीताम्बरः’ इति नाम्ना अपि प्रसिद्धः। मया पठितं यत् कृष्णः च बलरामः च यमुनायाः तटे क्रीडतः स्म।
श्रुतिः – मयापि पठितं यत् कृष्णबलरामौ यमुनातटे क्रीडतः स्म।

उपरिलिखितेषु संवादवाक्येषु श्रुतिः यानि वाक्यानि वदति तेषु रेखाङ्कित-पदानि पृथक् पृथक् सन्ति परन्तु अनुकृतिः यानि वाक्यानि वदति तेषु वाक्येषु तानि एव रेखाङ्कित-पदानि समस्तरूपेण (संक्षिप्तरूपेण) योजयित्वा प्रदर्शितानि सन्ति। यथा शब्दानां पृथक्-पृथक् लेखनं ‘विग्रहः’ कथ्यते तथैव समस्तरूपेण (संक्षिप्तरूपेण) वा लेखनं ‘समासः’ इति कथयते।
समासानां विभाजनं मुख्यतः चतुर्धा भवति-
1. अव्ययीभावः
2. तत्पुरुषः
3. द्वन्द्वः
4. बहुव्रीहिः
(कर्मधारयः द्विगुः चेति तत्पुरुष-समासस्य एव द्वौ भेदी स्तः।)

1. अव्ययीभावः

(क) प्रायः जनाः प्रत्यक्षम् एव सत्यं स्वीकुर्वन्ति।
(ख) तस्मिन् विद्यालये प्रतिमासं परीक्षाः भवन्ति।
(ग) छात्राः यथामति अध्ययनं कुर्वन्ति।
(घ) हरिद्वारे उपङ्गम् अनेके देवालयाः सन्ति।
उल्लिखितवाक्येषु रेखाङ्कितपदेषु चतस्रः विशेषताः सन्ति-
(i) सर्वेषु पदेषु प्रथम/पूर्व-पदम् अव्ययम् उपसर्गो वा अस्ति।
(ii) सर्वाणि पदानि नपुसंकलिङ्गे सन्ति।
(iii) सर्वेषां पदानां प्रयोगः अव्ययवत् भवति।
(iv) एतेषु समस्तपदेषु पूर्वपदम् प्रधानम् अस्ति यतो हि वाक्येषु क्रियापदानि प्रथम/पूर्व पदस्य अनुसारम् अर्थ बोधयन्ति।

इत्थं वयं जानीमः यत् अव्ययीभाव समासः पूर्वपदप्रधानः भवति। अयं समासः सर्वदा नपुसंकलिने तिष्ठति।
एवम् अव्ययीभावसमासं स्पष्टरूपेण विज्ञाय अस्त इतिराणि उदाहरणानि द्रष्टव्यानि-

क्रमःसमस्तपदम्विग्रहः
1.यथामतिमतिम् अनतिक्रम्य
2.अनुगुणम्गुणानाम् अनुरूपम्
3.निर्बाधम्बाधानाम् अभाव:
4.अनुरथम्रथस्य पश्चात्
5.निर्विघ्नम्विघ्नानाम् अभाव:
6.प्रतिमासम्मासं मासम् इति
7.उपगुरुगुरोः समीपम्
8.अधिहरिहरौ इति
9.सपरिवारम्परिवारेण सह
10.प्रतिदिनम्दिन दिने इति

अभ्यासः

प्रदत्त-तालिकायां समस्तपदं विग्रहं वा लिखत-

क्रमःसमस्तपदम्विग्रहः
1.निर्मलम्____________
2.____________एकम् एकम् इति
3.____________दोषाणाम् अभाव:
4.सव्यवधानम्____________
5.निरर्थकम्____________
6.____________चिन्तायाः अभाव:
7.स्नेहेन सहितम्____________
8.____________समयम् अनतिक्रम्य
9.____________गङ्गायाः समीपम्
10.सहर्षम्____________

उत्तरम्:

  1. मलस्य/मलानाम् अभावः
  2. प्रत्येकम्
  3. निर्दोषम्
  4. व्यवधानेन सह
  5. अर्थस्य अभावः
  6. निश्चितम्
  7. सस्नेहम्
  8. यथासमयम्
  9. उपगङ्गगम्
  10. हर्षेण सह

2. तत्पुरुषः

(क) वानराः वृक्षोपरि क्रीडन्ति। (वृक्षस्य उपरि)
(ख) वनराजः उच्चैः गर्जति। (वनस्य राजा)
(ग) संन्यासी पदनिर्लिप्तः भवति। (पदाय निर्लिप्तः)
(घ) रामः शरणागतं विभीषणम् अरक्षत्। (शरणम् आगतम्)
(ङ) चिकित्सकः अग्निदग्धस्य उपचारम् अकरोत्। (अग्निना दग्धस्य)

उल्लिखितेषु उदाहरणेषु वयं पश्यामः यत्-
(i) प्रथम/पूर्वपदेषु द्वितीया, तृतीया, चतुर्थी, षष्ठी चेति भिन्न-भिन्न विभक्तीनां प्रयोगः वर्तते।
(ii) क्रियायाः प्रयोगः द्वितीय/उत्तरपदाय भवति।

