CBSE Class 7 Sanskrit Sample Paper Set 1

We have given detailed NCERT Solutions for Class 7 Sanskrit come in handy for quickly completing your homework.

CBSE Class 7 Sanskrit Sample Paper Set 1

निर्धारित समय : 3 घंटे
अधिकतम अंक : 90

खण्ड: – क
अपठित-अवबोधनम्

प्रश्न 1.
अधोलिखितं अनुच्छेदम् पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत- (10)
अहम् एका नदी अस्मि। पर्वतेभ्यः निर्गत्य क्षेत्रेषु आगच्छामि। तदा मम सलिलं स्वच्छं, शीतलं मधुरं च भवति। प्रपातः मम प्रथमा अवस्था अस्ति। शनैः शनैः अहम् सागरं प्रति गच्छामि। मम बालुकायुक्तं तटे हरिताः वृक्षाः भवन्ति। वृक्षाणाम् उपरि विविधाः खगाः वसन्ति। स्त्रियः कलशान् गृहीत्वा मम तीरे आयान्ति। पक्षिणाम् कलरवैः, बालकानाम् क्रीडाभिः स्त्रीणां वातालापैः मम तटाः गुञ्जायमानाः भवन्ति। केचन जनाः भोजनस्य अवशिष्टम् मम जले एव पातयन्ति। एवं अवकरैः मम जलं दूषितं भवति?

प्रश्ना:
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) जलम् कैः दूषितं भवति?
(ii) केषाम् उपरि खगाः वसन्ति?

II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) नद्याः तटाः कथम् गुञ्जायमानाः भवन्ति?
(ii) नद्याः जलम् कीदृशं भवति?

III. यथानिर्देशम् उत्तरत- (2 × 2 = 4)

(क) ‘आयान्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(i) जनाः
(ii) स्त्रियः
(iii) मम
(iv) तीरे

(ख) ‘जनाः भोजनस्य अवशिष्टम् पातयन्ति।’ अत्र क्रियापदं किम्?
(i) जनाः
(ii) भोजनस्य
(iii) अवशिष्ट्म
(iv) पातयन्ति

खण्ड: – ख
रचनात्मकम् कार्यम्

प्रश्न 2.
मञ्जूषातः पदानि चित्वा अनुच्छेदस्य रिक्तस्थानानि पूरयत- (10)

कोटिशः, अतिपटुः, सम्पादकः, मदनमोहनः, महामना, प्रयागे, संस्कृतविद्वान, स्थापना, कारावासं, आसीत

श्रीमदनमोहनमालवीयस्य जन्म _______(1)_______ अभवत्। अस्य पिता श्री व्रजनाथः _______(2)_______ आसीत्। प्रयागे बी. ए. परीक्षामुत्तीर्य _______(3)_______ अध्यापकः अभवत्। पश्चात् सः पत्रस्य _______(4)_______ आसीत्। संभाषणे सः _______(5)_______ आसीत्। कालान्तरे सः स्वतन्त्रतासंग्रामे _______(6)_______ अगच्छत्। राजनीतौ सः प्रसिद्धः _______(7)_______। वाराणस्यां सः हिन्दु- विश्वद्यिालयस्य _______(8)_______ अकरोत्। अस्य सञ्चालानाय सः _______(9)_______ रूप्यकाणि संगृहीतवान्। सः जनैः _______(10)_______ इति ख्यातः।

प्रश्न 3.
वाक्यानि रचयत- (1 × 5 = 5)

  1. सूर्यः _________
  2. अश्वः _________
  3. नौका _________
  4. चटका _________
  5. संसारे _________

प्रश्न 4.
चित्रं दृष्ट्वा मञ्जूषायाम् प्रदत्तशब्दानाम् सहायतया पञ्चवाक्यानि पूरयत- (1 × 5 = 5)

CBSE Class 7 Sanskrit Sample Paper Set 1 Q4

पंक्तौ, क्रीडाक्षेत्रस्य, क्रीडित्वा, विशालं, कन्दुकेन

  1. इदम् चित्रम् _______ अस्ति।
  2. क्रीडाक्षेत्रं अति _______ अस्ति।
  3. सर्वे बालकाः _______ क्रीडन्ति।
  4. सर्वे क्रीडकाः _______ तिष्ठन्ति।
  5. कन्दुकेन _______ बालकाः प्रसन्नाः सन्ति।