अतः यस्मिन् समासे प्रथम/पूर्वपदेषु द्वितीया विभक्तितः सप्तमी विभक्ति-पर्यन्तं विभिन्नविभक्तीनां प्रयोगः भवति सः समासः तत्पुरुषसमासः भवति।

तत्पुरुषसमासस्य इतराणि उदाहरणानि-

क्रमःसमासःविग्रहःउपभेदः
1.ग्रामगतःग्रामं गतःद्वितीया-तत्पुरुषः
2.पर्वतारूढःपर्वतम् आरूढःद्वितीया-तत्पुरुषः
3.कालिदासलिखितम्कालिदासेन लिखितम्तृतीया-तत्पुरुषः
4.चक्रहतःचक्रेण हतःतृतीया-तत्पुरुषः
5.यज्ञसामग्रीयज्ञाय सामग्रीचतुर्थी-तत्पुरुषः
6.निद्राकुलःनिद्रया आकुलःचतुर्थी-तत्पुरुषः
7.सिंहभीत:सिंहात् भीतःपञ्चमी-तत्पुरुषः
8.आकाशपतितम्आकाशात् पतितम्पञ्चमी-तत्पुरुषः
9.गृहपतिःगृहस्य पतिःषष्ठी-तत्पुरुषः
10.गौरीशःगौर्याः ईशःषष्ठी-तत्पुरुषः
11.सङ्गीतपटुःसङ्गीते पटुःसप्तमी-तत्पुरुषः
12.चिन्तामग्नःचिन्तायां मग्नःसप्तमी-तत्पुरुषः
13.असत्यम्न सत्यम्नञ्-तत्पुरुषः
14.अनुपकार:न उपकार:नञ्-तत्पुरुषः

आकाशात् पतितं तोयं यथा गच्छति सारगम्। सर्वदेव नमस्कार: केशवं प्रति गच्छति।

अभ्यासः

अधोलिखितेषु समासं विग्रहं वा कृत्वा लिख्यताम्-

क्रमःसमासःविग्रहः
1.___________न्यायस्य अधीश:
2.देहविनाश:___________
3.न मन्त्रः
4.अयोग्यः___________
5.वृक्षोपरि___________
6.___________निद्रायाः भङ्गस्य दुःखम्
7.वनराज:___________राजा
8.___________नराणां पतिः
9.पक्षिकुलम्___________
10.___________प्रीते: लक्षणम्
11.निशान्धकारे___________
12.___________न पक्वम्
13.मृत्तिकाक्रीडनकम्___________
14.___________वृद्धेः लाभाः
15.अधर्मः___________

उत्तरम्:

  1. न्यायाधीशः
  2. देहस्य विनाशः
  3. अमन्त्रः
  4. न योग्यः
  5. वृक्षस्य उपरि
  6. निद्राभङ्गदुःखम्,
  7. वनस्य
  8. नरपतिः
  9. पक्षिणाम् कुलम् / पक्षीणाम् कुलम्
  10. प्रीतिलक्षणम्
  11. निशाया: अन्धकारः, तस्मिन्
  12. अपक्वम्
  13. मृत्तिकायाः क्रीडनकम्
  14. वृद्धिलाभः
  15. न धर्मः

कर्मधारयः

(विशेषण – विशेष्यौ)
(i) कृष्णसर्पः बिलम् प्राविशत्। (कृष्णः च एषः सर्प: / कृष्णः सर्पः)
(ii) महादेवी करुणां करोतु। (महति च इयं देवी / महती देवी)
(ii) महावृक्षः फलानि ददाति। (महान् च अयं वृक्ष: / महान् वक्षः) (उपमानोपमेयौ (उपमान + उपमेयौ)
(iv) सिंहपुरुष:/पुरुषसिंहः श्री रामः रावणं हतवान्। (सिंह इव पुरुष: / पुरुषः सिंह: इव)
(v) देव्याः कमलनेत्रे दृष्ट्वा भक्तः प्रसन्नः अभवत्। (कमलम् इव नेत्रे)
(vi) तस्याः चन्द्रमुखं दृष्ट्वा सः मोहितः अभवत्। (चन्द्रः इव मुखम्)

उल्लिखितेषु वाक्येषु रेखाङ्कितपदेषु विशेषणविशेष्ययोः अथवा उपमानोपमेययोः प्रयोगः अस्ति। एतेषु विशेष्यपदम् अथवा उपमेयपदम् एव प्रधानं भवति। उपमानपदस्य पश्चात् ‘इव’ इति अव्ययस्य प्रयोगेण उपमानोपमेय-कर्मधारयसमासस्य विग्रहः भवति। किन्तु विशेषण-विशेष्ययोः प्रथमा-विभक्त्या: प्रयोगेण समासविग्रहः भवति।

अभ्यासः

समस्तपदं विग्रह वा लिखत-

क्रमःसमस्तपदम्विग्रहः
1._________महान् वृक्षः
2.पुरुषव्याघ्रः_________
3._________महत् कम्पनम्
4.महाविनाशः_________
5._________रक्तम् उत्पलम्
6.पीतपुष्पाणि_________
7._________घन इव श्यामः
8.महोत्सवः_________
9._________विशालः पर्वतः
10.महागौरी_________

उत्तरम्:

  1. महावृक्षः
  2. पुरुषः व्याघ्रः द्व
  3. महाकम्पनम्
  4. महान् विनाशः
  5. रक्तोत्पलम्
  6. पीतानि पुष्पाणि
  7. घनश्यामः
  8. महान् उत्सवः
  9. विशालपर्वतः
  10. महती गौरी

द्विगु-समासः

(i) जगत्पालकः त्रिलोकं रक्षति।
(ii) नवरात्रे सः सप्तशतीं पठति।
(ii) दानस्य महत्त्वं चतुर्युगं यावद् भवति।
(iv) दण्डकारण्ये ‘पञ्चवटी‘ इति स्थाने श्रीरामः सीतया लक्ष्मणेन च सह अवसत्।
(v) इयं शताब्दी विज्ञानस्य अस्ति।

उल्लिखितेषु वाक्येषु रेखाङ्कितपदेषु चतस्रः विशेषताः सन्ति-
(क) एतानि पदानि सङ्ख्याशब्दैः प्रारभन्ते।
(ख) बहुवचनसङ्ख्या प्रयोगे अपि सर्वेषु पदेषु एकवचनस्य प्रयोगः विद्यते।
(ग) समस्तपदानि नपुंसकलिङ्गे अथवा स्त्रीलिङ्गे भवन्ति।
(घ) समस्तपदानि/समूहस्य/समाहारस्य बोधं कारयन्ति।

एतादृशाः समासाः/एतादृशानि समस्तपदानि द्विगुसमासाः कथ्यन्ते।
इत्थं वयं जानीमः यत् द्विगुसमासेषु प्रथमशब्दः सङ्ख्यावाचको भवति। एते समासाः नपुंसकलिङ्गे स्त्रीलिलिङ्गे वा भवन्ति।

समाहार / समूहकारणात् एतेषां समासानां विग्रहः एवं भवति-

क्रमःसमस्तपदम्विग्रहः
1.नवरात्रम्नवाना रात्रीणां समाहारः
2.पञ्चवटीपञ्चानां वटानां समाहारः
3.चतुर्युगम् / चतुर्युगीचतुर्णा युगानां समाहार:
4.त्रिलोकम् / त्रिलोकीत्रयाणां लोकानां समाहारः
5.शताब्दम् / शताब्दीशतस्य अब्दानां समाहार:

अधोलिखित-तालिकायाम् समस्तपदं विग्रह वा लिख्यन्ताम्-

क्रमःसमस्तपदानिविग्रहः
1. __________सप्तानाम् अह्रां समाहारः
2.पञ्चानां पात्राणां समाहारः __________
3. __________त्रयाणां भुवनानां समाहारः
4.पञ्चरात्रम् __________
5.अष्टाध्यायी __________

उत्तरम्:

  1. सप्ताहम्
  2. पञ्चपात्रम्
  3. त्रिभुवनम्
  4. पञ्चानां रात्रीणाम् समाहारः
  5. अष्टाणाम् अध्यायाम् समाहार:

3. द्वन्द्व-समासः

(i) इतरेतरद्वन्द्वः
(क) दशरथस्य चत्वारः पुत्राः रामलक्ष्मणभरतशत्रुघ्नाः आसन्। (रामः च लक्ष्मणः च भरतः च शत्रुघ्नः च)
(ख) रामलक्ष्मी मिथिलाम् अगच्छताम्। (रामः च लक्ष्मणः च)
(ग) मयूरीकुक्कुटौ संवदत:/कुक्कुटमयूयौं संवदतः। (मयूरी च कुक्कुटः च/कुक्कुटः च मयूरी च)

उल्लिखितवाक्येषु चतस्रः विशेषताः सन्ति-
(i) समासेषु शब्दानां सङ्ख्यायाः अनुसार द्विवचन बहुवचन वा प्रयुक्तम्।
(ii) वाक्येषु सर्वेषां पदानां सङ्ख्यायाः अनुसार क्रियापदस्य वचनं निर्धारितम् भवति अतः सर्वाणि पदानि प्रधानानि सन्ति।
(iii) समासस्य अन्तिमपदानुसारं समासस्य लिङ्ग निर्धार्यते।

(ii) समाहार द्वन्द्वः
(i) योगिनं शीतोष्णं न बाधते। (शीतं च उष्णं च, तयोः समाहारः)
(ii) सः पुत्रपौत्रं दृष्ट्वा प्रसीदति। (पुत्रः च पौत्रः च, तयोः समाहारः)
(iii) सः दिवारानं प्रसन्नः तिष्ठति (दिवा च रात्रिः च, तयोः समाहारः)

उल्लिखितवाक्येषु रेखाङ्कितपदेषु यद्यपि द्वे एव पदे प्रधाने परन्तु तयोः समाहार / समूहकरणात् एकवचनस्य प्रयोगः अभवत् एवम् एतेषु उदाहरणेषु अधोलिखित-विशेषताः सन्ति-
(i) समस्तपदानि नपुंसकलिङ्गे एकवचने सन्ति।
(ii) द्वयोः पदयोः एकः समहारः भवति।

(iii) एकशेषद्वन्द्वः
पितरौ- माता च पिता च अत्र एकस्य पितृशब्दस्य द्विवचने प्रयोगेण एकशेषद्वन्द्वः समासः कथ्यते। इतरेतरद्वन्द्व समासे ‘मातापितरौ’ इत्यस्य अपि प्रयोगः भवति।