खण्ड: – ग
अनुप्रयुक्त-व्याकरणं

प्रश्न 5.
वाक्येषु रेखाङ्कितपदानां समुचितं सन्धिं सन्धि-विच्छेदं वा प्रदत्तविकलपेभ्यः चित्वा लिखत- (4)

(क) अद्य विद्यालये अवकाशः अस्ति।
(i) विद्या + आलयः
(ii) विद्या + आलये
(iii) विद्या : लये
(iv) विद्या + आलय

(ख) ईश्वर + इच्छा बलवती।
(i) ईश्वरेच्छा
(ii) ईश्वरिच्छा
(iii) ईश्वरैच्छा
(iv) ईश्वरीच्छा

(ग) अन्वयः कुरुत।
(i) अनु + वयः
(ii) अनु +अयः
(iii) अन् + वयः
(iv) अनू+ वयः

(घ) पो + अनः वहति।
(i) पवनः
(ii) पावनः
(iii) पोनः
(iv) पौनः

प्रश्न 6.
उदाहरणानुसारं शब्दरूपेषु रिक्तस्थानानि पूरयत- (½ × 12 = 6)

CBSE Class 7 Sanskrit Sample Paper Set 1 Q6

प्रश्न 7.
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत- (1 × 4 = 4)

  1. वेदाः ____________ सन्ति। (चत्वारि / चत्वारः / चतस्त्रः)
  2. रामायणे ____________ खण्डानि सन्ति। (सप्ताः / सप्तानि / सप्त)
  3. ____________ ग्रहाः सन्ति। (नवाः / नवानि / नव)
  4. दशरथस्य ____________ भार्या आसन्। (तिस्त्रः / त्रयः / त्रीणि)

प्रश्न 8.
मञ्जूषातः समुचितपदानि चित्वा रिक्तस्थानानि पूरयत- (1 × 4 = 4)

कृत्वा, खादितुम्, लेखितुम्, पठित्वा

  1. श्रमिकः श्रमं ____________ धनम् अर्जयति।
  2. कपोताः तण्डुलकणान् ____________ नीचैः अवातरन्।
  3. छात्राः पाठं ____________ प्रसीदन्ति।
  4. अध्यापकः छात्रम् उचितं उत्तरं ____________ कथयति।

प्रश्न 9.
उचितविभक्तिपदं चित्वा वाक्यपूर्तिः क्रियताम्- (1 × 4 = 4)

1. नरः ____________ पतति।
(i) अश्वस्य
(ii) अश्वात्
(iii) अश्वः
(iv) अश्वम्

2. ____________ उभयतः पुत्रौ तिष्ठतः।
(i) पिता
(ii) पिताम्
(iii) पितरम्
(iv) पित्रा

3. पुत्रः ____________ सह नगरम् अगच्छत्।
(i) जनकेन
(ii) जनकम्
(iii) जनकाय
(iv) जनकस्य

4. ____________ नमः
(i) गणेशं
(ii) गणेशाय
(iii) गणेशः
(iv) गणेशस्य

प्रश्न 10.
उदाहरणानुसारेण धातुरूपेषु रिक्तस्थानानि पूरयत- (1 × 6 = 6)

CBSE Class 7 Sanskrit Sample Paper Set 1 Q10

प्रश्न 11.
उदाहरणानुसारं पदरचनां कुरुत- (1 × 2 = 2)

यथा- खेलति स्म – अखेलत्।

  1. पश्यति स्म _______
  2. चलति स्म _______

खण्ड: – घ
पठित-अवबोधनम्

प्रश्न 12.
अधोलिखितं अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (5)

विश्वस्य उपलब्धासु भाषासु संस्कृतभाषा प्राचीनतमा भाषा अस्ति। भाषेयम् अनेकाषाम् भाषाणाम् जननी मता। प्राचीनयोः ज्ञानविज्ञानयोः निधिः अस्यां सुरक्षितः। संस्कृतस्य महत्त्वविषये केनापि कथितम्-भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा।