अभ्यासः

अधोलिखिततालिकायां समस्तपदेभ्यः विग्रह विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम्-

क्रमःसमस्तपदम्विग्रहः
1.अग्निसोमो___________
2.पाणिपादम्___________
3.___________साता च रामः च
4.इन्द्रः च वरुणः च___________
5.___________रमा च शारदा च
6.___________धर्मः च अर्थः च कामः च मोक्षः च
7.लतापुष्पम्___________
8.___________मूषकः च मार्जारः च
9.अहोरात्रम्___________
10.___________सुखं च दुःखम् च

उत्तरम्:
1. अग्निः च सोमः च
2. पाणी च पादौ च तेषां समाहारः
3. सीतारामौ
4. इन्द्रवरुणौ
5. रसाशारदे,
6. धर्मार्थकाममोक्षाः
7. लताः च पुष्पाणि च तेषां समाहारः
8. मूषकमार्जारौ
9. आहश्च रात्रिः च तयोः समाहारः
10. सुखदुःखम्

4. बहुव्रीहिः

(क) चतुर्मुखः ब्रह्मा सृष्टिरचनां करोति। (चत्वारि मुखानि यस्य सः)
(ख) चतुर्भुजः विष्णुः सृष्टेः पालनं करोति। (चतस्रः भुजाः यस्य सः)
(ग) त्रिनेत्रः शिवः जगत् सहरति। (त्रीणि नेत्राणि यस्य सः)
(घ) क्रूरकर्मा जनः आतङ्कवादी भवति। (क्रूरं कर्म यस्य सः)
(ङ) सिंहवाहना दुर्गा महिषासुरस्य वधम् अकरोत्। (सिंहः वाहनं यस्याः सा)

उल्लिखितवाक्येषु रेखाङ्कितपदेषु किमपि पदं प्रधानं नास्ति। अपि तैः पदैः सङ्केतितं किमपि अन्यद् एव पदं प्रधानम् अस्ति। एतेषु समासेषु अधोलिखिताः विशेषताः सन्ति।
(i) द्वे पदे मिलित्वा अन्यपदं सङ्केतयन्ति।
(ii) द्वे पदे यदा परस्परं विशेषणम् विशेष्यं च भवतः तदा ते प्रथमाविभक्तौ समानलिङ्गे च तिष्ठतः।
(iii) विग्रहाय अन्ते यस्य सः/यस्याः सा इत्यादीनां प्रयोगः भवति।

इत्थं वयं जानीमः यद् बहुव्रीहिसमासः अन्यपदप्रधानः भवति। यदा बहुव्रीहिसमासे द्वे पदे एकस्मिन् एव विभक्तौ भवतः तदा समानाधिकरण बहुव्रीहिः भवति। बहुव्रीहिसमासे यदा द्वे पदे पृथक्-पृथक् विभक्तौ भिन्न-लिङ्गे वा तदा व्यधिकरण-बहुव्रीहिः समासः भवति।

अभ्यासः

अधोलिखितसमस्तपदेभ्यः विग्रहाः, विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम्-

क्रमःसमस्तपदानिविग्रहः
1.___________लम्बम् उदरं यस्य सः
2.पीताम्बरः___________
3.___________कृतः उपकारः येन सः
4.प्रत्युपन्नमतिः___________
5.___________गज इव आननं यस्य सः
6.चन्द्रमुखी___________
7.___________चक्रं पाणौ यस्य सः
8.चन्द्रमौलि:___________
9.___________बहूनि कमलानि यस्मिन् तत्
10.___________जितानि इन्द्रियाणि येन सः

उत्तरम्:
1. लम्बोदरः
2. पीतम् अम्बरं यस्य सः
3. कृतोपकारः
4. प्रत्युत्पन्ना मतिः यस्य सः
5. गजाननः
6. चन्द्रम् इव मुखं यस्याः सा
7. चक्रपाणिः
8. चन्द्रः मौलौ यस्य सः
9. बहुकमलम्
10. जितेन्द्रियः

मिश्रिताभ्यास:
अधोलिखितसमस्तपदेभ्यः विग्रहान् विग्रहेभ्यः च समस्तपदानि निर्माय तेषां नामानि अपि लिख्यन्ताम्-

क्रमःसमस्तपदम्विग्रहःसमासनाम
1.मेघश्यामः__________________________
2._____________न युक्तम्_____________
3.देहाविनाशाय__________________________
4._____________नीलं च तत् कमलम्_____________
5._____________हर्षेण मिश्रितम्_____________
6._____________कर्कश: ध्वनिः_____________
7._____________पञ्चानां वटानां समाहारः_____________
8.वनराज__________________________
9._____________स्थिता प्रज्ञा यस्यः सः_____________
10._____________माता च पिता च_____________

उत्तरम्:
1. मेघः इव श्यामः, कर्मधारयः
2. अयुक्तम्, नञ् तत्पुरुषः
3. देहस्य विनाशाय, षष्ठी तत्पुरुषः
4. नीलकमलम्, कर्मधारयः
5. हर्षमिश्रितम्, तृतीया तत्पुरुषः
6. कर्कशध्वनिः, कर्मधारयः
7. पञ्चवटम् / पञ्चवटी, द्विगुः
8. वनस्य राजा, षष्ठी तत्पुरुषः
9. स्थितप्रज्ञः, बहुव्रीहिः
10. मातापितरौ, इतरेतर द्वन्द्वः

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा 1

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः

We have given detailed NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः

शिक्षकः – (कक्षां प्रविश्य) नीरजादित्योमेशौजसाः किं भवद्भिः कार्यं कृत न वा?
(सर्वे छात्रा: विस्मयेन इतस्तत: दृष्ट्वा शिक्षकं पश्यन्ति।)
शिक्षकः – किं जातम्? नीरज! आदित्य! उमेश! औजस! युष्मान् एव पृच्छामि।
नीरजः – (आश्चर्येण) गुरुवर! भवद्भिः अस्माकं सर्वेषां नामानि कथं संयोजितानि?
शिक्षक: – सन्धिमाध्यमेन।
उमेशः – किमेवम्? कृपया विस्तरेण बोधयतु।
शिक्षकः – बोधयामि, बोधयामि, धैर्यवन्तः भवन्तु। प्रथम ह्यस्तनं कार्यं तु दर्शयत।
(सर्वे छात्राः शीघ्रतया कार्यं दर्शयन्ति।)
आदित्यः – महोदय! कार्यं सर्वैः कृतमस्ति। अधुना कृपया बोधयत।
शिक्षकः – नवमकक्षायां सन्धिविषये पठितुम् आसीत्। किं स्मर्यते?
औजसः – आम्, आम्, स्मरामः वयम्। अस्तु-‘नीरज-आदित्य’ इति नीरजादित्य-अत्र दीर्घ-सन्धिः कृतः भवद्भिः।
उमेशः – आम्, आम्, स्मर्यते मयाऽपि नीरजादित्य-उमेश एवं तु दीर्घसन्धेः अनन्तरं गुणसन्धिः कृतः भवता।
आदित्यः – स्पष्टम्। पुनः वृद्धि-सन्धिः कृतः नीरजादित्योमेशौजसाः इति।
शिक्षकः – शोभनम्। अतीव शोभनम्। एवमेव प्रयोगेण पठिताशान् अवगन्तुं पारयामः।
अदितिः – गुरुवर! अत एव मम नाम्ना सह दीप्तेः नामयोजनेन ‘दीप्त्यदिती’ इति यण सन्धे: नियमानुसारमेव भवता आकार्यते प्रायशः।
शिक्षकः – आम्, सम्यगवगतम्। अधुना अभ्यासेन एतान् चतुरः भेदान् पुनरावृत्त्य स्वरसन्धेः नवीनान् भेदान् पठिष्यामः।

अधोलिखितात् अनुच्छेदात् दीर्घ-गुण-यण् वृद्धि-सन्धिनाम् उदाहरणानि चित्वा लिखत-
जानामि + अहम् (i) ________ यत् जलोपप्लवेन (ii) ________ + ________पीडितः रमा-ईश: (iii) ________ वृक्षारूढः (iv) ________ + ________ अभवत्। लीलया+एव (v) ________ सर्वमसहत। तदा सः साधु+उपदेशम् (vi) ________ स्मृतवान् यत् कदापि धैर्य न त्याज्यम्। स्थितेः सामान्ये जाते सः महा + औत्सुक्येन (vii) ……….. गृहं गतवान् अचिन्तयत् च सर्वं खल्विदम् (vii) ________ + ________ब्रह्म। तदा मोहनः सोहनः च द्वौ + अपि (ix) ________ रमेशस्य गृहमागच्छतः। सर्वेऽपि (x) ________ + ________ एकत्रीभूय भोजनं पचन्ति।
(सर्वे छात्राः एकैकं कृत्वा सर्वेषाम् उदाहरणानाम् समाधानं कुर्वन्ति तदा एकः छात्रः वदति।)
उत्तरम्:
(i) जानाम्यहम्
(ii) जल + उपप्लवेन
(iii) रमेशः
(iv) वृक्षः + आरूढः
(v) लीलयेव
(vi) साधूपदेशम्
(vii) महौत्सुक्येन
(viii) खलु + इदम्
(ix) द्वावपि
(x) सर्वे + अपि

आदित्यः – गुरुवर! अन्तिमौ द्वौ तु स्पष्टौ न भवतः।
शिक्षकः – अस्तु, अवबोधयामि एकैकं कृत्वा।
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
एवमेव
(i) द्वौ + एते – _______ पठतः।
(ii) तौ + अत्र – ________ लिखतः।
(iii) पो + अनम् – पवनम् मन्दं मन्दं वहति।
(iv) पौ + अक: – _________ सर्व दहति।
(v) भावुकः – _________ + _________ न भवितव्य।
(vi) ने + अनम् – नयनम् उद्घाट्य एव मार्गे चलत।
(vii) शे + अनम् – _________ रात्रौ एव करणीयम्।
(viii) _____ + _____ चयनम् कृत्वा एव खाद्याखाद्यं खादनीयम्।
(ix) गै + अकः – गायक: मधुरं गायति।
(x) नै + अक: – _____ सुन्दरं नृत्यति।
(xi) शायिकाः – _____ + _____ रेलयानेषु भवन्ति।
उत्तरम्:
(i) द्वावेते
(ii) तावत्र
(iv) पावकः
(v) भौ+उक:
(vii) शयनम्
(viii) चे + अयनम्
(x) नायक:
(xi) शै + इका:

‘एचोऽयवायावः’ इति नियमानुसारं ए, ऐ, ओ, औ-इत्येतेषां स्वराणां परतः कस्मिंश्चिदपि स्वरे आगते एतेषां चतुर्णा स्थाने क्रमशः अय्, आय, अव्, आव् च भवन्ति। एते ‘अयादिचतुष्टय’ इति नाम्नाऽपि ज्ञायन्ते।

छात्राः – अवगतः अस्माभिः अयादिसन्धिः।
शिक्षकः – पठिते अनुच्छेदे अन्तिम वाक्यमासीत्-सर्वेऽपि(सर्वे अपि)एकत्रीभूय भोजन पचन्ति। एतत् पूर्वरूपसन्धेः उदाहरणम् अस्ति।

एवमेव अन्यानि उदाहरणानि पश्यन्तु-
(i) अन्येऽपि – _____ + _____ जनाः भोजनं खादन्ति।
(ii) सर्वत्र – _____ + _____ उपविशन्ति।
(iii) विष्णोऽवतु – अवतु माम्।
(iv) शिशोऽपि – _____ + _____ कुशली त्वम्।
(v) साधोऽत्र – _____ + _____ भोजनं कुरु।
उत्तरम्:
(i) अन्ये + अपि
(ii) सर्वे + अत्र
(iv) शिशो + अपि
(v) साधो + अत्र

‘एङः पदान्तादति’, इति सूत्रानुसार पदान्तयोः ए, ओ इत्येतयोः परतः यदि अकारः आगच्छेत् तर्हि द्वयोः स्थाने पूर्वरूपः अर्थात् ‘ए, ओ’ एव भवति। अकारश्च s इति अवग्रहस्य चिह्वेन दर्श्यते। एषः भेद: ‘पूर्वरूपसन्धिः’ इति कथ्यते।

छात्राः – पूर्वरूपसन्धिरपि स्पष्टः। किं कोऽप्यन्यः भेदः भवति स्वरसन्धेः।
शिक्षकः – आम्, प्रकृतिभावः पररूपश्च एतौ द्वौ अन्यौ भेदो अपि स्तः। परं दशमकक्षायां केवलं षड्भेदाः। अधुना एतेषां पुनरभ्यासम् कुर्मः येन स्वरसन्धिः पूर्णतया हृदयंगमः भवेत्।

अभ्यासः

1. अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

(i) वानराः सर्वत्र वृक्षे अपि _______ कूर्दन्ति।
(ii) के + अत्र _______ विद्यालयम् आगत्य कक्षां न आगताः।
(iii) हे शिशोऽत्र _______ + _______ आगत्य उपविश।
(iv) ते पठन्ति, तावपि _______ + _______ पठतः।
(v) यथा उचितं _______ कार्यं करणीयम्।
(vi) एतत् पुस्तकं तु तवैवास्ति _______ + _______ + _______
(vii) साधूपरि _______ + _______ गच्छतः।
(viii) कविः इन्द्रः _______ नवीनां कवितां श्रावयति।
(ix) कस्मिन्नपि अत्याचार: _______ + _______ तु न करणीयः।
(x) भानो + ए _______ जलार्पणं करणीयम्।
उत्तरम्:
(i) वृक्षेऽपि
(ii) केऽत्र
(ii) शिशो + अत्र
(iv) तौ + अपि
(v) यथोचित
(vi) तव + एव + अस्ति
(vii) साधु + उपरि
(vii) कवीन्द्रः
(ix) अति + आचारः
(x) भानवे

शिक्षकः – छात्राः! हाः अस्माभिः स्वरसन्धिः सम्यगवगतः। अद्य व्यञ्जनसन्धि विसर्गसन्धि चावबोधयामि।
छात्राः – (समवेतस्वरेण) आम् श्रीमन्! वयमपि सन्धेः अन्यान् भेदान् अवगन्तुम् इच्छामः।
(अध्यापक: श्यामपट्टसहायतया पाठयति।)
(छात्राश्च स्वपुस्तिकासु लिखन्ति)

व्यञ्जन-सन्धिः

1. उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

(क) चलत् + अनिशम् – चलदनिशम् एव उन्नतिं करोति।
(i) एतस्मादेव = _______ + _______ पाठात् त्वं पठ।
(ii) जगत् + ईशः = _______ सर्वत्र विद्यमानः।
(iii) यस्य शब्दस्य अन्ते स्वरः सः शब्दः अजन्तः = _______ + _______ कथ्यते।
(iv) शब्दरूपः सुप्+अन्तः = _______ कथ्यते, धातुरूपश्च तिङन्तः।
उत्तरम्:
(i) एतस्मात् + एव
(ii) जगदीशः
(iii) अच् + अन्तः
(iv) सुबन्तः