इयं भाषा अतीव वैज्ञानिकी। केचन कथयन्ति यत् संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा। अस्याः वाङ्मयं वेदैः, पुराणैः, नीतिशास्त्रैः चिकित्साशास्त्रादिभिः च समृद्धमस्ति। कालिदासादीनाम् विश्वकवीनाम् काव्यसौन्दर्यम् अनुपमम्। कौटिल्यरचितम् अर्थशास्त्रम् जगति प्रसिद्धम् अस्ति।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) कस्य कृते संस्कृत-भाषा सर्वोत्तमा भाषा?
(ii) विश्वस्य प्राचीनतमा भाषा का अस्ति?

II. पूर्णवाक्येन उत्तरत- (2 × 1 = 2)
(i) संस्कृतस्य वाङ्मयं कैः समृद्धम् अस्ति?

III. यथानिर्देशं उत्तरत- (½ × 2 = 1)
(क) ‘अनुपमम्’ इति विशेषणपदस्य विशेष्यपदं किम्?
(i) काव्यसौन्दर्यम्
(ii) अर्थशास्त्रम्
(iii) प्रसिद्धम्
(iv) समृद्धम्

(ख) ‘कोषः’ इति पदस्य स्थाने किम् पदम् प्रयुक्तम्?
(i) जगति
(ii) निधिः
(iii) कृते
(iv) कथितम्

प्रश्न 13.
अधोलिखितं पद्यांशं पठित्वा प्रश्नान् उत्तरत- (1 × 4 = 4)

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।।

प्रश्नाः

  1. मनुष्याणां शरीरस्थो महान् रिपुः कः?
  2. मनुष्यस्य बन्धु कः अस्ति?
  3. किम् कृत्वा मनुष्यः न अवसीदति?
  4. आलस्यं केषाम् महान रिपुः अस्ति?

प्रश्न 14.
श्लोकांशान् मेलयत- (1 × 4 = 4)

CBSE Class 7 Sanskrit Sample Paper Set 1 Q14

प्रश्न 15.
विलोमपदानि मेलयत- (½ × 6 = 3)

CBSE Class 7 Sanskrit Sample Paper Set 1 Q15

प्रश्न 16.
मञ्जूषातः समानार्थकपदानि चित्वा लिखत- (½ × 6 = 3)

मेघः, विशालः, उन्नतः, बाधितः, गगनम्, वृक्षः

  1. विपुलः _________
  2. अवरुद्धः _________
  3. अम्बरम् _________
  4. तुङ्गः _________
  5. अम्बुदः _________
  6. तरू: _________

प्रश्न 17.
स्थूलपदानां स्थाने समुचितं प्रश्नवाचकं प्रदत्तविकल्पेभ्यः चित्वा प्रश्ननिर्माणम् कुरुत- (½ × 4 = 2)

1. विद्या दिक्षु कीर्ति तनोति।
(i) कुत्र
(ii) किम्
(ii) कम्
(iv) का

2. गजस्य वधेनैव मम दुःखम् अपसरेत्।
(i) किम्
(ii) कस्य
(iii) कस्मिन्
(iv) कस्याः

3. चटकायाः नीडं भुवि अपतत्।
(i) किम्
(ii) कः
(iii) का
(iv) काम्

4. अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
(i) के
(ii) कः
(iii) काः
(iv) का।

प्रश्न 18.
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत- (½ × 8 = 4)

  1. रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
  2. 1858 तमे निष्टाब्दे रमाबाई जन्म अभवत्।
  3. सा उच्चशिक्षार्थम् इंग्लैण्डदेशं गतवती।
  4. 1922 तमे निष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्
  5. सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
  6. सा स्वमातुः संस्कृतशिक्षा प्राप्तवती।
  7. सा देश- विदेशानाम् अनेकासु भाषासु निपुणा आसीत्।
  8. तस्याः पिता अनन्तशास्त्री डोंगरे माता च लक्ष्मीबाई आस्ताम्।