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 1

(ख) अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
(i) सम्यक् + नेता = __________ एव राष्ट्रोन्नत्यै प्रयतते।
(ii) किन्नु = __________ + __________ खल्विदं लिखितम्।
(iii) सः प्रत्यक्+आत्मा = __________ भूत्वा परोपकारं करोति।
(iv) दिङ्नागः = __________ + __________ ‘कुन्दमाला’ इत्यस्य लेखकः।
(v) वर्षस्य षण्मासाः = __________ + __________’व्यतीताः।
उत्तरम्:
(i) सम्यग्नेता
(ii) किम् + नु
(iii) प्रत्यगात्मा
(iv) दिक् + नागः
(v) षड् + मासाः

(ग) सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।
(i) शरत् + चन्द्र = _________ मम मित्रस्य नाम।
(ii) मनुष्यः ज्ञानेन सफलं कुर्याज्जीवितम् = _________ + _________
(iii) मनस्+चञ्चलम् = _________ हि भवति।
(iv) हरिश्शेते = _________ + _________ वैकुण्ठे।
उत्तरम्:
(i) शरच्चन्द्रः
(ii) कुर्यात् + जीवितम्
(iii) मनश्चञ्चलम्
(iv) हरि: + शेते

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 2

(घ) धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
(i) प्रथमपंक्त्याः बालस् + षष्ठ = ________ पाठं पठेत।
(ii) रामायणं वाल्मीकिना लिखितम्, तट्टीका = ________ + ________ च केन लिखिता?
(iii) मह्यम् पक्षिणाम् उत् + डयनम् = ________ अतीव रोचते।
(iv) टीकां तु लेखकष्टीकते = ________
उत्तरम्:
(i) बालष्षष्ठः
(ii) तत् + टीका
(iii) उड्डयनम्
(iv) लेखकस् + टीकते

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 3

(ङ) अतिथे: सद्-कार:-सत्कार: करणीयः।
(i) परिश्रमी छात्रः एव परीक्षायां सफलतां लभ + स्यते = _______
(ii) दिक्पाल: = _______ + _______ क: भवति?
उत्तरम्:
(i) लप्स्यते
(ii) दिक् + पाल:

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 4

(च) अ. हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
(i) अहम् + पुनः = ________ पाठं पठिष्यामि।
(ii) अपूर्व खलु = ________ + ________ आसीत् नाटके नायकस्य अभिनयम्।
(iii) त्वं माम् = ________ + ________ आकारयसि किम्?
(iv) श्रेष्ठम् + कर्म = ________ एव कर्तव्यम्।
उत्तरम्:
(i) अहंपुनः
(ii) अपूर्वम् + खलु
(iii) त्वम् + माम्
(iv) श्रेष्ठकर्म

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 5

(छ) आ. अति सम् + चयः = सञ्चयः न कर्तव्यः।
(i) शीतकाले शैत्यं कम्पनम् + च = ________ अप्यनुभूयते।
(ii) शीतकाले रात्रौ सञ्चरणम् = ________ + ________ दुष्करम्।
(iii) भुजनगरम् + तु = ________ गुजरातराज्ये अस्ति।
(iv) त्वं किमर्थं कुम् + ठित: = ________ असि?
उत्तरम्:
(i) कम्पनञ्च
(ii) सत् + चरणम्
(ii) भुजनगरमस्तु
(iv) कुण्ठितः

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 6

विसर्ग-सन्धिः

1. उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

(क) हे मित्र! नमः + ते = नमस्ते।
(i) शत्रोः अपि शिरः + छेदः = शिरश्छेदः न करणीयः।
(ii) कठिना परिस्थितिः दारुणः + च = _______ कालः।
(iii) तुरका + तुरझौः = ________ सह धावन्ति।
(iv) धनुष्टङ्कारः = ________ + ________ श्रूयते।
(v) सः कठिन तपस्तेपे = ________ + ________
उत्तरम्:
(ii) दारुणश्च
(ii) तुरश्तुरङ्गैः
(iv) धनु: + टङ्कारः
(v) तपः + तेपे

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 7

(ख) रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
(i) निर्धनः + जन:- निर्धनो जनः धनाभावे सदा दुःखितः भवति।
(ii) चौरः + अयम् = _______ मम स्यूतं चोरितवान्।
(iii) एकस्मिन् वने व्याघ्रः + नष्ट = _______ अभवत्।
(iv) पण्डितो जनः = _______ + _______ विद्वान् भवति।
(v) सः पठति ततोऽसौ = _______ + _______ लिखति।
(vi) तस्य मनोरथ = _______ + _______ सिध्यति।
उत्तरम्:
(ii) चोरोऽयम्
(iii) व्याघ्रोनष्टः
(iv) पण्डितः + जनः
(v) ततः + असौ
(vi) मनः + रथः

(ग) वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 8

(i) वसन्ते प्रकृतिः + एव = प्रकृतिरेव मनोहारिणी।
(ii) कन्या पितुः + गृहत् = _________ त्यक्त्वा पतिगृहं गच्छति।
(iii) नाविक: = _________ + _________ नौकां चालयति।
(iv) नाटककार: कविरपि = _________ + _________ च काव्यं कुरुतः।
(v) अहं पदातिरेव = _________ + _________ विद्यालयम् आगच्छामि।
उत्तरम्:
(ii) पितुर्गृहम्
(ii) नौ + इक:
(iv) कविः + अपि
(v) पदातिः + एव

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 9

(घ) ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।
(i) आकाशे = ________ + ________ कपोता उत्पतन्ति।
(ii) अर्जुनः + उवाच = ________ अहं युद्धं न करिष्यामि।
(iii) विद्यालयं बालका आगच्छन्ति = ________ + ________ पठन्ति च।
(iv) बसयानेन स गच्छति = ________ + ________ विद्यालयम्।
(v) एषः + आगच्छति = ________ कार्यं करोति पठति च।
उत्तरम्:
(i) आ + काशे
(ii) अर्जुनोऽवाच
(iii) आ + गच्छन्ति
(iv) सः + गच्छति
(v) एषागच्छति

अनुनासिकसन्धिः

1. अधोलिखितानि वाक्यानि ध्यानेन पठत-

(क) एतन्न शोभनीयम्।
(i) तन्न उचितम्।
(ii) वाङ्मयं तपः।
(ii) तन्मयो भूत्वा कार्यं कुरु।
(iv) एतन्मुरारिः अस्ति।
(v) तन्नाम किमस्ति।

उपरि लिखितानि सर्वाणि उदाहरणानि अननासिकसन्धेः सन्ति।
अनुनासिकसन्धौ पूर्वपदस्य अन्तिमः वर्ण: यदि वर्गस्य कोऽपि वर्णः भवति, उत्तरपदस्य प्रथमः वर्ण: यदि अनुनासिक वर्णः भवति तदा पूर्वपदस्य अन्तिमवर्णः स्ववर्गस्य पञ्चमवणे परिवर्तितः भवति। यथा-
तन्नाम – तत्(त्) + नाम
वर्गस्य प्रथमः वर्ण: + वर्णस्य अन्तिमः वर्णः
तदा त् वर्णः स्ववर्गस्य अन्तिमे ‘न्’ इति वर्णे परिवर्तितः भवति।
एते सर्वे वर्णाः अनुनासिकवर्णाः सन्ति।
यथा- ङ्, ज्, ण, न्, म्

अभ्यासः

1. अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

(i) हे ईश्वर! सन्मतिं यच्छ।
(ii) हे छात्रा:! सत् + मार्गे चलत।
(iii) प्रलयकाले सर्वत्र अम्मयं भवति।
(iv) जगन्नाथः सर्वान् रक्षति।
(v) तन्मात्रम् एव खाद।
(vi) कक्षायां षट् + नवतिः छात्रा:सन्ति।
(vii) सा जगत् + माता इति रूपेण प्रसिद्धा अस्ति।
(viii) मम सन्मुखे तिष्ठ।
(ix) दिक् + नागः सर्वान् रक्षति।
उत्तरम्:
(i) सत् + मति
(ii) सन्मार्गे
(iii) अत् + मयं
(iv) जगत् + नाथ:
(v) तत् + मात्रम्
(vi) षण्नवतिः
(vii) जगन्माता
(vii) सत् + मुखेः
(ix) दिङ्नागः

तुक् आगम-सन्धिः

2. अधोलिखितानि वाक्यानि पठत-

(i) ग्रीष्मे जनाः वृक्षच्छायां सेवन्ते।
(ii) हे छात्रा:! एकम् अनुच्छेदं लिखत।
(ii) पुरा भारते एकच्छत्र राज्यम् आसीत्।
(iv) आकाशः मेघैः आच्छन्नः अस्ति।
(v) सम्बन्ध-विच्छेद: न करणीयः।
उत्तरम्:
(i) वृक्षः + छायां
(ii) अनु + छेदं
(ii) एक + छत्रं
(iv) आ + छन्न:
(v) वि + छेद:

उपरि यानि रेखाङ्कितपदानि सन्ति तानि सर्वाणि ‘तुक्’ आगम-सन्धेः उदाहरणानि सन्ति।
तुक्-आगम: – सन्धौ यदि पूर्वपदे ‘अ, इ, उ, ऋ स्वराः भवन्ति उत्तरपदे च ‘छ’ भवति तदा उभयो: पदयो: मध्ये ‘च्’ वर्ण: आगच्छति।
परं यदि पूर्वपदे आ, ई ऊ स्वरा: भवन्ति तदा ‘च्’ वर्णस्य आगम: विकल्पेन भवति।
यथा- लक्ष्मी-छाया = लक्ष्मी छाया / लक्ष्मीच्छाया

3. अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

(i) शोधच्छात्राः – ___________
(ii) विच्छेद: – ___________
(iii) अनु + छेदः – ___________
(iv) परि + छेदः – ___________
(v) लक्ष्मीच्छाया – ___________
(vi) वृक्ष + छाया – ___________
(vii) तवः + छवि: – ___________
(viii) वृक्षच्छेदनम् – ___________
(ix) छुरिका + छिन्नः – ___________
(x) शब्दच्छेदः
उत्तरम्:
(i) शोध + छात्रा:
(ii) वि + छेदः
(ii) अनुच्छेदः
(iv) परिच्छेदः
(v) लक्ष्मी + छाया
(vi) वृक्षच्छाया
(vii) तवच्छवि:
(viii) वृक्ष + छेदनम्
(ix) छुरिकाच्छिन्नः
(x) शब्द + छेदः